०७ असन्निहित-सपिण्डादि-जनन-मरणाशौचम्

अथासंनिहित-देश-भव–काल-भव–
सपिण्डादि-जनन-मरणाशौच-विषयाणि वचनानि लिख्यन्ते

अत्र मनुः ।

संनिधाव् एव यः कल्पः
शावाशौचस्य कीर्तितः ।
अ-संनिधाने स ज्ञेयो
विधिः संबन्धि-बान्धवैः ॥

संबन्धिनो व्यवहित-संबन्धिनः समानोदका इति यावत् ।
बान्धवाः प्रत्यासन्न-संबन्धिनः सपिण्डा इति यावत् ।
कल्पो विधिः ।
वाक्यार्थस् तु -
शावाशौचस्य यो विधिः

“दशाहं शावम् आशौचं
सपिण्डेषु विधीयत्,
त्र्यहात् तूदक-दायिनः”

इत्यादिवचनैः सपिण्डादिमरणे ज्ञेयः ।
अयं च वक्ष्यमाण-शावाशौचस्य विधिर्
असंनिहित-देश-भव-मरणविषये
संबन्धिबान्धवैः ज्ञेय इति ।
शावाशौचस्येति जन्माशौचस्यापि प्रदर्शनार्थम् ।

जनने ऽप्य् एवम् एव स्यान्
निपुणां शुद्धिम् इच्छताम् ।
जन्मन्य् एकोदकानां तु
त्रिरात्राच् छुद्धिर् इष्यते ॥

इति वचनेन
सपिण्ड-समानोदकानां कीर्तितो यः
स एष जन्माशौच-विधिः
संनिहित-देश-भव-जनन-विषयो ज्ञेयः ।
अ-संनिहित-देश-भव-जनन-विषये वक्ष्यमाणो विधिर् ज्ञेयः ।

ततस् तावद् अ-संनिहित-देसभसपिण्डमरणे विशेषं दर्शयति स एव ।

विगतं तु विदेशस्थं शृणुयाद्
यो ह्य् अनिर्दशम् ।
यच् छेषं दशरात्रस्य
तावद् एवाशुचिर् भवेत् ॥

इति ।

विगतं मृतम् ।
विदेशस्थम् अ-संनिहित-देशस्थम् ।
अनिर्दशम् अनिर्गतदशाहम् ।
एतद् अनिर्गतद्वादशाहादेर् उपलक्षणार्थम्,
वाक्यार्थस् तु -
असंनिहित-देश-मृतं स-पिण्डं
यः स्व-जात्य्-उक्त-कालाशौच-मध्ये शृणुयात्
सः स्वाशौच-कालस्य यच्-छेषं यावच्-छेषं
तावद् एव तावत् कालम् एव
अशुचिर् भवेद् इति ।

असंनिहितदेशप्रसवे ऽपि समानम् एतत् । तथा च बृहस्पतिः ।

अन्य-देश-मृतं ज्ञातिं
श्रुत्वा पुत्रस्य जन्म वा ।
अनिर्गत-दशाहं तु
शेषाहोभिर् विशुध्यति ॥

इति ।

अन्यदेशमृतम् असंनिहितदेशमृतं ज्ञातिम्, पुत्रस्य जन्म ज्ञातेर् अपत्यस्य वा जन्म । शङ्खो ऽपि ।

देशान्तरगतं श्रुत्वा कल्याणं मरणं तथा ।
यच् छेषं दशरात्रस्य तावद् एवाशुचिर् भवेत् ॥ इति ।

देशान्तरगतम् असंनिहितदेशभवं कल्याणम् अपत्यजन्मेति यावत् । असंनिहितदेशभवमरणे तु विशेषम् आह पारस्करः - “प्रोषितसंस्थे यावच् छ्रवणप्रभृति कृतोदकाः कालशेषम् आसीरन्” इति । कृतोदकाः प्रेताय दत्तोदकाः । मरणाशौचदशायाम् अनुष्ठेयस्याधःशयनादेर् उपलक्षणार्थम् एतत् । असंनिहितदेशभवसमानोदकमरणे त्व् आह मनुः ।

