१७ दहनान्तरकर्तव्यनिरूपणम्

अथ दहनान्तरकर्तव्यनिरूपणम्

अथ दहनान्तरकर्तव्यम् आह याज्ञवल्क्यः ।

सप्तमाद् दशमाद् वापि ज्ञातयो ऽभ्युपयन्त्य् अपः ।
अप नः शोसुचद् अघम् अनेन पितृविङ्मुखाः ॥ इति ।

सप्तमाद् दिवसाद् अर्वाग् दशमदिवसाद् वा ज्ञातयः समानगोत्राः सपिण्डाः समानोदकाश् च “अप नः शोशुचद् अघम्” इत्य् अनेन मन्त्रेण दक्षिणामुखा अपः अभ्युपयन्तीत्य् अर्थः । एतच् चायुग्मासु तिथिषु कार्यम् “प्रथमतृतीयपञ्चमसप्तमनवमेषूदकक्रिया” इति गौतमस्मरणात् । प्रचेतास् तु यावद् आशौचं तावद् इत्य् आह ।

दिने दिने ऽञ्जनीन् पूर्णान् प्रदद्युः प्रेतकारणात् ।
तावद् वृद्धिः प्रकर्तव्या यावत् पिण्डः समाप्यते ॥

तावद् अञ्जलिवृद्धिः कार्येत्य् अर्थः । अत्र प्रेतोपकारविशेषापेक्षया यावन्त्य् आशौचदिनानि तावद् उदकदानावृत्तिः कार्या । ज्ञातिव्यतिरिक्तानाम् अप्य् उदकदानं कर्तव्यम् इत्य् आह याज्ञवल्क्यः ।

एवं माताहाचार्यप्रेतानाम् उदकक्रिया ।
कामोदकं सखिप्रत्तास्व् अस्त्रीयश्वशुरर्त्विजाम् ॥ इति ।

प्रत्ता परिणीता दुहिता भगिनी च । स्वस्रीयो भागिनेयः । अत्र प्रेतानां मातामहादीनाम् असपिण्डानाम् उदकदानं नित्यं कार्यम्, अकरणे प्रत्यवायश्रव्णात् । सख्यादीनां तु कामतः, करणे ऽभ्युदयः, अकरणे न प्रयवायः ॥

अत्र उअद्कदानविधिः ।

सकृत् प्रसिञ्चन्त्य् उदकं नामगोत्रेण वाग्यताः ।

सपिण्डाः समानोदका बान्धवाश् च वृद्धपूर्वा अमुकनामा प्रेतो ऽमुकगोत्रस् तृप्यन्त्व् इति सकृद् एवोदकं सिञ्चेयुः प्रत्यहम् । ब्रह्मपुराणे ऽपि ।

शवं दग्ध्वा यथान्यायं दृष्ट्वा ज्योतींषि बान्धवाः ।
तिलाङ्गारान् पुरस्कृत्य गच्छेयुः पुत्रसंयुताः ॥
शुद्धम् अस्फुटितं शल्क्ष्णं श्यामं लोहितम् एव वा ।
पाषाणं तत आदाय गत्वा तत्र महाजलम् ॥
सचेलं दण्डवत् स्नात्वा मलं प्रक्षाल्य वर्ष्मजम् ।
महाजलं संप्रविश्य वस्त्रं संशोध्य वारिणा ॥
पुनः सचेलं स्नात्वाथ वाग्यताः सुसमाहिताः ।
वृद्धपूर्वाः सगोत्राश् च बान्धवाश् च समोदकाः ॥
सपिण्डाश् च क्रमात् पुत्राः प्राचीनावीतिनस् तथा ।
दक्षिणाभिमुखाः सर्वे दक्षिणाग्रकुशेषु हि ॥
पाषाणं तत्र निक्षिप्य कृत्वा तु पुरतो ऽवटम् ।
नामगोत्रे समुच्चार्य प्रेतस् तृप्यन्त्व् इति ब्रुवन् ॥
गर्ते सकृत् प्रसिञ्चेयुस् तिलपूर्णं जलाञ्जलिम् ।
पित्रोस् तु यावद् आशौचं तावत् कुर्याज् जलाञ्जलीन् ॥
यद् वा शताञ्जलीन् दद्यात् प्रथमे ऽह्न्य् एकम् अञ्जलिम् ।
द्वितीये त्रीन् अञ्जलींश् च तृतीये पञ्च सप्त च ॥
चतुर्थे पञ्चमे ऽह्न्य् एव नव दद्याज् जलाञ्जलीन् ।
एकादशाञ्जलीन् षष्ठे सप्तमे तु त्रोयोदश ॥
पञ्चदशाष्टमे चैव ततः सप्तदशाञ्जलीन् ।
एकोनविंशतिं दद्युर् दशमे तु शताञ्जलीन् ॥
सप्तत्य् अञ्जलयः केचित् त्रीणि सप्त च पञ्च वा ।
सप्ताष्टनवसंख्याः स्युर् द्विदिने तु दशैव तु ॥
त्रिरात्राशौचिनः कुर्युः प्रथमे त्रिंशद् अञ्जलीन् ।
चत्वारिंशद् द्वितीये ऽह्नि त्रिंशद् दद्याद् अतः शुचिः ॥
सप्तत्यञ्जलिपक्षे तु प्रथमे ऽह्नि द्वितीयके ।
एकैकविंशतिं दद्यात् तृतीये शेषतः शुचिः ॥ इति ।

