१० आशौचनियमाः

अथाशौचनियमाः

तत्र जाबालिः ।

संध्यां पञ्च महायज्ञान्
नैत्यकं स्मृतिकर्म च ।
तन्मध्ये हापयेद् एव
दशाहान्ते पुनःक्रिया ॥

इति ।

पञ्चमहायज्ञानां साहचर्यान् नैत्यक-शब्देनात्र नित्य-श्राद्धम् उच्यते ।
स्मृतिकर्म स्मृत्युक्तं कर्म देवतार्चनादिकम् ।
तन्-मध्ये आशौचमध्ये । हपयेत् त्यजेत् ।
तेषां संध्यादीनां दशाहान्ते आशौचान्ते पुनःक्रिया पुनरनुष्ठानम् । “संध्यां त्यजेद्” इत्य् एतन् मन्त्रोच्चारण-संध्याभिप्रायेणोक्तं
न तु संध्या-मात्राभिप्रायेण । यद् आह पुलस्त्यः ।

संध्याम् इष्टिं चरुं होमं
यावज्जीवं समाचरेत् ।
न त्यजेत् सूतके वापि
त्यजन् गच्छेद् अधो द्विजः ॥

सूतके मृतके चैव
संध्याकर्म समाचरेत्
मनसोच्चारयेन् मन्त्रान्
प्राणायामम् ऋते द्विजः ॥

इति ।

अस्यायम् अर्थः -
प्राणायाम-व्यतिरिक्त-मन्त्रान् मनसोच्चारयेत् ।
प्राणायाम-मन्त्रांस् तु मनसापि नोच्चारयेत् ।
अमन्त्रकम् एव प्राणायामं कुर्याद् इति यावत् ।
मनसोच्चारयेद् इत्य् एतद्
अञ्जलि-प्रक्षेप-व्यतिरिक्त-विषयम् ।
अत एव पैठीनसिः -

“सूतके सावित्र्या ऽञ्जलिं प्रक्षिप्य
प्रदक्षिणीकृत्य सूर्यं द्यायन् नमस्कुर्यात्”

इति ।
संध्या-विधाव् उक्त-सावित्री-मन्त्रस्यैव पुनर् वचनं
मनस्योच्चारण-निवृत्त्यर्थम् ।
तेन सावित्री-मन्त्रस्योच्चारणं
वाचा कर्तव्यम् ।
विष्णुर् अपि त्याज्य-कर्माण्य् आह -

“आशौचे होम-दान-प्रतिग्रह-स्वाध्याया निवर्तन्ते,
नाशौचे कस्यचिद् अन्नम् अश्नीयात्”

इति ।

होमो ऽत्र वैश्वदेवो ऽभिप्रेतः,

विप्रो दशाहम् आसीत
वैश्वदेवविवर्जितः ॥

इति संवर्तेन विशेषतो ऽभिधानात् ।
वैश्वदेवाभिप्रायेण शङ्खो ऽपि ।

दानं प्रतिग्रहो होमः
स्वाध्यायः पितृकर्म च ।
प्रेतपिण्डक्रियावर्जम्
आशौचे विनिवर्तयेत् ॥

पितृकर्म अमावास्याश्राद्धादिकम् ।
न च होम इति सामान्योक्ति-बलाद्
अग्निहोत्रौपासनादिकम् अपि निवर्तनीयम्
इति शङ्कनीयम् । यत आह याज्ञवल्क्यः ।

वैतानौपासनाः कार्याः
क्रियाश् च श्रुति-चोदिताः ।

इति ।

वैतानाः गार्हपत्यादि-बह्वग्नि-साध्याः

“यावज्जीवम् अग्निहोत्रं जुहोति,
यावज्जीवं दर्शपूर्णमासाभ्यां यजेत”

इत्यादिश्रुतिचोदिताः ।
तथा गृह्यैकाग्नि-साध्याः औपासनाः
औपासन-होम–पार्वण-स्थालीपाकाद्याश् च कार्या इत्य् अर्थः । स्मृत्यन्तरं च ।

