१२ अग्निनिर्णयः

अथाग्निनिर्णयः

उपनयनाद् ऊर्ध्वं मरणे ऽग्न्युदकदानविधिम् आह याज्ञवल्क्यः ।

स दग्धव्य उपेतस् चेद् आहिताग्न्युआवृतार्थवत् । इति ।

उपनीतश् चेन् मृतः आहिताग्न्यावृता आहिताग्निसंस्कारप्रकारेण अर्थवत् प्रयोजनवद् यथा भवति तथा दग्धव्यः । अयम् अभिप्रायः - येषां भूशोधनदर्भास्तरणप्रोक्षणादीनाम् आहिताग्निविहितसंस्काराणां द्वारकार्यरूपं प्रयोजनम् अस्ति तान्य् अनुष्ठेयानि । लुप्तार्थानि पात्रसंयोजनादीनि त्व् अननुष्ठेयानि, यथा - कृष्णलेष्व् अतिदेशप्राप्तेषु अवघातप्रोक्षणादिषु द्वारलोपाद् अवघातादीनाम् अननुष्ठानं प्रोक्षणादीनां त्व् अनुष्ठानम् इति । सान्ततिके चैवम्, मैत्रावरुणविधानात् । सान्तातिकम् इति जातकर्मप्रभृति यो ऽग्निर् दार्यते तस्मिन्न् एव सर्वाणि कर्माणि क्रियन्ते कुमारस्य चौलप्रभृत्य् अरण्योः समारोपणम् आ विवाहात् । ब्रह्मचार्यनुपनीतकन्यानां लौकिकेन कापालेन वा दहनम् । तस्योत्पत्तिर् अरण्योर् उत्पत्तिवत् । लौकिकाग्निग्रहणं जातारण्योर् अभावेन । तत्सद्भावे तु तत्र मथित्वाग्निर् ग्रह्य इति । तथा च यज्ञपार्श्वः ।

बालस्य दहनं कार्यं कपालेनैव वह्निना ।
लौकिकेनापरे प्राहुः जातारण्योस् तथा परे ॥ इति ।

कात्यायनो ऽपि ।

दहनं ब्रह्मचारिणां मृतानां त्यक्तवह्निनाम् ।
विधुराणां यतीनां च पतितानां च योषिताम् ॥
कपालवह्निना दाहः स्वशाखोक्तविधानतः ।
गृहस्थं प्रदहेद् एवं विवाहोत्पन्नवह्निना ॥
त्रेताग्निभिश् चाहिताग्निम् इति याज्ञिकसंमतम् । इति ।

वसिष्ठः - “कपालम् अग्निवर्णं तप्त्वान्तरे करीषादि निषिप्य तत्र जातो यो ऽग्निः स कपालागिः” इति । गृह्यकारिका ।

विहीनभार्यस्य मृतस्य वह्निः उत्तापनः स्याद् अथ लौकिको वा ।
अभर्तृकायाश् च तथा स्त्रियश् च पाणिग्रहात् पूर्वमृतौ शोशोश् च ॥ इति ।

वृद्धयाज्ञवल्क्यः ।

आहिताग्निर् यथान्यायं दग्धव्यस् त्रिभिर् अग्निभिः ।
अनाहिताग्निर् एकेन लौकिकेनापरे जनाः ॥

वृद्धवसिष्ठो ऽपि ।

तुषाग्निना दहेत् कन्यां व्रीहिभिर् वा यवेन वा ।
अथ वोत्तपनीयेन कापालेनानलेन वा ॥
यतिं च ब्रह्मचारिणं दहेत् कापालवह्निना ।
अथ वोत्तपनीयेन तुषेणैवपरे विदुः ॥
दर्भेष्व् अग्निं समारोप्य पुनर् दर्भेषु संस्थितः ।
पुनर् दर्भतृतीयेषु वह्निर् उत्तापनः स्मृतः ॥
कपालम् अग्नौ निक्षिप्य तप्ते चैव तुषं क्षिपेत् ।
करीषं वा समुत्पन्नस् तुषे तु तुषपवकः ॥
यावत् तप्तकपालेन केवलेनाग्निसंभवः ।
तावत् कलापसंभूतः पावकः परिकीर्तितः ॥
यस्मिन् देशे स्थितो वह्निस् ततो ऽन्यत्र मृतो यदि ।
चरुः पाथिकृतः कार्यः पूर्णाहुतिर् अथापि वा ॥