प्रेचेता अपि ।

दिने दिने ऽञ्जलीन् पूर्णान् प्रदद्यात् प्रेतकारणात् ।
तावद् वृद्धिः प्रकर्तव्या यावत् पिण्डः समाप्यते ॥

तावद् अञ्जलिवृद्धिः कार्येत्य् अर्थः । पैठीनसिः - “स्नात्वा शुचिः प्रेतं मनसा ध्यायन् दक्षिनाभिमुखस् त्रीन् उदकाञ्जलीन् निनयेच् छवदाहप्रभृत्य् एकादशे ऽह्नि विरमेत्” इति । वसिष्ठः - “शरीरम् अग्निना संस्कृत्यानवेक्षमाणा अपो ऽभ्यवयन्ति सव्येतराभ्यां पाणिभ्याम् उदकक्रियां कुर्वीरन्न् अयुग्मासु दक्षिणामुखाः” इति । हारीतः - “निर्हृत्य संस्कर्तापो गत्वाप्लाव्य असौ तृप्यताम् इत्य् उदकाञ्जलिं निनयति” इति । शङ्खलिखितौ - “अथोदकक्रिया प्रेतस्य बान्धवा यथावृद्धम् उदकम् अवतीर्य नोत्कर्षेयुर् अपः प्रसिञ्चेरन् सकृद् दक्षिणामुखाः ब्राह्मणस्य उदङ्मुखाः प्राङ्मुखाश् च राजन्यवैश्ययोर् अपसव्यवासोयज्ञोपवीतिन एतत् ते तत” (?) इति । कात्यायनः ।

तथानवेक्षम् एत्य् आपः सर्व एव शवस्पृशः ।
स्नात्वा सचेलम् आचम्य दद्युर् अस्योदकं स्थले ॥
गोत्रनामानुवादान्ते तर्पयामीत्य् अनन्तरम् ।
दक्षिणाग्रान् कुशान् कृत्वा सतिलं च पृथक् पृथक् ॥
दिने दिने ऽञ्जलिं पूर्णं प्रदद्यात् प्रेतकारणात् ।
तावद् वृद्दिश् (?) च कर्तव्या यावत् पिण्डः समाप्यते ॥ इति ।

प्रचेताः ।

नदीकूलं तथा गत्वा शौचं कृत्वा यथार्थवत् ।
वस्तं संशोधयेद् आदौ ततः स्नानं समाचरेत् ॥
सचेलस् तु पुनः स्नात्वा शुचिः प्रयतमानसः ।
पाषाणं तत आदाय विप्रो दद्याद् दशाञ्जलीन् ॥
द्वादश क्षत्रियो दद्याद् वैश्ये पञ्चदश् स्मृताः ।
त्रिंशच् छूद्रस्य दातव्यास् ततः स्वं प्रविशेद् गृहम् ॥
ततः स्नानं पुनः कार्यं गृहशौचं च कारयेत् ॥ इति ।

बालानाम् अकृतनामधेयानां न किंचित् कर्तव्यम् इत्य् आह मनुः ।

अजातदन्ता ये बाला ये च गर्भाद् विनिःसृताः ।
न तेषाम् अग्निसंस्कारो न विधिर् नोदकक्रिया ॥ इति ।

आपस्तम्बः -

मातुश् च योनिसंबन्धिभ्यः पितुश् चासप्तमात् पुरुषाद् यावतां संबन्धो ज्ञायते तेषां प्रयतेषूदकोपस्पर्शनं गर्भं परिहाप्योपरिसंवत्सरान् मातापितराव् एव कर्तारश् च भार्यायां परमगुरुसंस्थायां वाकालम् अभोजनम् आतुरव्यञ्जनानि कुर्वीरन् केशान् पर्कीर्य पांसून् ओप्यैकवाससो दक्षिणामुखाः सकृत्द् उपम्ज्ज्योत्तीर्य वासः पीडयितोपविशन्त्य् एवं त्रिस् तत् प्रत्ययं तिलमिश्रम् उदकं सगोत्रं नामधेयम् उच्चार्योत्सिच्याप्रतीक्षास् तूष्णीं ग्रामम् एत्य यत् स्त्रिय आहुस् तत् कुर्वन्तीतरेषु चैतद् एके । इति ।