कुर्याद् वैतानिकं कर्म
स्नात्वोपस्पर्शनात् स्वयम् ।

इति ।

आशौच-प्राप्त्य्-अनन्तरं
स्नात्वाचम्य
वैतानिकं कर्म अग्निहोत्रादिकं
तत्काले स्वयं कुर्याद् इत्य् आर्थः ।
न चात्र धर्मायोग्यत्वलक्षण आशौचे स्थिते
वैतानिके कर्मणि विधिर् घटत इति वाच्यम्,
यतो विधिबलाद् एव धर्मयोग्यत्वम् अवगम्यते ।
उक्तं च गोभिलेन ।

अग्निहोत्रे तु होमार्थं
शुद्धिस् तात्कलिकी स्मृता ।
पञ्चयज्ञान् न कुर्वीत
अशुद्धः पुनर् एव सः ॥

इति ।

अग्निहोत्रादिके कर्मणि
यत्राशौचमध्ये विधिर् अस्ति
तत्र तात्कालिकी शुद्धिः ।+++(5)+++
कर्म-संकल्पात् पूर्वक्षणम् आरभ्य
वैतानिकानुष्ठान-पर्यन्तं
धर्म-योग्यत्व-लक्षण-शुद्धिर् वेदितव्या ।

तत्र पुनः पञ्च महायज्ञाः
तदा ऽऽशौचे कर्तव्या
इति विधिर् नास्ति,
तत्र शुद्धि-ज्ञापक-विध्य्-अभावात् कर्मायोग्यत्वम् एवेत्य् अर्थः ।
एवं विधिज्ञापिते (?) कर्मयोग्यत्वे सत्य् अपि
यो नरो न जुहोति
तस्य प्रायश्चित्तं कर्तव्यम् । अत एव मनुः ।

दर्शं च पूर्णमासं च
कर्म वैतानिकं च यत् ।
सूतके ऽपि त्यजेन् मोहात्
प्रायश्चित्तीयते हि सः ॥

इति ।

वैतानिकग्रहणं स्मार्तस्याप्य् आशौच-विहित-कर्मण उपलक्षणार्थम्।
अत एव जातूकर्ण्यः ।

सूतके तु समुत्पन्ने
स्मार्तं कर्म कथं भवेत् ।
पिण्डयज्ञं चरुं+++(→पार्वणस्थालीपाकम्)+++ +++(→प्रतिदिनौपासन)+++ होमम् असगोत्रेण कारयेत् ॥

पिण्डयज्ञः पिण्डपितृयज्ञः । चरुः पार्वणस्थालीपाकः । होमः प्रतिदिनौपासनहोमः । कारयेद् इति विधिबलात् स्मार्ते कर्मणि त्व् एक-त्यागात्मक-कर्मण्य् एव धर्मायोग्यत्व-लक्षणाशुद्धिः नान्यत्रेति गम्यते । अत एव बृहस्पतिः।

सूतके मृतके चैव त्व्
अशक्तौ श्राद्धभोजने ।
प्रवासादिनिमित्तेषु
हावयेन् न तु हापयेत् ॥

न हापयेत् न त्यजेद् इत्य् अर्थः । तथा च जाबालिः ।

जन्महान्योर् वितानस्य कर्मत्यागो न विद्यते ।
शालाग्नौ केवलो होमः कार्य एवान्यगोत्रजैः ॥

शालाग्नौ होम औपासनाख्यः, सो ऽन्यगोत्रजैः कार्यम् इति नियमात् वैतानिकाग्नौ क्रियमाणागोत्रादिहोमो ऽन्यगोत्रजैः कार्य इत्य् अनियमात् स्वयं कुर्याद् इत्य् अवगम्यते ।

वर्जयेत् सूतके कर्म नित्यनैमित्तिकादिकम् ।
आहिताग्नेस् तदा शुद्धिः सद्य एव विधीयते ॥ इति ।