औपासनाग्निसमीपस्थानं नीत्वा तस्मिन्न् अग्नौ पाथिकृतेष्टिं पूर्णाहुतिं वा हुत्वा प्रेतसंस्कारं कुर्यात् सर्वथान्यदेशे विधिना दहेत् । तद्विषये प्रेताधानं कार्यम् । तावन्तं कालम् अग्नेः का गतिः । उच्यते ।

अन्यदीयेन वत्सेन या गोः स्नुतपयोधरा ।
आ शरीराहुतेस् तस्याः पयसा होम इष्यते ॥
अन्यस्या अपि होतव्यं पयसा तदभावतः ।
यद् त्व् अनौपासनादग्धस् तं विध्युक्ताग्निना दहेत् ॥ इति ।

स्वशाख्याव्यतिरिक्तविधिना दग्धम् अपि पुनः स्वशाखोक्तविधिना दहेत् । तथा,

संस्कुर्यात् तु पुनर् दग्धम् अनौपास्येन वह्निना ।
अनात्मीयेन शास्त्रेण यो दग्धस् तं च शास्त्रतः ॥ इति ।

यत् तु वचनम्,

देशान्तरस्थिते वह्नौ दूरदेशस्थितो मृतः ।
अग्निम् उत्पाद्य कर्तव्यं प्रेतकृत्यं द्विजोत्तमैः ॥

इति, तच् छिष्टैर् आदृतम् । प्रेतो विच्छिन्नागनिश् चेद् विधिना संधाय द्वादशगृहीतं जुहुयात् । तद् उक्तम् आपस्तम्बेन -

यद्य् आहिताग्निर् विच्छिन्नाग्निर् विधुराग्निर् उत्सृष्टाग्निर् वा म्रियेत न तम् अन्येन त्रेताग्निभ्यो दहन्तीति तस्य प्राचीनावीत्य् अग्न्यायतनान्य् उद्धृत्यावोक्ष्य यजमानायतने प्रेतं निध्यापरेण गार्हपत्यम् अरणी संनिधाय मन्थति “ये ऽस्याग्नयो जुह्वतो मांसकामाः संकल्पयन्ते यजमानमांसम् । जानन्तु ते ऽस्मै हविषे सादिताय स्वर्गं लोकम् इमं प्रेतं नयन्तु” इति तूष्णीं विहृत्य द्वादशगृहीतेन स्रुवं (?) पूरयित्वा तूष्णीं हुत्वा प्रेते ऽमात्या। इत्य् एतदादि कर्म प्रतिपद्यते । इति ।

आत्मादिसमारूढेष्व् अग्निषु यजमानमरणे तेनैवोक्तम् -

यद्य् आत्मन्य् अरण्योर् वा समारूढेष्व् अग्निषु यजमानो म्रियेत पूर्ववद् अग्न्यायतनान्य् उद्धृत्यावोक्ष्य यजमानायतने प्रेतं निधाय गार्हपत्यायतने ऽग्निम् उपसमाधाय प्रेतस्य दक्षिणं पाणिम् अभिसंगृह्य तत्पुत्रो भ्रातान्यो वा प्रत्यासन्नबन्धुः उपावहेति जपत्य् अरण्योर् वोपावरोह्य मन्थेद् यद्य् अर्ण्योः समारूढःस्यान् निर्वर्तमाने प्रेतम् अन्वारम्भयित्वेमं मन्त्रं जपेत् । इति ।

तथा च स्मृत्यन्तरम् ।

यद्य् आत्मनि समारूढो मृतो ऽयं श्रुतिर् उच्यते ।
मृतस्य दक्षिणं पाणिम् अन्वारभ्य जपेद् इमम् ॥
उपावरोह जातवेदो यद्य् अरण्योस् तथा जपेत् ।
मथित्वाग्निं समाधाय वह्नेर् दक्षिणतः परे ॥ इति ।

