०८ अनेकाशौचसंनिपातः

अथानेकाशौचसंनिपातविषयाणि

तत्र देवलः ।

अघानां यौगपद्ये तु शुद्धिर् ज्ञेया गरीयसा । इति ।

अघानाम् इति सामान्यग्रहणे गर्भ्यस्रावपातप्रसवेषूक्तानाम् आशौचानां वयोऽवस्थाप्रयुक्तमरणाशौचानाम् उपनयनोर्ध्वं मरणाशौचानां च ग्रहणम् । अघानाम् आशौचानां मध्ये कयोश्चिद् यौगपद्येन संनिपाते गरीयसेतरस्य शुद्धिर् ज्ञेयेत्य् अर्थः । दीर्घकालापनोद्याशौचं गरीयः, अल्पकालापनोद्याशौचम् अगरीय इति । अनेन हेतुना प्रथमद्वितीयापेक्षया तृतीयं गरीयः चतुर्थादिष्व् अप्य् उत्तरोत्तरं पूर्वपूर्वापेक्षया गरीय इत्य् अवगन्तव्यम् । समानकुलजननमरणाशौचयोर् मध्ये कालाधिक्येनाप्य् (?) उत्तरस्य गरीयस्त्वायोगात् किं तयोर् गरीय इत्य् अपेक्षिते तेनैवोक्तम् ।

मरणोत्पत्तियोगे तु गरीयो मरणं भवेत् । इति ।

अनेन कालतः समानयोर् जननमरणयोश् च मिथो गुरुलघुभावो नास्तीत्य् अर्थाद् उक्तम् । कथं पुनर् जननाशौचान् मरणाशौचस्य गरीयस्त्व्म् । अत्र्योच्यते - पापविशेषात्मकम् आशौचं प्रथमप्रकरणे प्रतिपादितम् । पापविशेषाणां च महत्त्वाल्पत्ववशाद् गौरवं लाघवं च भवतीति दण्डधर्मशास्त्रे प्रतिपादितम् । एवम् अत्रापि कारणमत्त्वान् मरणाशौचस्य स्वरूपतो गुरुत्वम्, कारलाल्पत्वात् सूत्याशौचस्य स्वरूपतो ऽल्पत्वम् अवगन्तव्यम् । कथं पुनर् मरणाशौचस्य कारणमहत्त्वम्, कथं वा जननाशौचस्य कारणाल्पत्वम् इत्य् अपेक्षिते हारीतः - “प्रेताभिभूतत्वाच् छावाशौचं जाते वृद्धियोगाद् भाक्त्वात् केनेति मीमांसन्ते बालाः कुलानुगतिच्छेदात् क्लेशभूयस्त्वाच् च कुलस्याशौचं भवति” इति । अस्यायम् अर्थः - मरणाशौचकारणप्रेतसंपर्कबाहुल्याच् छावाशौचं वाघं कुलस्य बहु भवति, शिशोः क्लेशबाहुल्योपपादकनाभिच्छेदे शिशुसहितार्थम् अप्रतिषिद्धम् अनुमतं भवतीति न्यायेन कथंचिद् अनुमतिद्वारकर्तृत्वम् अस्तीति जनने कुलस्याशौचं कुलस्याघं भवतीति । यतो ऽघस्वरूपाशौचं नाभिच्छेदनानुमतिनिमित्तं स्वत एव कर्मानधिकारलक्षणाशौचवज् जननानन्तरम् एव न भवति, किं तु नाभिच्छेदाद् ऊर्ध्वम् एव । तथा च जैमिनिः ।

यावन् न छिद्यते नालं तावन् नाप्नोति सूतकम् ।
छिन्ने नाले ततः पश्चात् सूतकं तु विधीयते ॥ इति ।

गरीयस्त्वात् समकालयोः शावसूत्याशौचयोः संनिपाते सूत्या कदाचिच् छावस्य शुद्धिः तस्याः शावापेक्षया दीर्घकालत्वात् । अत एव अङ्गिराः ।

