१३ संस्कर्तृनिरूपणम्

अथ संस्कर्तृनिरूपणम्

तत्र पुत्रबहुत्वे ऽग्निप्रदानं सर्वैर् न कर्तव्यम्, अपित् तु ज्येष्ठेनैव कर्तव्यम् । तथा च मरीचिः ।

सर्वैर् अनुमतिं कृत्वा ज्येष्ठेनैव तु यत् कृतम् ।
द्रव्येण चाविभक्तेन तत् सर्वैस् तु कृतं भवेत् ॥ इति ।

मत्स्यपुराणे ऽपि ।

प्रेतस्य पुत्रो दाहादि कुर्याद् एवैरसः सुतः ।
बहुत्वे तु गुणी दद्यात् समत्वे ज्येष्ठ एव तु ॥ इति ।

ऋष्यशृङ्गो ऽपि ।

पुत्राणां मध्यमो वापि कनिष्ठो ज्येष्ठ एव वा ।
पितुर् यश् च प्रियतमः सर्वं तेनैव कारयेत् ॥
पुत्राः सर्वे पितृद्विष्टाः पत्नी भ्राता सखापि वा ।
अग्निदाहादिकर्माणि कुर्युः पुत्र्यादयः (?) पितुः ॥ इति ।

अग्निदानाधिकारी रोगादिनाशक्तश् चेद् आह जमदग्निः ।

ज्येष्ठपुत्रेण कर्तव्याः पिण्डदानोदकक्रियाः ।
अशक्तो ऽप्य् अग्निदः पुत्रः शेषम् अन्येन कारयेत् ॥

वसिष्ठो ऽपि ।

ज्येष्ठे संनिहिते चार्ते वर्तमाने क्रियान्तरे ।
पित्रोः पुत्रेण कर्तव्यं द्वितीयेनानुजेन वा ॥
पित्रोः सपिण्डीकरणं ज्येष्ठेनाकरणं यदि ।
पुनर् ज्येष्ठेन कर्तव्यं पिण्डनिर्वापणे कृते ॥
दम्पत्योर् मरणे प्राप्ते दशाहाभ्यन्तरे यदि ।
ज्येष्ठेनैव तु कर्तव्यं मातापित्रोस् तु तत्क्रियाः ॥

तथा पुत्राभावे सपिण्डादिना कर्तव्यम् । तथाह पारस्करः ।

पुत्रो भ्राताथ दौहित्रो ज्ञातिर् जामातृको ऽपि वा ।
प्रथमे ऽहनि यो दद्यात् स दशाहं समापयेत् ॥

पुत्राभावे पितृसपिण्डाः शिष्याश् च । तदभावे ऋत्विगाचार्यादिः । भृगुर् अपि ।

असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् ।
प्रथमे ऽहनित् यो दद्यात् स दशाहं समापयेत् ॥
अस्थिसंचयनाद् अर्वाग् आगतो यदि पुत्रकः ।
तदादि कर्म कुर्वीत दाहको विसृजेच् च तत् ॥
अस्थिसंचयनाद् ऊर्ध्वम् आगतो यदि पुत्रकः ।
प्रथमे ऽहनि यो दद्यात् स दशाहं समापयेत् ॥ इति ।

तथा प्रथमे ऽहनि यद् द्रव्यं पिण्डार्थं दशाहान्तं तद् एवाद्रव्यम् । तद् उक्तं शुनःपुच्छेन ।

शालिना सक्तुभिर् वापि शाकेनाप्य् अथ निर्वपेत् ।
प्रथमे ऽहनि यद् द्रव्यं दशाहान्तं च तद् भवेत् ॥

यज्ञपार्श्वः ।

अपुत्रस्य तदासन्नो दद्यात् पिण्डोदकादिकम् ।
आ समाप्तेः प्रतिदिनं त्व् अन्यथा किल्बिषी भवेत् ॥

पित्रोः संस्कारे ज्येष्ठ एव कर्ता, तदभावे ऽसंनिधौ चानुजः । पुत्राभावे प्रत्यासन्नः सपिण्डादिः । तदसंनिधाने ऽनन्तरः संस्करोति तथा, यथा दशाहमध्ये प्रत्यासन्नसांनिध्ये ऽपि स दशाहं समापयेत्, नोर्ध्वम् । यदि रोगादिना पुत्रादिर् असमर्थो भवति तदा दशाहान्तम् अन्येन कारयेत्, आर्ते प्रतिनिधिदर्शनात् प्रायश्चित्तादर्शनाच् च । यदा तु “असगोत्रः सगोत्रः” इत्यादिना शाखान्तरकर्ता तदा स्वशाखया पितृमेधः । अन्यथा चेत् पुनः संस्करणं कर्तव्यम् । तद् आह कात्यायनः ।

प्रक्रिया त्रिविधा प्रोक्ता विद्वद्भिः कार्यकारिभिः ।
अक्रिया च परोक्ता च तृतीया चायथाक्रिया ॥
स्वशाखाविधिम् उत्सृज्य परशाखाश्रयं तु तत् ।
कर्तुर् महति दुर्मेधा मोघं तस्य च तत्फलम् ॥
यन् नाम्नातं स्वशाखायां पारक्यम् अविरोधि यत् ।
विद्वद्भिस् तद् अनुष्ठेयम् अग्निहोत्रादिकर्मवत् ॥
यत्कर्मणि द्रव्यविधिर् यथोक्तस् तथैव कर्ता यदि चान्यधा (?) स्यात् ।
तत् कर्म कुर्वीत पुनर् यथोक्तं तन्त्रस्य लोपे न पुनः क्रिया स्यात् ॥
प्रधानस्याकियायां (?) तु साङ्गं तत् क्रियते पुनः ।
तदङ्गाकरणे कुर्यात् प्रायश्चित्तं न कर्म तत् ॥ इति ।

अत्र प्रधानस्य कर्मणो ऽकरणे तत् साङ्गम् एव पुनः कर्तव्यम् । तदङ्गाकरणे तस्याङ्गस्य नावृत्तिः । नापि तावन्मात्रस्याङ्गस्य करणम्, किं तु प्रायश्चित्तम् एव कार्यम् ॥