०६ शावाशौचविषयान्तरम्

अथान्यान्य् अपि शावाशौचविषयाणि वचनानि लिख्यन्ते

तत्र अङ्गिराः ।

अतः परं तु वर्णानां प्रतिपत्तिर् यथाक्रमम् ।
वक्ष्यामः शावम् आशौचं यथादृष्टं मनीषिभिः ॥ इति ।

अतः परम् उपनीतशवनिमित्तम् आशौचं वक्ष्याम इत्य् अर्थः । अनुपनीतशवनिमित्ताशौचस्य प्राग् उक्तत्वात् । अत एव,

त्रिरात्रम् आ व्रतादेशाद् दशरात्रम् अतः परम् ।

इत्य् उक्तम् । व्रतादेश उपनयनम् । ततः परं बाल्ये यौवने वार्धके वा मरणे दशरात्रम् आशौचं भवतीत्य् अर्थः । अस्मिन् विषये मनुर् अपि ।

दशाहं शावम् आशौचं सपिण्डेषु विधीयते । इति ।

सपिण्डेषु ब्राह्मणसपिण्डेष्व् इत्य् अर्थः,

शुध्येद् विप्रो दशाहेन् द्वादशाहेन भूमिपः ।
वैस्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ।

इति तेनैवोक्तत्वात् । ब्रह्मक्षत्रियवैश्यशूद्रसपिण्डेषु दशाहं द्वादशाहं पञ्चदशाहं मासं शावाशौचं विधीयत इत्य् अर्थः । यत् तु याज्ञवल्क्येनोक्तम्,

त्रिरात्रं दशरात्रं वा शावम् आसौचम् इष्यते ।

इति, तत्र त्रिरात्रपक्षः समानोदकविषय इत्य् अविरोधः । एवम् एव बृहस्पतिः ।

दशाहेन सपिण्डास् तु शुद्ध्यन्ति प्रेतसूतके ।
त्रिरात्रेण सकुल्याश् च स्नात्वा शुध्यन्ति गोत्रजाः ॥ इति ।

कः पुनः सपिण्डादीनां भेदः । उच्यते - यतः प्रवृत्तः सन्तानविशेषः स कूटस्थ इति व्यवह्रियते । तत्सन्तानेषु तम् आदिं कृत्वा गणिताः पुत्रपौत्रादयः सप्तपुरुषपर्यन्ता न गोत्रान्तरानुप्रविष्टाः परस्परं सपिण्डा विज्ञेयाः । तथा च शङ्खलिखितौ ।

सपिण्डता तु सर्वेषां गोत्रतः सप्तपौरुषी । इति ।

कूटस्थम् आरभ्य सप्तपुरुषपर्यन्ताः सपिण्डाः । सर्वेषां कूटस्थसंततिजातानां गोत्रतः एकगोत्रत्वलक्षणोपाधिसद्भावे सतीत्य् अर्थः । एवं कूटस्थस्त्रीपुंससन्ततिजातानां दौहित्रपौत्राणां गोत्रभेदाद् अन्योन्यसपिण्डता नावगन्तव्या । सप्तपौरुषी चेयं सपिण्डता ब्राह्मणादिसर्ववर्णेषु समानैव,

सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
सजातीयेषु वर्णेषु चतुर्थे भिन्नजातिषु ॥

इति पराशस्मरणात् । कूटस्थसजातीयेषु सपिण्डता सप्तमाद् ऊर्ध्वं निवर्तत इति असजातीयेषु त्रिपुरुषाद् ऊर्ध्वं निवर्तत इत्य् अर्थः । तथाह शातातपः ।

पुत्राणां च सपिणानाम् अप्रत्तानां च योषिताम् ।
सपिण्डता तु निर्दिष्टा पितृपक्षे त्रिपूरुषात् ॥ इति ।

साप्तपौरुषात् सापिण्ड्यं विनिवर्तते । अत ऊर्ध्वं समानोदकाः । समानोदका एव बृहस्पतिना सकुल्या इत्य् उक्ताः । निवृत्तसमानोदकभावा गोत्रजाः,

