०९ आशौचापवादः

उक्तम् अनेकविधम् आशौचम्,

सद्यःशौचं तथैकाहस् त्र्यहश् चतुरहस् तथा ।
षड्दशद्वादशाहश् च पक्षो मासस् तथैव च ॥

इत्यादिकम् । तस्य सर्वस्याप्य् अपवादो गृहस्थेतराश्रमस्येति प्रतिपादितम् ।

नैष्थिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् ।
नाशौचं सूतके प्रोक्तं शावे वापि तथैव च ॥ इति ।

सपिण्डादिषु यद् आशौचम् उक्तं तद् गृहस्थेतराश्रमाणां न कदाचिद् भवतीत्य् अर्थः । यद्य् अप्य् अत्र नाशौचम् इति सामान्यवशात् सद्यःशौचस्यापवादः प्रतिभाति, तथापि वक्ष्यमाणवचनविरोधात् तद्व्यतिरिक्ताशौचस्यायम् अपवाद इत्य् अवगन्तव्यम् । एवं च नैष्ठिकादिषु एकाहद्व्यहाद्यनेकविधाशौचस्थानेषु सद्यःशौचम् इत्य् अवगन्तव्यम् । तथा च याज्ञवल्क्यः ।

ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम् ।
सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ॥
दाने विवाहे यज्ञे च संग्रामे देशविप्लवे ।
आपद्य् अपि च कष्टायां सद्यःशौचं विधीयते ॥ इति ।

तत्रर्त्विक्पदार्थो मनुनोक्तः ।

अग्न्याधेयं पाकयज्ञम् अग्निष्टोमादिकान् मखान् ।
यः करोति वृतो यस्य स तस्यर्त्विग् इहोच्यते ॥ इति ।

वृतो वरणेन संस्कृत इत्य् अर्थः । स च वरणसंकारो ऽग्न्याधेयादौ वरणप्रभृति प्रयोगपरिसमाप्तिपर्यन्तम् अनुवर्तत इति तदनुवृत्तिपर्यन्तम् ऋत्विजां दीर्घकालाशौचमध्ये सद्यःशौचं विधीयत इति संबन्धः । दीक्षितो दीक्षाख्यसंस्कारवान् । स च संस्कारो दीक्षणीयेष्ट्यादिभिर् उत्पद्यते अवभृथस्नानेनापैति । तथा च पद्मपुराणम् ।

तावद्गृहीतदीक्षस्य त्रिविद्यस्य महामखे ।
स्नानं त्व् अवभृथे यावत् तावत् तस्य न सूतकम् ॥

एतद् उक्तं भवति - दीक्षणीयादिभिर् उत्पन्नो दीक्षाख्यसंस्कारो यावद् यजमाने पत्न्यां चानुवर्तते तावत् तयोः दीर्घकालाशौचमध्ये ऽपि तद् आशौचं न विद्यते, सद्यःशौचविधानाद् इति । सत्रिव्रतिदातृशब्दानाम् अर्थाः संग्रहकारेण दर्शिताः ।

सत्री गृहीतनियमो यज्ञे दाने च दीक्षितः ।
चान्द्रायणाद्यनुष्ठाता व्रती तु ब्रह्मचार्य् अपि ॥
श्राद्धे गृहीतसंकल्पो व्रती भोक्ता च कीर्तितः ।
दाता नित्यम् अनादाता वानप्रस्थः प्रकीर्तितः ॥ इति ।