सूतके मृतकं वै स्यान् मृतके त्व् अथ सूतकम् ।
तदाधिकृत्य मृतकं शौचं कुर्यान् न सूतकम् ॥

एतद् एव षट्त्रिंशन्मते ऽप्य् उक्तम् ।

शावाशौचे समुतपन्ने सूतकं तु यदा भवेत् ।
शावेन शुध्यते सूतिर् न सूतिः शावशोधिनी ॥ इति ।

सूत्याशौचमध्ये शावाशौचे समुत्पन्ने ऽपि न सूतिः शावशोधनीत्य् अर्थः । तेन स्वकालेनैवास्मिन् विषये शावाशौचशुद्धिः । तथाह अङ्गिराः ।

अनिर्दशाहे जनने पश्चात् स्यान् मरणं यदि ।
प्रेतम् उद्दिश्य कर्तव्यं तत्राशौचं स्वबन्धुभिः ॥

जननाशौचमध्ये तत्समानकालं यदा मरणाशौचं भवति तदा मरणदिनम् आरभ्य प्रेतसंपर्कनिमित्तम् आशौचं स्वकालापगमपर्यन्तं बन्धुभिः कर्तव्यम् इत्य् अर्थः । यदा तु समानकालयोः संनिपातः तदा द्वयोस् तुल्यत्वे ऽपि गुरुत्वेन प्राथम्यं ग्राह्यम् इत्य् अह शङ्खः ।

समानाशौचमंपाते प्रथमेन समापयेत् । इति ।

जात्या कालतः समानाशौचयोः संनिपाते प्रथमाशौचसमाप्तिकाल एव द्वितीयाशौचम् अपि समापयेद् इत्य् अर्थः । विष्णुर् अपि - “जननाशौचमध्ये यद्य् अपरं जननं स्यात् तत्र पूर्वाशौचव्यपगमे शुद्धिः । मरणाशौचमध्ये ज्ञातिमरणे ऽप्य् एवम्” इति पूर्वाशौचकालशेषस्योपरमे परशावाद् अपि शुद्धिर् भवतीत्य् अर्थः । यद् आह मनुः ।

अन्तर्दशाहे स्यातां चेत् पुनर् मरणजन्मनी ।
तावत् स्याद् अशुचिर् विप्रो यावत् तत् स्याद् अनिर्दशम् ॥ इति ।

अनया वचोभङ्ग्या पूर्वाशौचकालशेषेणैव पराशौचाद् अपि शुद्धिर् भवतीत्य् उक्तं भवति । याज्ञव्ल्क्येन सुस्प्ष्टम् उक्तम् ।

अन्तरा जन्ममरणे शेषाहोभिर् विशुध्यति । इति ।

पूर्वाशौचस्य पराशौचापेक्षया दीर्थकालस्य समकालस्य वा शेषैर् अहोभिर् अन्तरापतितम् आशौचं विशुध्यतीत्य् अर्थः । यत् पुनर् मध्यपतितम् आशौचं पूर्वापेक्षया दीर्घकालं न तत्र पूर्वाशौचशेषाहोभिर् विशुद्धिः, पूर्वाशौचस्य स्वल्पकालतया लघुत्वात् । किं त्व् अल्पकालेनैव शुद्धिः । तथा च शङ्खः ।

असमानं द्वितीयेन धर्मराजवचो यथा । इति ।

द्वितीयम् आशौचं प्रथमाशौचकालापेक्षया दीर्घकालत्वेनासमानं द्वितीयेन द्वितीयाशौचकालेन गच्छतीति यावत् । यमो ऽपि ।

अघवृद्धिमद् आशौचं पश्चिमेन समापयेत् ।
यथा त्रिरात्रे प्रक्रान्ते दशाहं प्रविशेद् यदि ।
आशौचं पुनर् आगच्छेत् तत् समाप्य विशुध्यति ॥ इति ।

