०५ स्त्रीप्रजाशौचम्

अथ स्त्रीप्रजाशौचविषयाणि

उक्तम् अविशेषेण गर्भस्रावादिस्त्रीपुंसप्रजामरणे शावाशौचम् । इदानीं स्त्रीप्रजामरणाशौचविषयाणि कानिचिद् वचनानि लिख्यन्ते । तत्र आपस्तम्बः -

अप्रौढायां तु कन्यायां सद्यःशौचं विधीयते । इति ।

दन्तजननाद् ऊर्ध्वम् अपीति शेषः । एवं च,

अजातदन्ते बाले तु सध्यःशौचं विधीयते ।
अहोरात्रात् तदा शुद्धिर् बाले त्व् अकृतचूडके ॥

इत्य् अत्र दन्तजननाद् ऊर्ध्वं बालमरणे सत्य् अहोरात्राशौचविधानं कन्येतरवालविषयम् इति मन्तव्यम् । मनुना त्व् अकन्याविषय एव विहितम् ।

नृणाम् अकृतचूडानाम् अशुद्धिर् नैशिकी स्मृता । इति ।

नृणां पुंसाम् इत्य् अर्थः ।

निवृत्तचूडकानां तु त्रिरात्राच् छुद्धिर् इष्यते । इति ।

एतद् अपि मनूक्तम् अकन्याविषयम् एव, नृणाम् इत्य् अस्यानुषङ्गात् । कथं तर्ह्य् आशौचं कृतचूडकन्यामरण इत्य् अपेक्षिते आपस्तम्बः - “एकाहाच् छुद्धिम् आयान्ति कृतचूडिकायाम्” इति । कृतचूडिकायां कन्यायां विवाहाद् अर्वाङ् मृतायाम् अहोरात्रम् इत्य् अर्थः,

अप्रत्तायां मृतायां तु कन्यायाम् एकरात्रकम् ।
आशौचं बान्धवानां तु पित्रादीनां प्रकीर्तितम् ॥

इति मार्कण्डेयस्मरणात् । तत्र पित्रादीनां बान्धवानाम् इति नैवम् अन्वयः, पित्रादिसर्वबन्धूनाम् अहोरात्राशौच उच्यमाने स्मृत्यन्तरविरोधापत्तेः । अतस् तत्परिहाराय पित्रादीनाम् अस्मिन् विषये स्मृत्यन्तरे प्रकीर्तितं त्रिरात्रम् आशौचं भवतीत्य् अध्याहृतेनान्वयो द्रष्टव्यः । पितृवत् सोदराणाम् अपि पत्यासत्त्यतिशयान् न बन्धुवद् आशौचम्, किं तु पितृवद् एवेति ज्ञापयितुं बहुवचननिर्देशः पित्रादीनाम् इति कृतः । यमेनोक्तम् ।

पित्रोर् उपरमे स्त्रीणाम् आशौचं तु कथं भवेत् ।
त्रिरात्रेण विशुद्धिः स्याद् इत्य् आह भवान् यमः ॥

अत्र स्त्रीणाम् उपरमे पित्रोः कथम् आशौचम् इत्य् अन्वयः । अकृतचूडस्त्रीणाम् उपरमे मातापित्रोर् आशौचं कथं भवेत् । बन्धूनाम् इत्वैकरात्रम् आशौचम्, उत प्रत्यासत्त्यतिशयात् ततो ऽधिकम्, इति संशये पित्रोस् त्रिरात्रेणैव् शुद्धिर् इति नियमेन निरनय इत्य् अर्थः । पित्रोर् इति पित्रादीनाम् इत्य् अन्वयो ऽवगन्तव्यः । एवं पितोर् इति यत यत्रोच्यते तत्र तत्र पितृशब्दस्य सोदरभारॄणाम् उपलक्षणत्वं वेदितव्यम् । कार्ष्णाजिनिर् अपि पितृव्यादिबन्धूनां पित्रादीनाम् आशौचे विशेषम् आह ।

प्रत्ताप्रत्तासु (?) योषित्सु संस्कृतासंस्कृतासु च ।
मातापित्रोस् त्रिरात्रं (?) स्याद् इतरेषां यथाविधि ॥

अप्रत्तासु जातदन्तास्व् इति शेषः । अजातदन्तासु पित्रादीनाम् एकरात्राशौचस्य शङ्खेनोक्तत्वात् । जातदन्तासु स्त्रीषु पित्रादीनां पुमपत्यवद् एवाशौचं वेदितव्यम् । “इतरेषां यथाविधि” इत्य् अस्यायम् अर्थः - इतरेषां पितृव्यादीनां कन्यानां प्राक्चूडाकरणात् सद्यःशौचम्, प्राग् दानाद् एकाहम्, वाग्दत्तानां प्राक्परिणयनात् त्र्यहीम्त्यादिविध्यन्तरानुसारेण (?) शुद्धिर् इति । प्रत्ता प्रक्रान्तदाना वाग्दत्तेति यावत् । संस्कृता विवाहसंस्कारेण संस्कृता ।