यज्ञे सोमयागादौ दाने सततान्नदाने गृहीतनियमः कृतसंकल्पः सत्रीत्य् अनेनोक्तः । यज्ञे गृहीतनियमो दीक्षितो ऽपि भवति, तथापि पुरस्तादुक्तदीक्षितसंकीर्तनाद् गोबलीवर्दन्यायेनात्र सत्रिशब्दो दीक्षितावस्थेतरयजमाने वर्तत इति दर्शयितुम् “यज्ञे दाने च दीक्षितः” इत्य् उक्तम् । व्रतीत्य् अनेन चान्द्रायणाद्यनुष्ठाता चान्द्रायणादौ कृतसंकल्पः, श्राद्धे गृहीतसंकल्पः पुत्रादिः, भोक्ता श्राद्धकर्मणि भोजनार्थं निमन्त्रितविप्रो ऽपि कीर्तितः । तयोर् अपि व्रतयोगवत्त्वेन व्रतिशब्दप्रवृत्तिनिमित्तसद्भावात् । यद्य् अप्य् उपनीतब्रह्मचारिण्य् अपि प्रवृत्तिनिमित्तसद्भावेन व्रतिनि व्रतशब्दो वर्तते, तथापि ब्रह्मचारीति ब्रह्मचारिसंनिधानाद् गोबलीवर्दन्यायेन व्रतिशब्दो ब्रह्मचारिव्यतिरिक्तेषु व्रतिषु वर्तत इति दर्सयितुं ब्रह्मचारीत्य् उक्तम् । दातृसब्देनात्र वानप्रस्था व्यपदिश्यन्ते, “असाधारण्येन व्यपदेशा भवन्ति” इति न्यायात् । तदभिसंधायोक्तम् - “दाता नित्यम् अनादाता वानप्रस्थः प्रकीर्तितः” इति । अनादाता न प्रतिग्रहीता । ब्रह्मवित् परिव्राजकः, तस्मिन् प्रायेण ब्रह्मज्ञानसद्भावात् । अत्र व्रतिषु व्रतनिवृत्तिपर्यन्तं प्राप्तदीर्घाशौचापवादेन सद्यःशौचं विधीयते । ब्रह्मचार्यादिषु तत् तद् आश्रमे यावत् स्थितः तावत् सद्यःशौचं प्राप्तदीर्घकालाशौचबाधेन विधीयत इत्य् अवगन्तव्यम् । ननु सत्रिशब्देनैव दाने यज्ञे च सद्यःशौचं सिद्धम्, तेन “दाने विवाहे यज्ञे च” इति दानयज्ञयोः पुनर् अभिधानं व्यर्थम् । उच्यते - दाने तावद् अन्नदानाद् अन्यत्रापि दानविशेषे क्वचित् सद्यःशौचविधानार्थं पुनर् दानवचनम्, असंकल्पितयज्ञे ऽपि क्वचित् सद्यःशौचविधानार्थं पुनर् यज्ञवनम् इति न वैयर्थ्यम् । तथा च संग्रहकारः ।

दाने विशिष्ट आर्तस्य व्याधिना शुद्धतोच्यते ।
अनित्यतोपि यो वस्तु दातुं होमादि वाञ्छति ॥
यज्ञे संभृतसंभारे । । । ॥

इत्यादि । व्याधिना आर्तस्य विशिष्टे दाने व्याधिपरिहारार्थं महिष्यादिदाने, धर्मोपचयार्थदाने च शुद्धतोच्यते सद्यःशौचम् उच्यत इत्य् अर्थः । “यज्ञे संभृतसंभारे” इत्य् एतत् तूपरिष्टात् प्रपञ्च्यते । विवाहे सद्यःशौचं कस्येत्य् अपेक्षिते ब्रह्मपुराणम् ।

। । । । कन्यादाने च नो भवेत् ।
विवाहे कन्यकायाश् च लाजहोमादिकर्मणि ॥ इति ।

कन्यादाने विवाहकर्मणि कन्याया दातुस् तत्परिग्रहीतुश् च कन्यावरणप्रभृति विवाहनिवृत्तिपर्यन्तं दीर्घप्राप्ताशौचम् अपि तद् आशौचं “नो भवेत्” न विद्यते, विवाहविषये ऽपि सद्यःशौचविधानाद् इत्य् अर्थः । संग्रामे युद्धे । “संबाधे राजानं संनाहयेत्” इत्य् आश्वलायनोक्तसंनाहनादिविधौ प्रास्थानिकशान्तिहोमे वाशौचे सद्यःशुद्धिः । देशस्य विस्फोटादिभिर् उपद्रवे राजभयाद् वा विप्लवे तदुपशमनार्थं शान्तिकर्मणि सद्यःशुद्धिः । तथा कष्टायाम् अप्य् आपदि संकुचितवृत्तेः क्षुत्परिश्रान्तमातापित्रादिबहुकुटुम्बस्य तद्रक्षोपयोगिनि परिग्रहे सद्यःशुद्धिर् इत्य् अर्थः । स्मृत्यन्तरे ऽपि ।

नरेन्द्रसत्रिव्रतिनां विवाहोपप्लवादिषु ।
सद्यःशौचं समाख्यातं कान्तारापदि संयति ॥ इति ।

नरेन्द्रस्य कस्मिन् कर्मणि सद्यःशौचम् इत्य् अपेक्षिते ब्रह्मपुराणम् ।

राज्यनाशस् तु येन स्याद् विना राज्ञः स्वमण्डले ।
प्रयास्यतश् च संग्रामे होमे प्रास्थानिके सति ॥
मन्त्रादितर्पणे वापि प्रजानां शान्तिकर्मणि ।
गोमङ्गलादौ वैश्यानां कृषिकालात्यये सति ॥
आसौचं न भवेल् लोके सर्वत्रान्यत्र विद्यते । इति ।