द्वितीयम् आशौचं प्रथमाशौचानुवृत्तिकालापेक्षया दीर्घकालानुवर्तनेन वृद्धिमत् पश्चिमेन समापयेद् इत्य् अर्थः । अमुम् एवार्थम् उदाहरणपूर्वकं स्पष्टयति “यथा” इत्यादिना । अस्यायम् अर्थः - त्रिरात्रजननाशौचे मरणाशौचे वा प्रक्रान्ते दशाहं जननाशौचं मरणाशौचं वा यदि प्रविशेत् दशाहाशौचं त्रिरात्रापेक्षया दीर्घकालं जननाशौचं मरणाशौचं वा पुनर् आगच्छेत् अत्र पश्चिमाशौचसमाप्त्या शुद्धिः । तथान्यत्रापि प्रक्रान्तैकरात्राशौचमध्ये प्रविष्टम् अघवृद्धिमदाशौचं स्वकालेनैव शुध्यतीति । तथा च उशनसोक्तम् ।

अल्पाशौचस्य मध्ये तु दीर्घाशौचं भवेद् यदि ।
न पूर्वेण विशुद्धिः स्यात् स्वकालेनैव शुध्यति ॥ इति ।

देवलेन तु प्रथमाशौचानुवृत्तिकालापेक्षया दीर्घकालानुवर्तनेन वृद्धिमदाशौचं स्वकालेन विशुध्यतीति वचनभङ्ग्योक्तम् । तस्य क्वचिद् अपवादो ऽप्य् उक्तः ।

परतः परतो ऽशुद्धिर् अघवृद्धौ विधीयते ।
स्याच् चेत् पञ्चतमाद् अह्नः पूर्वेणापि विशिष्यते ॥ इति ।

परतः अघवृद्धौ पर्भूतस्य पूर्वसजातीयस्य विजातीयस्य वा दिनाधिक्येन वृद्धौ परतो ऽशुद्धिः पराशौचस्य यावान् कालस् तस्य सर्वस्यापगमपर्यन्तम् अशुद्धिः, तत ऊर्ध्वं शुद्धिर् इति पूर्वार्धस्यार्थः । “स्याच् चेत् पञ्चमाद् अह्नः” इत्याद्यपवादाद् एव उत्तरार्धस्यायम् आर्थः - पूर्वाशौचं पराशौचापेक्षया स्वल्पकालम् अपि यदि पञ्चतमाद् अह्नः पञ्चमदिनात् परतो ऽपि कतिपयदिनोपेतं स्यात् तदा पूर्वेण पूर्वाशौचकालशेषेण पराशौचस्यापि शुद्धिः विशिष्यते विधीयत इति । एवम् उक्तं भवति - उत्तराशौचस्य दीर्घकालत्वे ऽपि यदि पूर्वाशौचम् उत्तराशौचकालार्धाद् अधिककालं स्यात् तदा पूर्वेणैवोत्तरस्यापि शुद्धिर् भवति । अत्रोदाहरणम् -

अधस्तान् नवमान् मासाच् छुद्धिर् स्यात् प्रसवे तदा ।
मृते जीवे ऽपि वा तस्मिन्न् अहोभिर् माससंख्यया ॥

इति वचनेन सप्तममासप्रसवे सप्तरात्रम्, अष्टममासप्रसवे ऽष्टरात्रम् उक्तम् । नवममासादिप्रसवे तज्जननमरणयोर् दशाहम् आशौचम् इति नवमेनैव दशरात्रम् उक्तम् । तत्र यदा सप्तरात्राशौचमध्ये दशरात्राशौचं तदार्धाधिकत्वात् पूर्वाशौचशेषेणोत्तराशौचस्य शुद्धिर् भवति । एवम् अन्यत्राप्य् उत्तराशौचकालार्धाधिककाले पूर्वाशौचे द्वितीयाशौचस्य तच्छेषेणैव शुद्धिर् अवगन्तव्या । एवं च शङ्खेन यद् उक्तम्,