अमुकगोत्रायामुकशर्मणे एतत् तिलोदकं ददामीति प्रयोगः । एवम् उदकं दत्वा पृष्ठतो ऽनवेक्षमाणा ग्रामम् अभ्येत्य गृहं प्रविश्य यत् स्त्रिय आहुस् तत् कुर्वन्ति । इतरेषु भार्यादिभ्यो ऽन्येष्व् अपि मृतेष्व् आकालम् अभोजनं कर्तव्यम् इत्य् एके आचार्या अतिदिशन्ति, स्वमतं तु मातापितृगुरुष्व् एव । एवम् उक्तविधानेनोदकदानानन्तरं पिण्डदानं कर्तव्यम् । तद् उक्तं ब्रह्मपुराणे ।

ग्रामाद् बहिः शुचौ देशे गोमयेनोपलेपिते ।
लौकिकाग्निं प्रतिष्ठाप्य स्नात्वा पात्रेण तेजसा ॥
मृन्मयेनापि कर्तव्यं श्रपणं पितृयज्ञवत् ।
अभिघार्य तम् उद्वास्य पुनर् अप्य् अभिघार्य च ॥
पाषाणं पुरतः स्थाप्य वाग्यतो दक्षिणामुखः ।
दक्षिणाग्रान् कुशाण् स्तीर्य दद्यात् तेषूदकं सकृत् ॥
नामगोत्रे समुच्चार्य पिण्डं दद्यात् समन्त्रकम् ।
पुनस् तिलोदकं दद्याद् एवं दशदिनेषु तु ॥
अशक्तौ प्रथमे ऽह्नि स्यात् पञ्चमे दशमे ऽपि वा ।
त्रिरात्राशौच उत्पन्ने त्रयः पिण्डा दशैव वा ॥
उदकं पिण्डदानं च पुनर् अप्य् उदकं नयेत् ।
वायसेभ्यो बलिं दद्याद् वैवस्वतवरं स्मरन् ॥
अग्नौ जले वा निक्षिप्य स्नात्वा शश्वद् गृहं व्रजेत् ।
ब्राह्मणे दश पिण्डाः स्युः क्षत्रिये द्वादश स्मृताः ॥
वैश्ये पञ्चदश प्रोक्ताः शूद्रे त्रिंशत् प्रकीर्तिताः ॥ इति ।

शातातपो ऽपि ।

आशौचस्य तु निर्ह्रासे पिण्डान् दद्युर् दशैव तु ॥ इति ।

दशपिण्डनियमनं ब्राह्मनविषयम् । अत्र पिण्डसंख्यानियमविशेषो यमेन दर्शितः ।

दश पिण्डा ब्राह्मणस्य द्वादश् क्षत्रियस्य तु ।
दश पञ्च च वैश्यस्य शूद्रस्य त्रिंशद् एव तु ॥ इति ।

स्मृत्यन्तरे ऽपि ।

नवभिर् दिवसैर् दद्यान् नव पिण्डान् समाहितः ।
दशमं पिण्डम् उत्सृज्य रात्रिशेषे शुचिर् भवेत् ॥ इति ।

यत् तु स्मृत्यन्तरम्,

सायं प्रातर् द्विजाग्र्याणां पिण्डम् अप्य् उदकं ततः ।
विंशतिं पिण्डम् उत्सृज्य ब्राह्मणः शुचिताम् इयात् ॥

इति, तत् येषां शाखिनां गृह्ये सायं प्रातर् इत्य् उक्तं तच्छाखिनाम् एव, नान्येषम् । आशौचनिर्ह्रासपक्षे पारस्करः ।

प्रथमे दिवसे दद्यात् त्रीन् पिण्डान् सुसमाहितः ।
द्वितीये चतुरो दद्याद् अस्थिसंचयनं ततः ॥
त्रींस् तु दद्यात् तृतीये ऽह्नि वस्तादीन् क्षालयेद् ततः ॥ इति ।

विष्णुः - “प्रेतस्योदकनिर्वापणं कृत्वैकपिण्डं कुशेषु दद्युः” इति । प्रत्येकम् इति शेषः । दद्युर् इत्य् उदकदानोपलक्षणं (?) पिण्डदानम् । तिलोदकपिण्डदाने विशेषम् आह विष्णुः ।