बाले देशान्तरस्थे तु पृथक्पिण्डे च संस्थिते ।
सवासा जलम् आप्लुत्य सद्य एव विशुध्यति ॥ इति ।

पृथक्पिण्डे असपिण्डे समानोदक इत् यावत् । देशान्तरस्थे असंनिहितदेशस्थे । देशान्तरस्थितत्वेन बालः असपिण्डो विशेष्यते । वाक्यार्थस् तु - असंनिहितदेशस्थे बाले समानोदके वा मृते मरणवार्ताश्रवणानन्तरम् एव तत्क्षणे सचेलस्नानेन विशुध्यतीति । एवं समानोदक जन्मन्य् अपि विशुद्धिः । तथा च बृहस्पतिः ।

संनिधाने ऽशौचम् इति शावं संपरिकीर्तितम् ।
दूरदेशे मृते जाते सद्यःशौचम् उदाहृतम् ॥

अत्रापि शावाशौचग्रहणं सूतकस्य प्रदर्शनार्थम् । अत एवासंनिधाने वक्ष्यमानाशौचविधिर् अत्र प्रदर्सितः । एवं मरणे जन्मनि च विहितं समानोदकानां सद्यःशौचं संनिधाने विहितत्रिरात्रादिकालविशेषाभावे द्रष्टव्यम् । तद्सद्भावे तच्छेषसुद्धिर् अप्य् अवगन्तव्या, “यच्छेषं दशरात्रस्य” इति शङ्खोक्तस्य संनिहितसमानोदकजन्ममरणाशौचकालविशेषोपलक्षणार्थत्वात्, “प्रोषिते कालशेषः स्यात्” इति याज्ञवल्क्यस्मरणाच् च । यदा दशाहाद् ऊर्ध्वम् असंनिहितदेशभवजन्मश्रवणं तदाह देवलः ।

नाशुच्यं स्वल्पम् अप्य् अस्ति व्यतीतेषु दिनेष्व् अपि । इति ।

व्यतीतेषु दिनेषु प्रसवस्याशुच्यं स्वल्पम् अपि नास्तीत्य् अर्थः । यत् पुनर् मनुनोक्तम्,

निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च ।
सवासा जलम् आप्लुत्य शुद्धो भवति मानवः ॥ इति ।

“पुत्रस्य जन्म च” इत्य् अनेन ज्ञातिपुत्रस्येति न्यायेनावगम्यते, पुत्रशब्दस्य (?) संबन्धिवेशेषपर्त्वात् । एवं चायं वाक्यार्थः - निर्गतदशाहं ज्ञातिमरणं ज्ञातेर् अपत्यस्य जन्म वा श्रुत्वा श्रवणानन्तरक्षणे सचेलस्नानेनासपिण्डस्य शुद्धिर् इति । संनिहितदेशगुणवतां तु यद् आशौचम्,

एकाहाच् छुध्यते विप्रो यो ऽग्निवेदसमन्वितः ।
हीने हीनतरे चैव त्र्यहश् चतुरहस् तथा ॥

इत्यादिचनैर् उक्तं तस्मिन्न् आशौचे ऽतिक्रान्ते पुर्वोक्तम् (?) “निर्दशं ज्ञातिमरणम्” इत्यादिवचनोक्तं द्रष्टव्यम् । “निर्दशं ज्ञातिमरणम्” इत्य् अत्र दशाहशब्दात् यथैकाहत्र्यहचतुरहादौ जन्ममरणवार्ताश्रवणे शुद्धिः तथात्रापि कालविशेषेण शुद्धिः । “यच्छेषं दशरात्रस्य” इति वचनस्थदशरात्रग्रहणं दशरात्रस्थानापन्नकालान्तरस्याप्य् उपलक्षणार्थम् । अत एव संग्रहकारेणोक्तम् ।