असमानं द्वितीयेन धर्मराजवचो यथा ।

इति, यद् अपि प्रजापतिना “गच्छतो लघुता तथा” इत्, यद् अपि हारीतेन “लघुना नैव तम्” इति, तत्र शङ्खवचनस्यार्थः प्राग् एव प्रदर्शितः । प्रजापतिहारीतवचनयोर् अयम् अर्थः - दीर्घकालतया गुर्वाशौचं स्वल्पकालतया लघ्वाशौचेन पूर्वभाविना न शुध्यतीति । तान्य् एतान्य् उत्तराशौचकालार्धाद् अधिककालाशौचापनोद्येष्व् आशौचेषु द्रष्टव्यानि । यदा तु संपूर्णाशौचयोः प्रथमोत्तर्योर् उत्तरस्य प्रथमान्त्यदिने संनिपातस् तदा विशेषम् आहतुः शङ्खलिखितौ - “अथ चेद् उत्तरा प्रमीयेत जायेत वा शिष्टैर् एव दिवसैः शुध्येताहःशेषे द्वाभ्यां प्रभाते तिसृभिः” इति । अहःशेषः अहोरात्रशेषः । एतद् उक्तं भवति - संपूर्णाशौचस्यान्त्याहोरात्रमध्ये संपूर्णाशौचान्तरस्य यदा संनिपातस् तदा द्वितीयाशौचस्य प्रथमाशौचकालशेषेण न शुद्धिः, किं तु तच्छेषाद् ऊर्ध्वं द्वाभ्यां रात्रिभ्यां शुद्धिः । यदा तु पुनर् अष्टमे यामे संपूर्णाशौचान्तरसंनिपातस् तदाष्टमयामाद् ऊर्ध्वं तिसृभी रात्रिभिर् इति । शातातपो ऽप्य् आह ।

रात्रिशेषे द्व्यहाच् छुद्धिर् यामशेषे शुचिस् त्र्यहात् । इति ।

रात्रिशेषे द्व्यहाच् छुद्धिर् इति अहःशेषे द्व्यहाच् छुद्धिर् इत्य् अर्थो ऽवगन्तव्यः । एवम् उक्तो विशेषः संपूर्णाशौचविषये द्रष्टव्यः । यथाह बोधायनः - “अथ यदि दशरात्रसंनिपाते पुनर् आद्यं दशरात्रम् आशौचम् आ नवमाद् दिवसात्” इति । अस्यार्थो धर्मप्रदीपे वर्णितः । अत्रापि वर्ण्यते - यावन् नवमदिनसमाप्तिः तावत् पूर्ववर्तमानाशौचदिवसकालेनोत्तराशौचसमाप्तिर् इत्य् अर्थः । अत्र नवमग्रहणम् उपान्त्यदिवसप्रदर्सनार्थम् । ततश् च द्वादशरात्रादिष्व् अप्य् एतत् सूचितम् इति गुरुणा व्याख्यातम् - “ततश् च दशमे ऽहनि यदा दिवाशौचोत्पत्तिस् तदापि द्वाभ्याम् इत्य् एतद् वेदितव्यम्” इत्य् एतदन्तेन ग्रन्थेन । “दशमे ऽहनि यदा दिवाशौचोत्पत्त्तिः” इत्य् अत्र धर्मदीपग्रन्थे “दशमे ऽहनीत्य् एतद् द्वादशाहादेर् उपलक्षणार्थम्, ततश् च ब्राह्मणस पूर्वाशौचदसमे ऽह्नि संपूर्णद्वितीयाशौचप्रक्रमः, क्षत्रियस्य पूर्वाशौचद्वादशे ऽह्नि, वैश्यस्य पूर्वाशौचपञ्चदशे ऽह्नि, शूद्रस्य पूर्वाशौचमासान्त्यदिने तदापि द्वाभ्याम् इत्य् अयं विशेषो वेदितव्यः । अत एव एव गौतमेन - ऽतच् चेद् अन्तः पुनर् आपतेच् छेषेण शुध्येतन् रात्रिशेषे द्वाभ्यां प्रभाते तिसृभिश् चतुर्णाम् इत्य् अविशेषेण वर्णानाम्ऽ " (ग्ध् १४।६–८) इत्य् उक्तम् । आशौचसंनिपाते शेषेण शुध्येरन्न् इत्य् उक्त्वा रात्रिशेषे द्वाभ्यां प्रभाते तिसृभिर् इति यद् उक्तं तच् चतुर्णाम् इत्य् अविशेषेण ज्ञेयम् इत्य् अर्थः । एवम् असंपूर्णाशौचसंनिपाते संपूर्णाशौचान्त्यदिवसे तस्यासंपूर्णस्य द्वितीयाशौचस्यार्धरात्रादेः पूर्वं पूर्वाशौचशेषेणैव शुद्धिर् बोद्धव्या । मातापितृमरणोशोचयोस् त्व् अन्त्यदिनात् पूर्वम् एव मिथः संनिपाते ऽपि न प्रथमाशौचशेषेण शुद्धिः । यद् आह शङ्खः ।