समनोदकभावस् त्व् अनुवर्तेताचतुर्दशात् ।
जन्मनाम्नोः स्मृतेर् एके तत्परं गोत्रम् उच्यते ॥

इति व्याघ्रस्मरणात् । जन्म च नाव च जन्मनामनी, तयोः स्मरणं यावत् तावत् समानोदकभाव इत्य् एके मन्यन्ते । अतः परं समानोदकभावस् त्व् एकेषां मते निवर्तत इत्य् उक्तम् । उक्तं च साक्षान् मनुना ।

सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
समानोदकभावस् तु जन्मनाम्नोर् अवेदने ॥ इति ।

जन्मावेदनम् अस्मत्कुलोद्भूतो ऽयम् इति स्मरणोत्सादनम्, नामावेदनं देवदत्तवंश्या इति स्मरणोत्सादनम् । एवं जन्मनाम्नोर् अन्यतरसमरणोत्सादने ऽपि समानोदकभावो इत्य् अर्थः । तथा च स्मृत्यन्तरे ऽपि ।

समानोदकभावस्य निवृत्तिः स्या अवेदने ।
जन्मनाम्नोर् अन्यतराविज्ञाने ऽपि निवर्तते ॥ इति ।

एवम् अस्मरणे ऽपि न समानोदकभावो निवृत्तो येषां ते गोत्रजाः स्नानाच् छुध्यन्ति । येषां जन्मनाम्नोर् अस्मरणे सत्य् अपि चतुर्दशपुरुषातिक्रमात् सगोत्रत्वं तेषां स्नानमात्राच् छुद्धिः,

समानोदकानां त्र्यहं गोत्रजानाम् अहः स्मृतम् ।

इति जाबालिवचनस्यैवंविधगोत्रजविषयत्वात् । समानोदकानां त्र्यहम् इत्य् अनेन समानोदकेष्व् एव त्र्यहम् इति न नियम्यते, असमानोदकेष्व् अपि स्मरणदर्शनात् । तथा च स्मृतिः ।

त्र्यहं मातामहाचार्यश्रोतिर्य्ष्व् अशुचिर् भवेत् । इति ।

मातामहो मातुः पिता । आचार्यः,

उपनीय तु यः शिष्यं वेदम् अध्यापयेद् द्विजः ।
सकल्पं सरहस्यं च तम् आचार्यं प्रचक्षते ॥

इत्य् उक्तलक्षणवान् । श्रोत्रियः एकशाखाध्यायी, “एकां शाखाम् अधीत्य श्रोत्रियो भवति” इति बोधायनस्मरणात् । वाक्यार्थस् तु - मातामहाचार्यश्रोत्रियेषु मृतेषु क्रमेण दौहित्रः अश्रोत्रियो ऽपि तच्छिष्यः प्रतिवेश्यद्विजश् च त्र्यहम् अशुचिर् भवेद् इति । श्रोत्रिये त्र्यहम् अशुद्धिः प्रतिवेश्य एव द्विजे, अप्रतिवेश्यानाम् एकग्रामिणाम् (?) एकरात्रस्य वक्ष्यमाणत्वात् । अत एव मनुना श्रोत्रिय वेशेष उक्तः ।

श्रोत्रिये तूपसंपन्ने त्रिरात्रम् अशुचिर् भवेत् । इति ।

उपसंपन्नः प्रत्यसन्नः प्रतिवेश्य इति यावत् । आश्वलायनो ऽप्य् आचार्यलक्षणसंपन्ने गुरौ त्रिरात्रम् आह - “गुरौ चासपिण्डे त्रिरात्रम्” इति । सपिण्डो गुरुः पिता । तदितर उक्तलक्षणवान् आचार्यः । “इतरेष्व् आचार्येषु” इत्य् अनन्तरं तेनैवाभिधानात् । अतो ऽत्राप्य् अन्योपनीतशिष्यस्यैवासपिण्डगुरुमरणे त्रिरात्रं वेदितव्यम् । एतच् च त्रिरात्रं परेण दहनादिके क्रियमाणे द्रष्टव्यम् । यद् आह मनुः ।