वारिपूर्वं प्रदत्तासु या नैव प्रतिपादिता ।
असंस्कृता तु सा प्रोक्ता त्रिरातम् उभयोः स्मृतम् ॥

इति मरीचिस्मरणात् । उभयोः भर्तृपितृपक्षयोः । अत एव मनुः ।

स्त्रीणाम् असंअस्कृतानां तु त्र्यहाच् छुध्यन्ति बान्धवाः ।
यथोकेनैव कालेन शुद्ध्यन्त्य् एव सनाभयः ॥ इति ।

अयम् अर्थः - वाग्दत्तानां विवाहासंस्कृतानां स्त्रीणां मरणे वाग्दानसमये कुमारीस्वीकर्तृपितृकेन बन्धुभावम् उपागता भर्तृपक्षीयास् त्रिरात्रेण शुध्यन्ति । सनाभयः कन्याप्रत्यासन्नास् त्रिपुरुषपर्यन्ताः सपिण्डाः यथात्रैवोक्तेन त्रिरात्रकल्पेन शुध्यन्ति । “अप्रत्तानां तु स्त्रीणां त्रिपुरुषसापिण्ड्यम्” इत् वचनबलाद् एवं व्याख्यातम् । पद्मपुराणे तु कन्यामरणाशौचं प्रपञ्चेनाभिहितम् ।

आजन्मनस् तु चौलान्ता कन्या यत्र विपद्यते ।
सद्यःशौचं भवेत् तत्र सर्ववर्णेषु नित्यशः ॥
ततो वाग्दानपर्यन्तं यावद् एकाहम् एव हि ।
ततः परं प्रवृत्तायां त्रिरात्रम् इति निश्चयः ॥
वाग्दाने च कृते यत्र तरोभयतः त्र्यहम् (?) ।
पितुर् वरस्य च ततो दत्तानां भर्तुर् एव हिअ ।
स्वजात्युक्तम् अशौचं (?) स्यान् (?) मृतके जनने ऽपि च ॥ इति ।

ततो “वाग्दानपर्यन्तम्” इत्यादेर् अयम् अर्थः - ततः तस्माच् चौलाद् वाग्दानपर्यन्तं कन्याविपत्तौ यावद् एकाहम् अहोरात्रं यावत् तावद् आशौचम्, ततः परं वाग्दानाद् ऊर्ध्वं विवाहोत्कर्षविषये वाग्दानावस्थायाम् एव प्रवृत्तायाम् अहिकवयस्य् अपि त्रिरात्रम् एवेति निश्चयः । वाग्दाने कृते तत्रोभयतः पक्षे त्रिरात्रम्, ततो विवाहाद् ऊर्ध्वं दत्तानां सम्यक् प्रतिपादितानां मरणे अपत्यजनने केवलं भर्तृपक्षस्य स्वजात्युक्तं दशाहम् आशौचं स्याद् इति । प्रवृत्तायां त्रिरात्रम् इत्य् अस्य दृष्टरजस्य् अपवादम् आह शङ्खः ।

पितृवेश्मनि या नारी रजः पश्यत्य् असंस्कृता ।
तस्यां मृतायां नाशौचं कदाचिद् अपि शाम्यति ॥ इति ।

स्वजात्युक्तदशाहादिकालाद् अर्वाक् कदाचिद् अपि न शाम्यतीत्य् एवं कैश्चिद् व्याख्यातम् । विवाहोत्कर्षवच् चूडाकरणवाग्दानयोर् उत्कर्षे आ चौडात् सद्य आ वाग्दानाद् एकाहम् एवेति निश्चयो न्यायसाम्यात् कार्यः । अचूडितायाम् अवाग्दत्तायां वा रजोदर्शने “पितृवेश्मनि या नारी” इत्यादिवचनोक्तं द्रष्टव्यम् । परतो मृतायाम् आशौचं पितृपक्षे निवर्तत इत्य् आह मार्कण्डेयः ।

कन्यायास् तु व्रतस्ताने विवाहः परिकीर्तितः ।
उद्वाहितानाम् आशौचं पितृपक्षे विधीयते ॥ इति ।

