१५ अग्निप्रवेशप्रकारः

अथाग्निप्रवेशप्रकार उच्यते

यदा भर्तरि मृते सति पत्नी अनुगमनं कर्तुम् असमर्था सती अग्निप्रेवेशेन देहत्यागं कर्तुं वाञ्छति तदा पुत्रादिः कर्ता तां पतिव्रताम् अग्निं प्रवेसयेत् । मृते भर्तरि सति तत्पूर्वं पतिव्रता स्नात्वाचम्य भर्तुः प्राणदानं कृत्वा वाहकैर् नीयमानं प्रेतम् अनुमन्त्र्य श्मशानदेशं गत्वा भर्तुः संकारान्ते तटाके वा नद्यां वा स्नात्वा हरिद्रानुलेपनं गन्धपुष्पभूषणानि धृत्वा हरिद्रावस्त्रं च परिधायाचम्य भर्तुः समीपं गच्छेत् । ततः पुत्रादिः कर्ता चितेर् उत्तरभागे दक्षिणाग्रान् दर्भान् आस्तीर्य तत्र ताम् उपवेश्य दक्षिणाभिमुखं कृत्वा “आप्यायस्व” इति तां पञ्चगव्या मार्जयित्वा “आपो हिष्ठा मयो भुवः” इति, “हिरण्यवर्णाः” इति च मार्जयित्वा ततः प्रेतपत्नीं प्रेतसमीपे निधाय प्रेतभुजागौ “य एतस्य” इत्यादिनाज्याहुतीः पूर्णाहुतिं च हुत्वा आज्यस्थालीं स्रुवम् अग्निं प्रेतपत्नीं चितेः पश्चात् प्राङ्मुखम् उपवेश्य पुनर् आज्यम् आनीय तस्याः शिरसि दर्भाग्रेण धाराकारेण “भूः स्वाहा भुवः स्वाहा भुवः स्वाहा भूर् भुवः सुवः स्वाहा” इत्य् आज्यहोमं कुर्यात् । ततः प्रेतपत्नी चितेर् उत्तरभागे दक्षिणाभिमुखी स्थित्वा साक्षतोदकम् अञ्जलिं गृहीत्वा,

त्रयीमय त्रिमूर्त्य् आत्मन् तैलोक्यैकप्रदीपक ।
ग्रहनायक सप्ताश्व गृहाणार्ध्यं नमो ऽस्तु ते ॥

इति सूर्यायार्घ्यं दत्वा,

मनोवाक्कायजं भर्तुर् वाग्विलङ्घनजं च यत् ।
तत् पापं नाशयाशु त्वं सप्तजिह्व नमो ऽस्तु ते ॥

इत्य् अग्नौ फलम् एकं दत्वा दक्षिणापादपूर्वकम् अग्निप्रवेशं कुर्यात् । एवं प्रेतं दहित्वानन्तरा ज्ञातव्यः सर्वान् केशान् वापयेयुः । अन्यकर्तुर् विषये यथाकृतकर्तृविशेषवचनानि श्राद्धप्रकरणगतानि ॥

**इति स्मृतिचन्द्रिकायां संस्कर्तृनिरूपणम् **