१६ प्रेतदाहादयः

अथ प्रेतदाहादिविषयाणि

तत्र त्रिकाण्डिमण्डनः ।

प्रत्यक्षे चाप्रतिहतौ संस्कारेण च शोधनम् ।
कुर्यात् तत्राधरोच्छिष्टे प्राजापत्यत्रयं चरेत् ॥
ऊर्ध्वोच्छिष्ट्ē ऽपि च तथा प्राजापत्यान् षड् आचरेत् ।
पराशरस् तु त्रीन् प्राह भृगुः पञ्च षड् अङ्गिराः ॥
अस्पृश्यस्पृष्टमरणे कृच्छ्रान् षड् गौतमो ऽब्रवीत् ।
प्रायश्चित्तं तु सर्वस्य शक्तो द्वादशवार्षिकम् ॥
विप्रवाक्यानुसारेण प्रत्याचार्यविधिर् यथा ।
कृत्वा तु दहनं कुर्याद् अन्यथा किल्बिषी भवेत् ॥
कर्ताधिकारसिद्ध्यर्थं त्रीन् कृच्छ्रान् पञ्च सप्त वा ।
चरेद् यद् वा तु दानाद्यैः पैतृमेधिकम् आचरेत् ॥ इति ।

दाहादिकं स्नापनानन्तरम् एव कार्यम् । तद् आह कात्यायनः ।

दुर्बलं स्नापयित्वा तु शुद्धचेलाभिसंवृतम् ।
दक्षिणाशिरसं भूमौ बर्हिष्मत्यां निवेशेयेत् ॥
घृतेनाभ्यक्तम् आप्लाव्य सवस्त्रम् उपवीतिनम् ।
चन्दनोक्षितसर्वाङ्गं सुमनोभिर् विभूषितम् ॥
तथा नलमयीं मालाम् आबध्य च विभूषितम् ।
हिरण्यशकलान्य् अस्य क्षिप्त्वा छिद्रेषु सप्तसु ॥
मुखे वस्त्रं पिधायैनं निर्हरेयुः सुतादयः ।
प्राचीनावीतिनो भूत्वा गच्छेयुर् मौनम् आश्रिताः ॥ इति ।

अत्र ब्राह्मणादिशवनिर्हरणे दिङ्नियमो मनुना दर्शितः ।

दक्षिणेन मृतं शूद्रं पूर्वद्वारेण निर्हरेत् ।
पश्चिमोत्तरपूर्वेषु यथायोगं द्विजन्मनः ॥ इति ।

वसिष्ठः ।

औदुम्बर्याम् अथासन्ध्यां वहेद् ऊर्ध्वमुखं शवम् ।
न ग्रामाभिमुखं नाधो नयेयुर् याम्यशीर्षकम् ॥
वृद्धाः प्रेतस्य पुरतः स्त्रियो बालाश् च पृष्ठतः ।
अधःकृतोत्तरीयाः स्युः प्रविमुक्तशिरोरुहाः ॥
गच्छेयुर् बान्धवाः पश्चान् नाग्नेः प्रेतस्य चान्तरे ॥ इति ।

कात्यायनः ।

आमपात्रे ऽन्नम् आदाय प्रेतम् अग्निपुरःसरम् ।
एको ऽनुगच्छेत् तस्यार्थम् अर्धं पथ्य् उत्सृजेद् भुवि ।
अर्धम् आदहनं प्राप्त आसीनो दक्षिणामुखः ।
सव्यं जान्व् आच्य शनकैः सतिलं पिण्डदानवत् ॥ इति ।

पिण्डदानविधिना आदहनात् श्मशानपर्यन्तम् आसीनो भुवि निक्षिपेद् इत्य् अर्थः । गौतमः ।

आग्नेय्यां वाथ नैरृत्यां दाहदेशं प्रकल्पयेत् ।
उद्वास्य कण्टकान् वृक्षान् वानस्पत्यौषधीर् अपि ॥
ऊर्ध्वबाहुमितं याम्यं खातं प्राग्दक्षिणायतम् ।
पञ्चारत्निमितं कुर्युर् अधस्ताद् द्वादशाङ्गुलम् ॥
दक्षिणाग्रान् कुशान् स्तीर्य तिलान् क्षिप्त्याथ यावकान् ।
काष्ठैर् ऊर्धमुखं दह्यान् न नग्नं तु यथा हविः ॥ इति ।

व्याघ्रो ऽपि ।

नाधोमुखं न नग्नं च दहेयुर् मलदूषितम् ।
अयज्ञियसमिद्भिश् च चण्डालपतिताहृतैः ॥
क्रिमिकीटादिदुष्टैश् च न दहेत् तु चिरन्तनैः ।
वस्त्रं परित्यजेद् अर्धम् अर्धं तु परिधापयेत् ॥

प्रचेताश् च ।

स्नानं प्रेतस्य पुत्राद्यैर् विधेयं पूजनं ततः ।
न नग्नं तु दहेद् वस्त्रं किंचिद् देयं परित्यजेत् ॥

अर्धं श्मशानवासिने देयम् इत्य् अर्थः । वृद्धपराशरः ।

प्रेतस्पर्शनसंस्कारे ब्राह्मणो नैव दुष्यति ।
वोढा चैवाद्निदाता च सद्यः स्नात्वा विशुध्यति ॥