यस्य वर्णस्य यः कालो विहितो गुणवत्तया ।
श्रुत्वा तदन्तरे चादौ तच्छेषेण विशुध्यति ॥ इति ।

निर्गुणब्राह्मणासीनाम् उक्तस्य दशरात्रादिशावाशौचस्यातिक्रमाद् ऊर्ध्वं संनिहितदेशे सपिण्डस्य मरणवार्ताश्रवणे त्व् आह जाबालिः ।

अतीते सूतके स्वे स्वे त्रिरात्रं स्याद् अशौचकम् ।
संवत्सरे व्यतीते तु सद्यःशौचं विधीयते ॥ इति ।
यद्य् अपि सूतकशब्दः प्रसवाशौचे मुख्यः । तथाप्य् अप्रायत्यसाम्याद् अत्र मृतके वर्तते, सूतकेxव् अतीताशौचानां सपिण्डानां त्रिरात्रविध्यसंभवात् । मनुनाप्य् उक्तम् ।
अतिक्रान्ते दशाहे तु त्रिरात्रम् अशुचिर् भवेत् ।
संवत्सरे व्यतीते तु सद्य एव विशुध्यति ॥ इति ।

तस्माद् वचनात् प्राचीनवचनोक्तम् “विगतं तु विदेशस्थं शृणुयात्” इत्य् एतावद् इहानुवर्तते । ततश् चायम् अर्थः - स्वजात्युक्तकालाशौचाद् ऊर्ध्वं प्रथमसंवत्सराद् अर्वाग् असंनिहितदेशस्थं मृतं सपिण्डं यः शृणुयात् असौ त्रिरात्रम् अशुचिर् भवेत् । अतीते त्व् आशौचे प्रथमसंवत्सरे ऽतीते यः शृणुयात् तदा स्नानेन शुध्यतीति ॥ तथा च शङ्खः ।

अतीते दशरात्रे तु त्रिरात्रम् अशुचिर् भवेत् ।
तथा संवत्सरे ऽतीते स्नानेनैव विशुध्यति ॥ इति ।

अस्मिन् विषये गौतमो ऽप्य् आह - “श्रुत्वा चोर्ध्वं दशम्याः” इति । प्रकृतं त्रिरात्रम् अत्र श्रुत्वा चेति चशब्देनानुकृष्यते । पक्षिणीम् उपरितनसूत्रागताम् (?) अत्र केचित् योजयन्ति तद् अयुक्तम्, चशब्दानर्थक्यप्रसङ्गात् पूर्वोक्तानेकवचनविरोधप्रसङ्गाच् च,

आशौचे समतीते तु बन्धुश् च श्रूयते मृतः ।
तत्र त्रिरात्रम् आशौचं भवेत् संवत्सराद् अधः ॥

इति देवलवचनविरोधापत्तेश् च । स्वेष्व् आशौचाहःस्व् अतीतेषु प्रथमसंवत्सरमध्ये यद्य् असंनिहितदेशमृतः सपिण्डः श्रूयते तत्र त्रिरात्रम् आशौचं भवेद् इत्य् अर्थः । प्रथमसंवत्सराद् ऊर्ध्वं मरणशवणे ऽप्य् आह स एव ।

ऊर्ध्वं संवत्सराद् आद्यान् मृतश् चेच् छ्रूयते स्वकैः ।
भवेद् एकाहम् एव । । । ।

असंनिहितदेशमृतो यदि प्रथमसंवत्सराद् ऊर्ध्वं सपिण्डैः श्रुतः तदा तेषाम् एकाहम् आशौचं पञ्चमात् प्राचीनसपिण्डविषयम् ।