अस्यार्थः - राज्ञः राष्ट्रे येन कर्मणा विना यत्कर्माकरणे प्रजापालनादिराज्यनाशः तस्मिन् कर्मणि प्रक्रान्ते, तथा संग्रामे प्रयास्यतः प्रास्थानिके प्रस्थाननिमित्ते होमे प्रस्तुते सति, तथा मन्त्रादिभिः मन्त्रपूर्वकपूजोपहारैर् दुष्टग्रहतर्पणे प्रस्तुते, तथा सांसर्गिके ऽपि प्रजानां शान्तिकर्मणि प्रस्तुते, तथा वैश्यानां लोकाचारसिद्धगोमङ्गलादिकर्मणि प्रस्तुते, तथा कृष्यादिकर्मार्थं विनायकपूजादिकर्मणि प्रस्तुते, राज्ञां वैश्यानां चाशौचं दीर्घकालतया न विद्यते, सद्यःशौचविधानात् । अन्यत्र पूर्वोक्तकर्मविषयेभ्यो ऽन्यत्र वैश्वदेवादिकर्मसु सर्वत्राशौचं विद्यते, तत्र सद्यःशौचविधानाभावाद् इति । यत् त्व् अङ्गिरोवचनम्,

जनने मरणे चैव त्रिष्व् आशौचं न विद्यते ।
यज्ञे विवाहकाले च देवयागे तथैव च ॥

इति — यज्ञः सोमयागादिर् वैदिकः । देवयागः मातृकादिदेवताको लौकिको गणयागः —, यद् अपि पैठीनसिवचनम्,

विवाहयज्ञदुर्गेषु यात्रायां तीर्थकर्मणि ।
न तत्र सूतकं तद्वत् कर्म यज्ञादि कारयेत् ॥

इति, यद् अपि ब्रह्मपुराणवचनम्,

इष्टे देवप्रतिष्ठायां गणयागादिकर्मणि ।
श्राद्धादौ पितृयज्ञे च कन्यादाने च नो भवेत् ॥

इति, एतान्य् उपक्रान्तयज्ञादिकर्मविषयाणि वचोभङ्ग्या सद्यःशौचविधायकानीति मन्तव्यम् । अत एव ब्रह्मपुराणे क्वचिद् अस्यापवाद उक्तः ।

यज्ञार्थं बहुसंभारसंभृतस्यापि कुत्रचित् ।
आशौचं न भवेत् । । । । ॥ इति ।

ततश् चायम् अर्थः - यज्ञार्थं संभृतसंभारस्य कल्पितसमस्तयज्ञसाधनपदार्थस्याप्य् अकृतसंकल्पस्याशौचापगमाद् ऊर्ध्वं वसन्तान्तर्गतकर्मकालासंभवेन तस्मिन् वत्सरे करिष्यमाणयज्ञातिक्रमविषये यज्ञसंकल्पात् पूर्वक्षणे शुद्धिर् भवतीति । यज्ञग्रहणं प्रतिष्ठादेर् उपलक्षणार्थम् । अत एव विष्णुः - “न देवप्रतिष्ठाविवाहयोः पुनःसंभृतयोः” इति । देवप्रतिष्ठाविवाहयोः संभृतबहुसंभारयोर् उपक्रमात् प्राग् अपि न तत्कर्तुर् आशौचं भवतीत्य् अर्थः । एतद् उक्तं भवति - यावति काले संभृतबहुसंभारधारणं कर्तुं शक्यते तावत्कालमध्ये प्रतिष्ठाद्यङ्गभूतं कालान्तरं यत्र न लभ्यते तद्विषय एव संकल्पात् प्राग् आशौचाभाव इति । स्मृत्यन्तरे ऽपि ।

यज्ञे संभृतसंभारे विवाहे श्राद्धकर्मणि । इति ।

संभृतसंभार इति सर्वत्र संबध्यते । अत्रापि वैष्णववचनसमानविषयत्वम् एव मन्तव्यम् । श्राद्धे संभृतसंभारत्वं पक्वद्रव्याभिप्रायम्, आमद्रव्याभिप्राये वक्ष्यमाणस्मृत्यन्तरवचनविरोधापत्तेः । तथा हि ।

श्राद्धविघ्ने समुत्पन्ने त्व् अन्तरा मृतसूतके ।
अमावास्यां प्रकुर्वीत शुद्धाव् एके मनीषिणः ॥ इति ।