गुरोः प्रेतस्य शिष्यस् तु पितृमेधं समाचरन् ।
प्रेताहारैः समं तत्र दशरात्रेण शुध्यति ॥ इति ।

प्रेताहाराः प्रेतद्रव्योपजीविनः, प्रेतकुटुम्बान्तर्गताः सपिण्डा इति यावत् । तैः सह दशरात्रेण पितृमेधकर्ता शिष्यः शुध्यतीत्य् अर्थः । एवं च दशरात्राशौचस्य पितृमेधकर्तृत्वप्रयुक्तत्वाद् दौहित्रादाव् अपि पितृमेधकर्तृत्वे दशरात्रं वेदितव्यम् । प्रचेता अपि ।

मातृष्वसामातुलयोः श्वश्रूश्वशुरयोर् गुरौ ।
मृते चर्त्विजि याज्ये च त्रिरात्रेण विशुध्यति ॥ इति ।

मातृश्वस्रादिषु वक्ष्यमाणपक्षिण्याशौचचिधिविरोधपरिहाराय किंचिद् विशेषणं कल्प्यम् । तत्र पित्रोर् असंनिधानासामर्थ्यादौ मातृष्वसामातुलयोः भगिनीसुतसंनिधात्रोः श्वश्रूश्वशुरयोः जामातृपोषकयोः गुरौ उपनयनादिकर्तरि ऋत्विजि यजमानकुलक्रमायाते याज्ये च क्षत्रियकुलक्रमायाते मृते भागिनेयादिः प्रतिसंबन्धी त्रिरात्रेण शुध्यतीति । वृद्धमनुर् अपि ।

पित्रोर् उपरमे स्त्रीणाम् ऊढानां तु कथं भवेत् ।
त्रिरात्रेण विशुद्धिः स्याद् इत्य् आह भगवान् यमः ॥

पित्रोर् उपरमे पितुर् वा मातुर् वा मरणे विवाहसंस्कारसंस्कृतानां दुहितॄणां त्रिरात्रेण सुद्धिर् इत्य् अर्थः । दौहित्राणां मरणे ऽप्य् आह स एव ।

संस्थिते पक्षिणी कार्या दौहित्रे भगिनीसुते ।
संस्कृते तु त्रिरात्रं स्याद् इति धर्मो व्यवस्थितः ॥ इति ।

दौहित्रे भगिनीसुते उपनयनसंस्कारसंस्कृते मातामहमातामह्योः मातृष्वसामातुलयोस् त्रिरात्रम् आशौचं भवति । उपनयनसंस्कृते पक्षिणी, आगामिवर्तमानाद् अहर्युक्तां रात्रिं मातामहादिः क्षपयेद् इत्य् अर्थः । अत्रोपनीतमरणाशौचकथने ऽतिप्रसङ्गाद् अनुपनीतस्यापि कथितम् इति मन्तव्यम् । बोधायनो ऽपि - “शिष्यसतीर्थ्यसब्रह्मचारिषु त्रिरात्रम् अहोरात्रम् एकाहम् इति कुर्वीत” इति । त्रीण्य् एतानि वाक्यानि । तत्र प्रथमवाक्यस्यायम् अर्थः - अन्येनोपनीते शिष्ये मृते त्रिरात्रम् आशौचम् आचार्यः कुर्याद् इति । कृतविद्या एकगुरवः शिश्याश् च सतीर्थ्याः, तेषु कस्यचिन् मरणे तदितरः सतीर्थ्यः अहोरात्रं कुर्यद् इति द्वितीयवाक्यार्थः । एकगुरवः सहाध्ययिनः शिष्याः सब्रह्मचारिणः, तेष्व् एकस्मिन् मृते तदितरः सब्रह्मचारी एकाहम् आशौचं कुर्याद् इति तृतीयवाक्यार्थः । हारीतो ऽपि ।