संवत्सरे व्यतीते तु सद्यःशौचं विधीयते ।

इत्य् जाबालिनोक्तं सद्यःशौचं पञ्चमादिसपिण्डविषयम् । एवम् एवात्र विषयव्यवस्था न्याय्या । तथा हि, पञ्चमात् प्राचीनेषु पिण्डदाने देवतात्वेन त्रयाणां कर्तृत्वेन चेतरस्य साक्षात् पिण्डदानक्रियायोगात् सापिण्ड्यम्, पञ्चमादिषु पिण्डदातृहस्तलब्धलेपदाने देवतात्वेन च पिण्डदानक्रियायोगाच् च । एवं च यत्र यत्र साक्षात् सापिण्ड्यं तत्रैकरात्रम्, यत्र परंपरया तत्र सद्यःशौचम् इति पूर्वोक्तसद्यःशौचविधायकवचनानां न विरोधः । तस्मात् संवत्सरात् प्राग् अभिहितं त्रिरात्रं अत् ऊर्ध्वम् अभिहितं सद्यःशौचम् एकरात्रं च देशान्तरलक्षणरहितसंनिहितदेशविषये द्रष्टव्यम् । देशान्तरलक्षणयुक्तदेशान्तरे मृतविषये आह वसिष्ठः - “देशान्तर्स्थे मृते ऊर्ध्वं दशाहाच् छ्रुत्वैकरात्रम् आशौचम्” इति । प्रथमसंवत्सरानन्तरम् एतत् । अत एव विष्णुवसिष्ठौ - “व्यतीते त्व् आशौचे संवत्सरान्तस् त्व् एकरात्रेण ततः परं स्नानेन” इति । एवं च यत् पैठीनसिनोक्तम्,

देशान्तरमृतिं श्रुत्वा क्लीबे वैखानसे यतौ ।
सद्यःशौचं । । । ।

इति, तत् देशान्तरमृतं प्रथमसंवत्सरात् परतः श्रुत्वेत्य् अध्याहृतेन संगमयितव्यम् । अतो न पूर्वोक्तविसिष्ठादिवचनविरोधः । किं पुनर् देशान्तरलक्षणम् इत्य् अपेक्षिते वृद्धमनुः ।

महानद्यन्तरं यत्र गिरिर् वा व्यवधायकः ।
वाचो यत्र विभिद्यन्ते तद् देशान्तरम् उच्यते ॥ इति ।

अयम् अर्थः - महानद्योर् यद् अन्तरं मध्ये गिरिर् वा देशयोर् व्यवधायको यत्रासीत् अपभ्रंशादिभाषाभेदो वा यत्र विद्यते तद् देशान्तरम् इति व्यपदिश्यत इति । काः पुनर् महानद्य इत्य् अपेक्षिते नरसिंहपुराणम् - “गङ्गा यमुआ गोदावरी कृष्णवेणी तुङ्गभद्रा कावरीत्य् एताः महानद्यः” इति । वामनपुराणे ।

गोदावरी भीमरथी कृष्णवेणी सरस्वती ।
तुङ्गभद्रा सुप्रयोगा सिंहा कावेरिरेवती ॥
दुग्धोदा नलिनी रेवा निशिता कलभस्वना ।
महा अपि महानद्यः सह्यमूलाद् विनिर्गताः ॥

“महा अपि महानद्यः” इत्य् अयम् अर्थः - परिगणिताभ्यो ऽन्या याः काश्चिद् विस्तारवत्यः ता अपि महानद्य इति । एवं च गङ्गायमुनयोर् यद् अन्तरं गङ्गाया उत्तरदेशापेक्षया यमुनाया दक्षिणदेशश् च देशान्तरं भवतीत्य् अवगन्तव्यम् । एवं गोदावर्यादिमहानदीनाम् अन्तराण्य् अपि बाहिष्ठदेशान् (?) अपेक्ष्य देशान्तराणीति ज्ञातव्यम् । न च वाच्यं महानद्या दक्षिणकूलम् उत्तरकूलं च परस्परापेक्षया देशान्तरं भवतीति; तयोः सामीप्याद् एवेति । यथोक्तं बृहन्मनुना ।