अस्य क्वचिद् अपवादम् आह विष्णुः - “विवाहसंस्कारसंस्कृतासु स्त्रीषु नासौचं पितृपक्षे तत्प्रसवमरणे चेत् पितृगेहे भवेतां तदैकरात्रं त्रिरात्रं वा” इति । “तत्प्रसवमरणे” इत्यादेर् अयम् अर्थः - विवाहसंस्कृतानां स्त्रीणां पितृगेहे प्रसवे गर्भस्थशिशुजनने तस्या मरणे वा यथाक्रमं प्रसवे एकरात्रं मरणे त्रिरात्रं पितृव्यादिबन्धूनाम् आशौचं भवतीति । तथा च बान्धवा इत्य् अनुवृत्तौ शङ्खः - “गेहे मृतासु दत्तासु कन्यासु त्र्यहं तथा” इति । परिणीतासु स्त्रीषु पितृगेहे मृतासु पितृव्यादिबान्धवास् त्र्यहम् आशौचं कुर्युर् इत्य् अर्थः । अथ वा प्रसवे मरणे बान्धवानाम् एकरात्रं पित्रादेस् त्र्यहम् इति व्यवस्थाया विष्णुवचनं व्याख्ययम्,

दत्ता नारी पितुर् गेहे सूयेताथ म्रियेत वा ।
तद्बन्धुवर्गस् त्व् एकेन शुद्धस् तज्जनकस् त्रिभिः ॥

इति ब्रह्मपुराणे व्यवस्थयैवाभिधानात् । जनकग्रहणं जनन्याः सोदरभ्रातॄणाम् अपि प्रदर्शनार्थम् । एवं पितृगेहे प्रसवे पितृपक्षीयस्यैकरात्रम् आशौचं मरणे त्रिरात्रम् एकरात्रं वेति । पितृगृहाद् अन्यत्र प्रसवे मरणे वा पितृपक्षस्य नास्त्य् आशौचम्, मातापित्रोः स्वगेहे जनने मरणे वा त्रिरात्रम्, गृहान्तरे ऽपि मरणे त्रिरात्रं प्रसवे तूभयोर् अपि नास्त्य् आशौचं कारनाभावाद् इत्य् अवगन्तव्यम् । यत् तु शङ्खलिखिताभ्याम् उक्तम् - “वाक्प्रदाने कृते विवाहे चाकृते यत्र कन्या विपद्यते तत्रोभयतः उभयस्मिन् भर्तृपितृपक्षे त्रिरात्रम् आशौचम् ऊढायां गोत्रात् पिण्डाशौचाभ्यां निवृत्तिः” इति, आशौचशब्देनात्र आशौचदशायां कर्तव्यम् उदकदानं निर्दिश्यते । ततश् चायम् अर्थः - ऊढायां कन्यायां पितृगेहे मृतायां पितृव्यादिबन्धूनाम् एकाहम् आशौचं पितृगोत्रात् पिण्डोदकदानादेर् निवृत्तिर् इति । अतो न पूर्वोक्तविरोधः । पितृगोत्रतः पिण्डाशौचनिवृत्तौ हेतुम् आह पैठीनसिः - “दत्ता कन्या परैव भवति” इति । ऊढा कन्या भर्तृगोत्रेणैव भवतीत्य् अर्थः,

एकत्वं सा गता भर्तुः पिण्डे गोत्रे च सूतके ।

इति स्मरणात् । अतश् च पिण्डोदकदानम् ऊढायै भर्तृगोत्रेण कर्तव्यम् इत्य् अर्थः । अत एव मार्कण्डेयः ।

ब्राह्मादिषु विवाहेषु या ऊढा कन्यका भवेत् ।
भर्तृगोत्रेण कर्तव्यास् तस्याः पिण्डोदकक्रियाः ॥
आसुरादिविवाहेषु पितृगोत्रेण धर्मतः ॥ इति ।

पितृगोत्रेण कन्यापितृगोत्रेणेत्य् अर्थः । ऊढायाः पिण्डोदकक्रियाश् च भर्तृकुल्यैः कर्तव्याः । तथा च वसिष्ठः - “दत्तानाम् इतरे कुर्वीरंस् ताश् च स्त्रियस् तेषाम्” इति । उद्वाहितानां स्त्रीणाम् और्ध्वदैहिकं भर्तृकुल्याः कुर्युः, तेषां भर्तृकुल्यानां मरणे ता उद्वाहिताः स्त्रियः कुर्युर् इत्य् अर्थः । पुत्रादिप्रत्यासन्नाधिकार्यभावविषयम् एतद् इति श्राद्धकाण्डे निरूपितम् ॥

इति स्मृतिचन्द्रिकायां स्त्रीप्रजाशौचविषयाणि