यदा युगपज् जायापत्योर् मरणं तदा सहैव पितृमेधः । तद् उक्तम् आपतम्बेन - “सहैव प्रेते सहैव पितृमेधः” इति । अत्र विभज्याग्निप्रदानं केचिद् इच्छन्ति तद् असद् इति भाष्यकारेणोक्तम् । सर्वाधाने बहुभार्यस्य पूर्वं ज्येष्ठामरणे तत्राग्नीन् उत्सृज्य द्वितीयया सहाधानादि । पुनस् तन्मरणे तत्राग्नीन् उत्सृज्य पत्न्यन्तरेण सहाधानम् । पत्न्यन्तराभावे पुनः परिणीय तया सहाधानादि । परिणयनासामर्थ्ये आत्मार्थम् अग्न्याधानम् । तथाह शौनकः ।

पत्य्नोर् एका यदि मृता दग्ध्वा तेनैव तां पुनः ।
आदधीतान्यया सार्धम् आधानविधिना गृही ॥ इति ।

आपस्तम्बकल्पभाष्यार्थकारो ऽपि ।

भार्याद्वयत्वे ऽपि मृते कलत्रे प्रेतां दहेयुः सहिताग्निनैव ।
अतः परस्ताद् अनयोः सहैव संधनम् अग्नेर् विधिना पुनश् च ॥ इति ।

स्मृत्यन्तरे ऽपि ।

बहुपत्नीकपक्षे तु ज्येष्ठा चेत् पूर्वमारिणी ।
तां दहेद् अग्निहोत्रेण पुनराधनम् अन्यया ॥
निर्मन्थ्य एव सर्वासाम् आहरेयुर् न केवले ॥

तत्रैव पूर्वं यजमानमरणे तस्याग्निहोत्रत्रेतायां पितृमेधः । पत्नीनां तु प्रेताधानम् एव पूर्ववत् । अर्धाधाने त्व् एकभार्यस्य पूर्वं यजमानस्य मरणे तस्याग्नित्रेतायां पितृमेधः । पत्न्या औपासेनेन, “तयोर् यः पूर्वं म्रियेत तस्याग्नित्रेतायां पितृमेधः संपद्यते यः पश्चात् तस्याउपासनेन” इत्य् आपस्तम्बस्मरणात् । अत्रैव पूर्वं पत्नीमरणे तत्राग्निहोत्रम् औपसनं वोत्सृज्य पुनः परणीय (?) तया सहाधानम् । “अथैनम् उपोषति” इत्य् आरभ्य “पुरस्तात् सभ्यावसथ्याभ्याम् औपासनेन च” इत्य् औपासनस्यापि प्रतिपत्तिविधानात् । पुनस् तन्मरणे तत्राप्य् अयम् एव न्यायः । पुनर्ग्रहणासामर्थ्ये आत्मार्थम् अग्न्याधानादीति । अरधाधाने त्व् अनेकभार्यस्य पूर्वं यजमनस्य मरणे तस्याग्नित्रेतायां पितृमेधः । पत्नीनां तु स्वैः स्वैर् औपासनांशैः । तथा च त्रिकाण्डिः ।

आहिताग्निर् यथान्यायं दग्धव्यस् त्रिभिर् अग्निभिः ।
अनाहिताग्निर् एकेन यः पूर्वं पतिभार्ययोः ॥
स्याद् भार्ययोर् अन्यतरा मृता वा दग्ध्वाखिलौपासनवह्निनैव ।
। । । । ग्नेर् विधिवत् प्रदानं कृत्वान्यम् औपासनम् आददीत ॥
लौक्यानले वा यदि च द्विभार्यसंगृह्यवह्नेस् तु विभज्य दद्यात् ।
भागान्तरं वह्निम् अथाददीतनष्टे तु पूर्वाग्निम् अवाप्य पश्चात् ॥ इति ।

इति स्मृतिचन्द्रिकायाम् अग्निनिर्णयः