परपूर्वासु भार्यासु पुत्रेषु कृतकेषु च ।
मातामहे त्रिरात्रं स्याद् एकाहं तु सपिण्डतः ॥ इति ।

परः वर्तमानभर्तुर् अन्यः स्वभर्ता यस्सास्सा (?) परपूर्वा पुनर्भूर् इत्य् अर्थः । कृतकः पुत्रः जन्मव्यतिरिक्तैः कारणैर् जातो दत्तादिः पुत्रः । वाक्यार्थस् तु - मातामहादौ मृते परपुऋवाया भार्याया मरणे पूर्वापरयोर् भर्त्रोस् त्रिरात्रम्, कृतकपुत्रमरणे जन्मव्यतिरिक्तकारणेन यस्य पुत्रो जातस् तस्य त्रिरात्रम्, पूर्वापरभर्तुः कृतकपुत्रिणश् च ये सपिण्डास् तेषाम् अहोरात्रम् आशौचम् इत्य् अर्थः । अत्र सपिण्डदौहित्राशौचकथनप्रसङ्गात् पुनर्भूसपिण्डानाम् आशौचं कथितम् इति मन्तव्यम् । शङ्खस् तु स्वैरिणीपुनर्भ्वाम् अपि त्रिरात्राशौचम् आह ।

अनौरसेषु पुत्रेषु भार्यास्व् अन्यगतासु च ।
परपूर्वासु च स्वासु त्रिरात्राच् छुच्छिर् इष्यते ॥ इति ।

अनौरसेषु पुत्रेषु क्षेत्रजदत्तकादिषु अन्यगतासु पुनर्विवाहम् अन्तरेण भर्त्रन्तरं समाश्रितासु स्वैरिणीषु परपूर्वासु स्वासु वर्णानतिक्रमेण पुनर्भूषु । विष्णुः शङ्खोक्तविषये जन्मन्य् अपि त्रिरात्रम् आह ।

अनौरसेषु पुत्रेषु जातेषु च मृतेषु च ।
परपूर्वासु भार्यासु प्रसूतासु मृतासु च ॥ इति ।

“मातामहे ऽतीते त्रिरात्रेण” इति पूर्ववाक्यश्रुतत्रिरात्रेणेतिपदम् इहानुषज्यते । अङ्गिरा अपि ।

गृहे यस्य मृतः कश्चिद् असपिण्डः कथंचन ।
तस्याप्य् अशौचं विज्ञेयं त्रिरात्रं नात्र संशयः ॥ इति ।

प्रधानगृहमरणविषयम् एतत् । अप्रधानगृहमरणे त्व् आह विष्णुः - “असपिण्डे स्ववेश्वनि मृते ऽप्य् एकरात्रम् आशौचम्” इति । असपिण्डयोनिसंबन्धमरणे त्व् आह गौतमः - “पक्षिणीम् असपिण्डयोनिसंबन्धे सहाध्यायिनि च” इति । पितृव्यादिः योनिसंबन्धः, तद्व्यावृत्त्यर्थम् असपिण्डग्रहणम् । ततश् चायम् अर्थः - असपिण्डयोनिसंबन्धाः मातुलमातृष्वसृभगिनीभागिनेयपितृष्वसृतत्सुतादयः, तेषां मरणे तत्संबन्धप्रतियोगी भागिनेयादिपक्षिणीं क्षपयेद् इत्य् अर्थः । सहाध्यायिनीत्य् अस्यायम् अर्थः - येन शास्त्रेण सहैकस्मिन् गुरुकुले द्वादशाब्दादिबहुकालम् अध्ययनं च कृतं तन्मरणे तदितरस् तत्सहाध्यायी पक्षिणीं क्षपयेद् इति । मनुर् अपि ।

मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च । इति ।

अल्पोपकारकमातुले, अन्योपनीतसाङ्गवेदाध्यायिनिशिष्ये, आधानप्रभृति यावज्जीवम् आर्त्विजकारिणि ऋत्विजि, आत्मपितृमातृबान्धवे मृते भागिनेयादिः पाक्षिणीं रात्रिम् अशुचिर् भवतीत्य् अर्थः । बान्धवाः स्मृत्यन्तरे दर्शिताः ।

आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसुः सुताः ।
आत्ममातुलपुत्राश् च विज्ञेया आत्मबान्धवाः ॥
पितुः पितृष्वसुः पुत्राः पितुर् मातृष्वसुः सुताः ।
पितुर् मातुलपुत्राश् च विज्ञेयाः पितृबान्धवाः ॥
मातुः पितृष्वसुः पुत्रा मातुर् मातृष्वसुः सुताः ।
मातुर् मातुलपुत्राश् च विज्ञेया मातृबान्धवाः ॥

वृद्धमनुर् अपि ।

श्वश्रयोर् भगिन्यां च मातुलान्यां च मातुले ।
पितुः स्वसरि मातुश् च पक्षिणीं क्षपेन् निशाम् ॥
मातुले श्वशुरे मित्रे गुरौ गुर्वङ्गनासु च ।
आशौचं पक्षिणीं रात्रिं मृता मातामही यदि ॥ इति ।

श्वशुरयोः स्वल्पोपकारिणोः भगिन्यां मातृहितकारिण्यां मातुलान्यां मातुलपत्न्याम् अल्पोपकारिणि मातुले च पितृष्वसरि मातृष्वसरि चाल्पोपकारिण्यां पक्षिणीं निशां क्षपयेद् इति पूर्वश्लोकार्थः । द्वितीयश्लोके पुनर् मातुलग्रहणं श्वशुरविशेषणार्थम् । यो मातुलो भागिनेयाय दुहितरं दत्वा श्वशुरः संजातस् तस्मिन् श्वशुर इत्य् अर्थः । मित्रे मित्रविधानेन स्वीकृते । गुरौ शास्त्रोपदेशके,

अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः ।
तम् अपीह गुरुं विद्याच् छ्रुतोपक्रियया तया ॥

इति शास्त्रोपदेशके ऽपि गुरुशब्दस्मरणात् । यत् तु जाबालिना “गोत्रजानाम् अहः स्मृतम्” इत्य् उक्त्वोक्तम्,

मातृबन्धौ गुरौ मित्रे मण्डलाधिपतौ तथा ।

इति, मातृबन्धुः मातुलः । यत् तु याज्ञवल्क्येन,

अहस् त्व् अदत्तकन्यासु बाले त्व् अकृतचूडके ।

इत्य् उक्त्वोक्तम्,

गुर्वन्तेवास्यनूचानमातुलश्रोत्रियेषु च ।
अनौरसेषु पुत्रेषु भार्यास्व् अयगतासु च ॥

इति, यच् च विष्णुनोक्तम् - “आचार्यपत्नीगुरूपध्यायमातुलश्वशुरश्वश्रूसहाध्यायिशिष्येष्व् एकरात्रेण शुद्धिः” इति, तत्र जाबाल्युक्तगुरुशब्दस्य याज्ञवल्क्योक्तगुरुशब्दस्य च विष्णूक्तोपाध्यायशब्देन समानार्थत्वम् अवगन्तव्यम् । अत एव आश्वलायनेन “गुरौ चासपिण्डे त्रिरात्रम्” इत्य् उक्त्वोक्तम् “इतरेष्व् आचार्येष्व् एकाहम्” इति । “उपनीय तु यः शिष्यं वेदम् अध्यापयेत्” इत्यादिना निरूपिताद् आचार्याद् इतरेष्व् आचार्येष्व् इत्य् अर्थः । मातुल एकरात्रम् अनुपकारकमातुलविषयम् । पुत्र एकरात्रं यथाकथंचित् स्वीकृतपुत्रविषयम् । शिष्य एक रात्रम् इतराचार्यविषयम् । श्रोत्रिय एकरात्रं समानग्रामश्रोत्रियविषयम्, “एकाहं सब्रह्मचारिणि समानग्रामिणि च श्रोत्रिये” इत्य् आश्वलायनस्मरणात् । अनौरसेषु पुत्रेष्व् अन्यगतासु भार्यास्व् एकरात्रम् अनौरसादीनाम् असंनिधान्विषयम् । श्वशुरयोर् एकरात्रविधानं जामात्र(?)नुपकारश्वशुरविषयम् । सहाध्यायिन्य् एकरात्रं द्वादशाब्दकालाद् अन्यतरकालसहाध्यायिविषयम् । अन्यथा जाबालिवचनात् पूर्वोक्तत्रिरात्रविधायकवचनैः सह विरोधः स्यात् । यत् तु मनुनोक्तम्,