तत्र पूर्वार्धम् आशौचे कर्तव्यनित्यनैमित्तिकादिविषयम्, उत्तरार्धं त्व् आहिताग्निविषयम् इत्य् अवगन्तव्यम् । एवम् एव “नित्यानि निवर्तेरन् वैतानवर्जम्” इत् पैठीनसिवचनस्यापि विषयो बोद्धव्यः, श्रौतस्मार्तानां त्याग एवेति प्रतिप्रसवे विध्यभावात् । श्रौतानाम् अप्य् अग्निहोत्रादीनां प्रथमारम्भकाले आशौचे त्याग एव, प्रतिप्रसवविधीनां प्रथमारम्भोत्तर्कालानुष्ठेयाग्निहोत्रादिविषयत्वात् । नित्यं नैमित्तिकम् इत्य् अनुवृत्तौ काम्ये प्रतिप्रसवार्थम् आह पुलस्त्यः ।

संनिहत्याम् उपस्पृश्य राहुग्रस्ते दिवाकरे ।
सत्रधर्मप्रविष्टस्य दानकर्मफलैषिणः ॥

अयम् अर्थः - दानकर्मफलकामिनो ऽपि संनिहत्याम् उपस्पृश्य तीर्थविशेषे स्नात्वा दाने प्रवृत्तस्य सद्यःशौचम्, अन्नसत्रधर्मे प्रवृत्तस्य तद्दानफलार्थिनो ऽपि सद्यःशौचम् इति । नैमित्तिके ऽपि क्वचित् प्रतिप्रसवार्थम् आह वृद्धबृहस्पतिः ।

कन्याविवाहे संक्रान्ते सूतकं न कदाचन । इति ।

नित्यनैमित्तिककाम्येष्व् अपि प्रतिप्रसवार्थम् आह जामदग्यः ।

सूतके मृतके वापि जाह्नव्याः सलिलाप्लुतः ।
नाभिमात्रे जले स्थित्वा कुर्याद् दानजपदिकम् ।
नित्यं नैमित्तिकं चापि काम्यं वापि विशेषतः ॥ इति ।

यत् तु मार्कण्डेयपुराणम्,

नित्यस्य कर्मणो हानिं न कुर्वीत कदाचन ।
तस्य त्व् अकरणे बन्धः केवलं मृतजन्म च ॥

इति, तत् सूत्याद्याशौचे ऽपि विहिताग्निहोत्ररूपकर्महानिविषयम् । न तत् तथाविधिरहिततर्पणादिनित्यकर्मविषयम्, पूर्वोक्तवचनविरोधपत्तेः । यद् अपि तेनैवोक्तम्,

दशाहं ब्राह्मणस् तिष्ठेद् दानहोमादिवर्जितः ।
क्षत्रियो द्वादशाहं च वैश्यो मासार्धम् एव च ।
शूद्रश् च मासम् आसीत नित्यकर्मविवर्जितः ॥

इति, तत् वयोऽवस्थाप्रयुक्तसंपूर्णाशौचकालानाम् अप्य् उपलक्षणार्थम् । यत् तु हारीतेनोक्तम्,

ततस् त्व् एकादशदिने यज्ञः स्वाध्याय एव च ।
प्रवर्तन्ते क्रियाश् चैव इत्य् एतन् मनुर् अब्रवीत् ॥

इति, “ततस् त्व् एकादशदिने” इत्य् एतद् आशौचान्त्यदिनानन्तरदिनोपलक्षणार्थम् । ब्रह्मचारिणं प्रत्य् आह कात्यायनः ।

न त्यजेत् सूतके कर्म न त्यजेत् तु क्वचिद् व्रती । इति ।

गृहस्थवद् अस्य सूतकाभावः प्रायश्चित्तं नित्य इति ॥

इति स्मृतिचन्द्रिकायाम् आशौचनियमाः