देशनामनदीभेदो निकटे यत्र वै भवेत् ।
तेन देशान्तरं प्रोक्तं स्वयम् एव स्वयंभुवा ॥

देशनामानि अङ्गवङ्गकलिङ्गादीनि । नदीभेदो नदीवेशेषः महानदीति यावत् । नदीभेदग्रहणं पूर्वोक्तपर्वतादीनाम् अप्य् उपलक्षणम् । वाक्यार्थस् तु - अङ्गवङ्गादिनामान्तरं महानद्यादिकं च निकटे यत्र भवतः तत्रापि देशान्तरलक्षणे ऽपि सामान्यत्वादिना स्वयंभुवा देशान्तरं प्रोक्तम् इति । एवम् अत्यन्तसंनिहितस्यापि देशान्तरत्वे “देशान्तरस्थे प्रेते” इत्यादिवसिष्ठवचनेन नात्रैकरात्रं भवितुम् अर्हति, असंनिहिते ऽपि त्रिरात्रं संनिहिते त्व् एकरात्रम् इति विपरीतम् । अतो मरणव्यवधानतारतम्यापेक्षया यद् देवलेनोक्तम्,

आ त्रिपक्षात् त्रिरात्रं स्यात् षण्मासात् पक्षिणी तथा ।
अहस् तु नवमाद् अर्वाग् ऊर्ध्वं स्नानेन शुध्यति ॥

इति, तत् निकटदेशान्तरे द्रष्टव्यम् । अत्र पूर्वपक्षानुसारेण व्यवस्थावगन्तव्या । आ त्रिपक्षात् दशरात्रादिस्वजात्युक्ताशौचकालाद् ऊर्ध्वम् इति शेषः । बृहस्पतिस् तु योजनसंख्याविशेषेण देशान्तरम् आह ।

देशान्तरं वदन्त्य् एके षष्टियोजनम् आयतम् ।
चत्वारिंशद् वदन्त्य् अन्ये त्रिंशद् अन्ये तथैव च ॥ इति ।

अस्मिंस् तु पक्षे जाबाल्याद्युक्तं संनिहितदेशविषयत्रिरात्राशौचं त्रिंशद्योजनाद् अर्वाक्तनविषये द्रष्टव्यम् । यत्र त्रिंशद्योजनाद् अर्वाग् अपि महानद्यादिव्यवधायकसद्भवः तत्र निकटदेशान्तरविषये “आ त्रिपक्षात् त्रिरात्रं स्यात्” इत् वचनोक्तं द्रष्टव्यम् । त्रिंशद्योजनात् परतोमृतविषये महानद्यादिव्यवधायकालाभे ऽपि “देशान्तरस्थे प्रेते” इत्यादिवसिष्ठोक्तम् एवात्र “आ संवत्सरात् तत ऊर्ध्वं ततः परं स्नानेन” इति विष्णुनाप्य् उक्तं सद्यःशौचम् एवेत्य् अवगन्तव्यम् । एवम् उक्तम् अतिक्रान्ताशौचं मातापितृव्यतिरिक्तसपिण्डविषयम् । मातापितृविषये तु संनिहितदेशे निकटदेशान्तरे च दशरात्रम् एव । तथा च पैठीनसिः ।

पितरौ चेन् मृतौ स्यातां दूरस्थो ऽपि हि पुत्रकः ।
श्रुत्वा तद् दिनम् आरभ्य दशाहं सूतकी भवेत् ॥ इति ।

दूरस्थशब्देनात्र संनिहितस्वदेशस्थो दूरदेशान्तरस्थश् चोक्तः । अपिशब्देन निकटदेशान्तरस्थ उक्त इति मन्तव्यम् । सूतकी भवेत् मरणाशौची भवेद् इत्य् अर्थः । अत्र किंचिद् भाष्यकारेणोक्तम् — श्रुत्वेत्य् अत्र तत ऊर्ध्वम् इति शेषो द्रष्टव्यः । ततश् च दशरात्रमध्ये तु वार्ताश्रवणे पुत्रस्यापि तच्छेषेणैव सपिण्डान्तरवच् छुद्धिर् इति । यत् तु दक्षेणोक्तम्,