मातर्य् अग्रे प्रमीतायाम् अशुद्धौ म्रियते पिता ।
पितुः शेषेण शुद्धिः स्यान् मातुः कुर्यात् तु पक्षिणीम् ॥ इति ।

यद्य् अप्य् अत्र मतुर् मरणाशौचशेषमत्रेण पश्चाद्भाविपितृमरणाशौचस्य सुद्धिः, पितृमरणाशौचशेषेण पक्षिण्यधिकेन पश्चाद्भाविमातृमरणाशौचस्य शुद्धिर् इति प्रतिभाति । तथापि नायं वचनार्थः, पितृमरणाशौचस्य निमित्ततो मातृमरणापेक्षया गरीयसः पूर्वशेषमत्रेण शुद्धिः, मातृमरणाशौचस्य निमित्ततः पितृमरणापेक्षया लघियसः पूर्वाशौचशेषेण पक्षिण्यधिकेन शुद्धिर् इत्य् अनुचितार्थत्वात् । अतो ऽन्यथा व्याख्येयम् । व्याख्यातं चान्यथा विज्ञानेश्वरपादैः -

मातरि पूर्वं प्रमीतायां तन्निमित्ताशौचमध्ये यदि पितुर् उपरमः स्यात् तदा न पूर्वशेषेण शुद्धिः, किं तु पितुः प्रयाणनिमित्ताशौचशुद्धिः कार्या । तत्रापि पितुः प्रयाणाशौचमध्ये मातरि स्वर्यातायाम् अपि न पूर्वशेषमात्राच् छुद्धिः, किं तु पूर्वाशौचं समाप्योपरि पक्षिणीं क्षपयेत् । इति ।

आदिपुराणे तु प्रथमाशौचोत्तरार्धसंनिपाते ऽस्य द्वितीयाशौचस्य न पूर्वशेषेणैव शुद्धिः, किं तु स्वकालेनैवेति केषांचिन् मतम् उपन्यस्य, तत् सर्वं धर्मशास्त्रविरुद्धत्वाद् विचार्यम् इत्य् अभिप्रारेणोक्तम् ।

आद्ये भार्गव यावत् स्यात् सूतकस्य तु सूतके ।
सूतके पतिते चास्मात् सूतकाच् छुद्धिर् इष्यते ॥
अत ऊर्ध्वं द्वितीयात् स्यात् सूतकात् तु विशोधनम् ।
एवम् एव विचार्यं स्यात् सूतके मृतके तथा ॥ इति ।

अस्यायम् अर्थः - प्रक्रान्तसूतकस्य पूर्वार्धमध्ये प्रविष्टस्य द्वितीयस्य सूतकस्य प्रक्रान्तसूतकशेषेण शुद्धिः, पूर्वार्धाद् ऊर्ध्वं प्रविष्टस्य तु स्वकालेनैव, प्रक्रान्तशावाशौचमध्ये प्रविष्टस्य सूतकस्याप्य् एवम् एव शुद्धिर् इति यत् केषांचिन् मतं तद् विचार्यम्, चिन्त्यं च धर्मशास्त्रविरुद्धत्वाद् इति ॥

इति स्मृतिचन्द्रिकायाम् अनेकाशौचसंनिपातैषयाणि