तिलोदकं तथा पिण्डं नवश्राद्धं तथैव च ।
रात्रौ न कुर्यात् संध्यायां यदि कुर्यान् निरर्थकम् ॥ इति ।

अत्रापकर्षम् आह पारस्करः ।

गृहीत्वा प्रेतपाषाणं गच्छेद् देशविपर्यये ।
अपकृष्यापि कुर्वीत न त्व् एतद् अवशेषयेत् ॥
उदकं पिण्डदानं च दशाहाभ्यन्तरं तु यत् ।
कार्यम् एतद् दशाहे तत् सर्वं पूर्ववद् आचरेत् ॥ इति ।

शिलादिविपर्ययेर् स्मृत्यन्तरम् ।

आशौचमध्ये पाषाणो यदि नश्येच् छिलान्तरे ।
पूर्वदत्ताञ्जलीन् दद्यात् पिण्डदानं समापयेत् ॥
प्रथमे ऽहनि यः कर्ता नारी वा पुरुषो ऽथ वा ।
आ दशाहं प्रकुर्वीत पिण्डदानोदकक्रियाः ॥
यदि भ्रष्टो मृतो वापि कर्ता अन्यः समापयेत् ।
तेनैव कारयेत् पिण्डान् उदकं तु सपिण्डकैः ॥ इति ।

अन्तर्दशाहे दशादिसंभवे ऋश्यशृङ्गः ।

आशौचम् अन्तरा दर्शो यदि स्यात् सर्ववर्णिनः ।
समाप्तिं प्रेततन्त्रस्य कुर्युर् इत्य् आह गौतमः ॥ इति ।

भविष्यत्पुराणे ।

प्रवृत्ताशौचतन्त्रस् तु यद् दर्शं प्रदद्यते ।
समाप्य चोदकं पिण्डं स्नानमात्रं समाचरेत् ॥ इति ।

पैठीनसिः ।

आद्यैन्दवे तु कर्तव्याः पिण्डदानोदकक्रियाः ।
द्विरैन्दवे तु कुर्वाणः पुनः शावं समश्नुते ॥
त्रयोदश्यां कलामात्रतिथौ यस्य मृतिर् भवेत् ।
नातिक्रम्य सिनीवालीं कुर्यात् तस्योदकक्रियाः ॥

अङ्गिराः ।

चतुर्दशीक्षणमृतस् ततः प्राप्नोत्य् अमातिथिः ।
पिण्डोदकं दशाहान्तं तस्मिन्न् एवाहनि क्षिपेत् ॥\
एकादशे ऽहनि श्राद्धं कुर्याद् इत्य् अङ्गिरो ऽब्रवीत् ॥ इति ।

एतत् सर्वं मातापितृव्यतिरिक्तविषयम् । तिथिद्वये विशेषम् आह गालवः ।

पित्रोर् आशौचमध्ये यदि दर्शः समापयेत् ।
तावद् एवोत्तरं तन्त्रं पर्यवस्येत् त्र्यहात् परम् ॥ इति ।

स्मृत्यन्तरे ऽपि ।

पित्रोर् आशौचमध्ये तु दर्शश् चेत् त्रिदिनात् परम् ।
तावद् एवोत्तरं तन्त्रं समाप्यम् इति निश्चयः ॥
दशाहमध्ये दर्शश् चेत् पिण्डदानं तिलोदकम् ।
पितृभ्यां तु विनान्येषां दर्शेनैव समापयेत् ॥ इति ।

वसिष्ठः ।

अन्तर्दशाहे दर्शश् चेत् तन्त्रं सर्वम् समापयेत् ।
पित्रोस् तु यावद् आशौचं तावत् कुर्याद् अतन्द्रितः ॥
दर्शः संक्रमणं वापि दशाहान्तर् यदा भवेत् ।
अन्येषां प्रेतकार्याणि समाप्यानीति चापरे ।
सा तिथिर् यद्य् अतिक्रान्ता प्रेतत्वं न च मोचयेत् ॥ इति ।

गालवः ।

अशौच्म् अन्तरा दर्शो यदि स्यात् सर्ववर्णिनः ।
पिण्डदानोदकं सर्वम् अपकृष्य समापयेत् ॥
दद्याद् अपः सपिण्डानां समानोदकिनां तथा ।
द्विचन्द्रदर्शनात् सद्यः सकलं कर्म नश्यति ॥ इति ।

इति स्मृतिचन्द्रिकायां दहनान्तरकर्तव्यनिरूपणम्