प्रेते राजनि सज्योतिर् यस्य स्याद् विषये स्थितः ।

इति — ज्योतिषा सह वर्तत इति सज्योतिः — अह्नि चेद् मरणं यावत् सूर्यदर्शनं तावद् आशौचम्, रात्रौ चेत् यावन् नक्षत्रदर्शनं तावद् आशौचम् इत्य् अर्थः । तद् एतत् स्वल्पदेशाधिपतिविषयम्, महामण्डलाधिपतिविषये त्व् एकरात्रविधानात् । अत एव स्वपदेशाधिपतौ सज्योतिर् अनध्ययम् आह वृद्धमनुः ।

ग्रामेश्वरे कुलपतौ श्रोत्रिये च तपस्विनि ।
शिष्ये पञ्चत्वम् आपन्ने शुचिर् नक्षत्रदर्शनात् ॥ इति ।

कुलपतिः समूहपतिः । असंनिहितश्रोतियादिविषयम् एतत् । यत् तु मनुनोक्तम्,

भगिन्यां संस्थितायां तु भ्रातर्य् अपि च संस्थिते ।
मित्रे जामातरि प्रेते दौहित्रे भगिनीसुते ॥
स्यालके तत्सुते चैव सद्यः स्नानेन शुध्यति ।

इति, भगिन्यां विवहसंस्कृतायां मृतायां सोदरभ्राता सद्यः स्नानेन शुध्यति न मातापितृवत् त्रिरात्रेणेत्य् अर्थः । भ्रातरि सोदरे च उपनयनसंस्कृते मृते भगिनी सद्यः स्नानेन सुध्यतीति । मित्रे चिरकालानुबन्धशून्ये जामातरि प्रेते श्वशुरौ सद्यः स्नानेन शुध्यतः । स्यालकः पत्नीभ्राता तस्मिंस् तत्सुते वा मृते सद्यः स्नानेन शुध्यतीति । दौहित्रे भगिनीसुते च सद्यःशौचम् असंनिहितदौहित्रादिविषयम् । अतो न दौहित्रादाव् उक्तत्रिरात्रविरोधः । उक्तं समानोदकाद्याशौचम् अत्र त्रिष्व् अपि वर्णेषु समानम्, सपिण्डाशौचवद् अत्र विशेषोल्लेखनविशेषस्मरणात् अविशेषज्ञापकस्य वाच्यत्वाच् च । तथा हि आशौचप्रकरणादौ ।

आशौचम् असपिण्डेषु प्रोषिते श्रोत्रिये गुरौ ।
अतीते नृपतौ तद्वद् ऋतुकाले च योषिताम् ॥
अप्रजासु तथा स्त्रीषु मतुले बान्धवेषु च ।
एवम् आदाव् अशौचस्य चतुर्णाम् अपि तुल्यता ॥
वर्णानाम् इत्य् एव सिद्धे चतुर्णाम् अपि कीर्तनात् । इति ।

अप्रजासु गर्भस्रावादिना नष्टप्रजासु ॥

इति स्मृतिचन्द्रिकायाम् अन्यानि शावाशौचविषयाणि