एतद् अनाथब्राह्मणविषयम्,

अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः ।
पदे पदे यज्ञफलम् आनुपूर्याल् लभन्ति ते ॥
न तेषां अशुभं किंचित् पापं वा शुभकर्मणाम् ।
जलवगाहनोत्तषां (?) सद्यःशौचं विधीयते ॥

इत्य् उक्तत्वात् । यत् तु देवलेनोक्तम्,

अह्नि चेद् दहनं कुर्याद् ऊर्ध्वम् अस्तमयाद् रवेः ।
स्नात्वा गृहं विशेद् विप्रो रात्रौ चेद् उदयाद् रवेः ॥

इति, यद् अपि हारीतेनोक्तम् - “प्रेतस्पर्शे न ग्रामं प्रविसेयुर् आ नक्xअत्रदर्सनाद् रात्रौ चेद् आदित्यस्य” इति, तन् मोहादिनाकरणीये वेदितव्यम् । यत् त्व् अङ्गिरसा,

यः कश्चिन् निर्हरेत् प्रेतम् असपिण्डः कथंचन ।
स्नात्वा सचेलं स्पृष्ट्वाग्निं तस्मिन्न् एवाह्नि वै शुचिः ॥

इति, तद् धनलोभादिना श्रोत्रियब्राह्मणनिर्हरणं कुर्वतो ऽसपिण्डस्याशौचम् अस्तीत्य् एवंपरम् । तथा च मनुः ।

असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।
विसुद्ध्यति त्रिरात्रेण मातुर् आप्तांश् च बान्धवान् ॥
यद्य् अन्नम् अत्ति तेषां हि स दशाहेन शुद्ध्यति ।
अनदन्न् अन्नम् अह्नैव न चेत् तस्मिन् गृहे वसेत् ॥ इति ।

यस् तु प्रेतनिर्हरणं कृत्वा तस्मिन्न् एव गृहे वसति न च तत्रान्नम् अश्नाति तत्र त्रिरात्रम् आशौचं कार्यम् । गौतमः - “अवरश् चेद् वर्णः पूर्ववर्णम् उपस्पृशेत् पूर्वो वावरं तत्र शवोक्तम् आशौचम्” इति । उपस्पर्सनं निर्हरणम् । ब्राह्मणस्य शूद्रशवनिर्हरणे दशरात्रम् आशौचं भवतीत्य् अर्थः । यस् त्व् अर्थलोभाद् असवर्णशवनिर्हरणं करोति तस्य द्विगुणम् आशौचं व्याघ्र आह ।

अवरश् चेत् परं वर्णं परो वाप्य् अवरं यदि ।
वहेच् छववद् आशौचं दृष्टार्थे द्विगुणं भवेत् ॥ इति ।

असवर्णे तु निर्हरणे यद् उक्तम् आशौचं तद् दृष्टार्थे द्विगुणम् आशौचं भवतीत्य् अर्थः । यत् त्व् आदिपुराणम्,

असवर्णं तु मूल्येन नीत्वा चैव दहेन् नरः ।
आशौचं तु भवेत् तस्य प्रेतजातिसमं सदा ॥

इति, तद् अपद्विषयम् । यस् तु सपिण्डम् एव प्रेतं निर्हरति न तस्याशौचाधिक्यम्, प्रेतनिर्हरणस्य विहितत्वात् । तथाह देवलः ।

विहितं तु सपिण्डानां प्रेतनिर्हरणादिकम् ।
तेषां करोति यः कश्चित् तस्याधिक्यं न विद्यते ॥

आधिक्यम् आशौचाधिक्यम् इत्य् अर्थः । समानोदकनिर्हरणे दशाहम् । तद् आह स एव ।

यः समानोदकं प्रेतं वहेद् वाथ दहेत वा ।
तस्याशौचं दशाहं स्याद् अन्येषां तु त्र्यहं विदुः ॥ इति ।

ब्रह्मचारिणः प्रेतनिर्हरणे व्रतलोपो ऽस्त्य् एव । तथाह देवलः ।

ब्रह्मचारी न कुर्वीत शवदाहादिकाः क्रियाः ।
यदि कुर्याच् चरेत् कृच्छ्रं पुनःसंस्कारम् एव च ॥ इति ।

पित्रादिशवदहने तु न दोषः । तद् आहतुर् मनुदेवलौ ।

आचार्यं स्वम् उपाध्यायं पितरं मातरं गुरुम् ।
निर्हृत्य तु ब्रह्मचारी न व्रतेन वियुज्यते ॥ इति ।

ब्राह्मणशववहनादौ शूद्रं न नियोजयेत् । तद् आह मनुः ।

न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण वाहयेत् ।
अस्वर्ग्या ह्य् आहुतिः सा स्याच् छूद्रसंस्पर्शदूषिता ॥

अत्र स्वेषु तिष्ठत्स्व् इति वचनं न विवक्षितम्, अस्वर्ग्यत्वदोषश्रवणात् । मृतं द्विजं न शूद्रो निर्हरेच् छूद्रम् अपि न द्विज इति ॥

इति स्मृतिचन्द्रिकायां प्रेतदाहादिविषयाणि