१४ स्त्रीणाम् अग्निप्रेवेशः

अथ स्त्रीणाम् अग्निप्रेवेशकर्मोच्यते

प्रवेशश् चानुगमनं स्त्रीणाम् एव विधीयते ।
अमन्त्रकं तु शूद्राणां प्रवेशविधिर् उच्यते ॥

यस्य कस्यचिद् ब्राह्मणस्य मरणकाले संप्राप्ते तत्पत्नी मङ्गलस्नानं कृत्वा धौतवस्त्रं परिधायाचम्य गन्धपुष्पादीनि धृत्वा भर्तुः समीपं गत्वा ब्राह्मणान् आहूय “पूर्वोक्तैवंगुणविशेषणविशिष्टायां पुण्यतिथौ विष्णुरूपेण भर्त्रा सह ब्रह्मलोके निवाससिध्यर्थं भर्त्रा सहानुगमनं करिष्ये” संकल्प्य दर्भाक्xअतसहितं जलं धृत्वा पतिव्रता पूर्वाभिमुखी समासीना ।

सर्वकामप्रदायास्मै पतिरूपाय विष्णवे ।
मम देहं प्रदास्यामि स्थातुं वै स्वर्गमन्दिरे ॥
भूमिर् वियज् जलं तेजो वायुश् च जगदीश्वराः ।
सप्तर्षयश् च कालश् च साक्xइणः सर्वदेवताः ॥
मत्कृतं पातकं यच् च मनोवाक्कायसंभवम् ।
तत् सर्वं नाशम् आप्नोतु वह्नौ देहं विसर्जये ॥

अस्मै भर्ते स्रीमहाविष्णुस्वरूपाय मदीयब्रह्मलोकनिवाससिद्धिं कमयमानामुकगोत्राय तुभ्यम् अहं संप्रददे न ममेति प्राणदानं कुर्यात् । कर्ता आसन्द्यां दक्षिणाग्रान् दर्भान् अस्तीर्य तत्र शवं निधाय शवस्य वामभागे तत्पत्नीं निधाय “संगच्छध्वम्” इति दर्भरज्जुना प्रेतपत्नीं चबध्य वाहकैर् नीयमानं प्रेतम् अनुगत्वा चितेर् दक्षिणभागे अग्निं प्रतिष्ठाप्य आज्यभागान्ते चितिमध्ये दक्षिणशिरसं शवं निधाय पत्नीं तस्य वामभागे निक्षिप्य तयोर् भुजयोर् मध्ये “मैनम् अग्ने” इत्य् अग्निं दत्वा ततः कर्ता प्राचीनवीती दर्भपाणिर् अञ्जलिं बध्वा “सूर्यं ते चक्षुःशरीरैर् अग्ने । । ।” इत्य् अनुमन्त्र्य स्रुवेणाज्यं गृहीत्वा “य एतयोः पथो गोप्तारः स्वाहा” इत् हुत्वा दहेत् ॥

इति अनुगमनविधिः