महागुरुनिपाते तु आर्द्रवस्त्रोपवासिना ।
अतीते ऽब्दे ऽपि कर्तव्यं प्रेतकार्यं यथाविधि ॥ इति ।

आर्द्रवस्त्रोपवासिना आर्द्रवस्त्रोपेतेन । अतीते ऽब्दे ऽपि अत्यन्तचिरकालाद् ऊर्ध्वम् । प्रेतकार्यम् आशौचदिनेषूक्तोदकपिण्डलक्षणं विवक्षितम् । तद् एव तत् पुनः संस्करकर्तुः पुत्रस्य तदानीं संस्करणासामर्थ्ये ऽप्य् आशौचनियमेषु समर्थतया गृहीताशौचस्य द्रष्टव्यम् । यत् तु याज्ञवल्क्येन संवत्सरे ऽतीते प्रेतकार्यरहितम् उदकदानसहिं सद्यःशौचम् उक्तम् - “वत्सरे पूर्णे प्रेतं दत्वोदकं शुचिः” इति, तत् पुत्रव्यतिरिक्तसपिण्डविषयम् । “महागुरुनिपाते” इत्य् अत्र महागुरुशब्देन पिता माता चोच्यते, न पुनः पितैव,

द्वौ गुरू पुरुषस्येह पिता माता च धर्मतः ।
तयोर् गुरुः पिता तावन् माता गुरुतरा स्मृता ॥

इति मातुर् अपि गौरवातिशयस्मरणात् । अत एव त्रिरात्रविधायकवचनान्तरेण मातृपर्युदासो दक्षेणैव कृतः ।

पितृपत्न्याम् अतीतायां मातृवर्जं द्विजोत्तमः ।
संवत्सरे ऽप्य् अतीते ऽपि त्रिरात्रम् अशुचिर् भवेत् ॥ इति ।

स्मृत्यन्तरम् ।

अतिक्रान्ते दशाहे तु पश्चाज् जानाति चेद् गृही ।
त्रिरात्रं सूतकं तस्य न तद्द्रव्यस्य कस्यचित् ॥ इति ।

अत्र व्याघ्रः ।

तुल्यं वयसि सर्वेषाम् अतिक्रान्ते तथैव च ।
उपनीते तु कर्तव्यं तस्मिन्न् एवातिकालजम् ॥

वयसि षण्मासादिरूपे यत् सद्यःशौचादि विहितं तत् सर्वेषां ब्राह्मणादिवर्णानां तुल्यम् अविशिष्टम् । उपनीते तु संनिहितदेशे मृते दश पञ्चदश त्रिंशद्दिनाशौचं ब्राह्मणादिवर्णानाम्, तस्मिन्न् एव उपनीतोपरम एव अतिक्रान्ताशौचं नानुपनीतोपरम इति । यत् तु स्मृत्यर्थसारे क्वचिद् ब्राह्मणादिवर्णानाम् अतुल्यतयोक्तं मातापितृमरणे दशाहाद् ऊर्ध्वं दूरदेशे ऽपि संवर्सराद् ऊर्ध्वम् अति (?) पुत्रः श्रुत्वा श्रवणदिनम् आरभ्य दशाहादिकं यथावर्णम् आशौचं कुर्याद् इति, तच् चिन्त्यम्, “तुल्यं वयसि सर्वेशाम्” इति व्याघ्रवचनविरोधाच् च । यद् अपि तेनैव मातापितृविषय उक्तः, विशेषस्य विषयान्तरे ऽपि समत्वम् उक्तं “स्त्रीपुंसयोः परस्परं चैवं सर्ववर्णोक्तम् अवर्णसपत्नीषु चैवम्” इति, तद् अपि चिन्त्यम्, स्त्रीपुरुषादिविषये विशेषोपदेशकस्य प्रख्यातपुरुषग्रन्थप्रदीपवर्णादिष्व् अदर्शनात् ॥

इति स्मृतिचन्द्रिकायाम् असंनिहितदेशकालभवसपिण्डादिजननमरणाशौचविषयाणि