अयम् अर्थः - आमद्रव्योपकल्पनसंकल्पयोर् मध्ये दैवान् मानुषाद् वा समुत्पन्ने श्राद्धविघ्ने मृतके सूतके वामावास्यायाम् आशौचापगमाद् अनन्तरं वा श्राद्धं कुर्वीत । पक्वद्रव्योपकल्पनसंकल्पयोर् मध्ये सूतके मृतके वा समुत्पन्ने पूर्वोक्तसद्यःशौचविधिबलात् तस्मिन्न् एव श्राद्धं कर्तव्यम् इत्य् अवगन्तव्यम् । विप्रनिमन्त्रणात् प्राग् विप्रस्याशौचे प्राप्ते विप्रान्तरम् आमन्त्र्य श्राद्धं कर्तव्यम् । निमन्त्रणाद् ऊर्ध्वं विप्रस्याशौचे प्राप्ते तस्य शुद्धिर् ब्रह्मपुराणे दर्शिता ।

निमन्त्रितस्य विप्रस्य स्वाध्यायनिरतस्य च ।
देहे पितृषु तिष्ठत्सु नाशौचं विद्यते क्वचित् ॥ इति ।

यत् तु स्मृत्यन्तरे ऽभिहितम्,

द्रव्याणि स्वामिसंबन्धात् तद् अघे त्व् अशुचीनि च ।
स्वामिशुध्यैव शुध्यन्ति वारिणा प्रोक्षितान्य् अपि ॥ इति ।

तदाशौचोत्पत्तेः पूर्वं यज्ञार्थम् असंकल्पितद्रव्यविxअयम्,

पूर्वसंकल्पितं द्रव्यं दीयमानं न दुष्यति ।

इति क्रतुस्मरणात् । आशौचोत्पत्तेः पूर्वं संकल्पितं द्रव्यं देवतायै दीयमानं ब्राह्मणेभ्यो वा दीयमानं न दुष्यतीत्य् अर्थः । कानिचिद् वचनानि द्रव्याणि पूर्वम् असंकल्पितान्य् अपि न दुष्यन्तीत्य् आहुः ।

लवणे मधुमांसे च पुष्पमूलफलेषु च ।
शाककाष्ठतृणेष्व् अप्सु दधिसर्पिःपयःसु च ॥
तिलौषधाजिने चैव पक्वापक्वस्वयंग्रहे ।
पण्येषु चैव सर्वेषु नाशौचं मृतसूतके ॥ इति ।

पक्वशब्देनान्नादिव्यतिरिक्तं भक्ष्यादिकम् अभिप्रेतम्, पक्वान्ने दोषश्रवणात् । तथाह अङ्गिराः ।

अन्नसत्रप्रवृत्तानाम् आमम् अन्नम् अगर्हितम् ।
भुक्त्वा पक्वान्नम् एतेषां त्रिरात्रं तु पयः पिबेत् ॥ इति ।

एतेषाम् आशौचनिमित्तमरणादिज्ञातॄणाम् इति शेषः । तथा च षट्त्रिंशन्मते ।

उभाभ्याम् अपरिज्ञातम् आशौचं नैव दोषकृत् ।
एकेनापि परिज्ञाने भोक्तुर् दोषम् उपावहेत् ॥ इति ।

पक्वभक्ष्यादिकम् अपि स्वाम्याशौचे स्वेष्टं भोक्तुर् दोषम् आवहति । अत एव मरीचिवचने स्वयंग्रह इत्य् उक्तम् । स्वाम्यनुज्ञया भोक्ता स्वयम् एव गृह्णीयाद् इति तस्यार्थः । अन्नसत्रप्रवृत्तानाम् (?) इति यज्ञविवाहप्रवृत्तनाम् उपलक्षणार्थम्, तस्याशौचसंपर्कस्य निषिद्धत्वात् । तथा च स्मृत्यन्तरम् ।

विवाहोत्सवयज्ञादाव् अन्तरा मृतसूतके ।
शेषम् अन्नं परैर् देयं दातॄन् भोक्तॄंश् च न स्पृशेत् ॥ इति ।

भोजनमध्ये शावासौचनिमित्ते परिज्ञाते भोक्तॄणां कथं शुद्धिर् भवेद् इत्य् अपेक्षिते षट्त्रिंशन्मते स्मृतम् ।

भुञ्जानेषु च विप्रेषु त्व् अन्तरा मृतसूतके ।
अन्यगेहोदकाचान्ताः सर्वे ते शुचयः स्मृताः ॥ इति ॥

इति स्मृतिचन्द्रियायाम् आशौचापवादः