०४ शिशुमरणे शरीरसंस्काराशौचम्

अथ शिशुमरणे शरीरसंस्काराशौचविषयाणि

तत्र आदिपुराणे ।

स्त्रीणां तु पतितो गर्भः सद्यो जातो मृतो ऽथ वा ।
अजातदन्तो मासैर् वा मृतः षाड्भिर् गतैस् तथा ॥
वस्त्राद्यैर् भूषणं कृत्वा न्युप्तव्यः स काष्टवत् ।
खनित्वा तु शनैर् भूमिं सयः शौचं विधीयते ॥ इति ।

स्त्रीणां तु यो गर्भः पतितः, यः सद्यः जातः सन् तत्क्षण एव मृतः, यश् चाजातदन्तः सन् षण्मासाद् ऊर्ध्यम् अजातदन्तो मृतः, स बहुभिर् वस्त्रमाल्यैर् अलंकृत्य भूमिं खात्वा गर्ते काष्ठवन् निक्षिप्तव्य इत्य् अर्थः । सद्यः शौचं मातापितृसोदरभ्रातृव्यतिरिक्तानाम् इत्य् अर्थः । मात्रादीनां तु पूर्वप्रकरणोक्तम् आशौचम् अनुसंधेयम् । जातदन्तविषये त्व् आदिपुराण एवोक्तम् ।

जातदन्तं मृतं त्यक्त्वा चरेद् एकाहम् एव तु ।

इति, दन्तजननाद् ऊर्ध्वं परित्यक्तविषयम् । पूर्वोक्तविधिनारण्ये निक्षिप्य एकाहम् आशौचम् आचरेद् इत्य् अर्थः । इदं चैकाहम् आशौचं मात्रादिव्यतिरिक्तविषयम्, मात्रादिविषये पूर्वप्रकरणोक्तं त्रिरात्राशौचं वेदितव्यम् । यथा आदिपुराण उक्तम् ।

अनतीतद्विवर्षं तु मृतं भूमौ निधाय च ।
त्रिरात्रं बान्धवानां तु स्याद् आशौचं तु सर्वशः ॥ इति ।

दन्तजननाद् ऊर्ध्वम् अपूर्णद्विवर्षं मृतं पूर्वोक्तविधिना भूमौ गर्तवत्यां निधाय पूरयेद् इति प्रथमवाक्यार्थः । उक्तविषये मात्रादीनां बान्धवानां त्रिरात्रम् आशौचं भवेद् इति द्वितीयवाक्यार्थः । अनतीतद्विवर्षस्य खनने विशेषम् आह यमः ।

ऊनद्विवर्षकं प्रेतं घृताक्तं निखनेद् भुवि ।
यमगाथा (?) गायमानो यमसूक्तम् अनुस्मरन् ॥ इति ।

गाथाः (?) “यो ऽस्य कौष्ठ्यजगतः” इत्याद्यास् तिस्र ऋचः । यमसूक्तम् “परेयुवांसम्” इति षडृचम् । मनुर् अपि ।

ऊनद्विवार्षिकं प्रेतं निदध्युर् बान्धवा बहिः ।
अलंकृत्य शुचौ भूमाव् अस्थिसंचयनाद् ऋते ॥
नास्य कार्यो ऽग्निसंस्कारो नापि कार्योदकक्रिया ।
अरण्ये काष्ठवत् त्यक्त्वा क्षपेयुस् त्र्यहम् एव तु ॥ इति ।

यत्र भूमौ पुरास्थिसंचयनं कृतं तां विहायान्यत्र शुचौ भूमाव् अवटं खात्वा तत्र प्रेतशरीरं बान्धवा निधाय इष्टकालोष्टपाषाणादिभिः प्रच्छादयेयुर् इत्य् अर्थः । बान्धवा इति बहुवचनं बन्धूनाम् अत्रानुगमनं कृताकृतम् इति ज्ञापयितुम् । नियमपरं चेद् बवचनम्,

ऊनद्विवार्षिकं प्रेतं निखनेन् नोदकं ततः ।

इति याज्ञवल्क्यवचनविरोधः प्रसज्येत । तस्माद् एकेन द्वाभ्यां त्रिभिर् वा निखननं कार्यम् इति तात्पर्यार्थः । “न कुर्याद् उदकम्” इति याज्ञवल्क्यवचनेन खननानन्तरं यच् छुद्ध्यर्थं स्नानं न तन् निषिध्यते, किं तु यत् प्रेतायोदकदानं तन् निषिध्यत इत्य् उक्तं तद्भाष्ये । द्विवर्षमरणे ऽप्य् उक्तं याज्ञवल्क्येन ।

आ श्मशानाद् अनुव्रज्य इतरो ज्ञातिभिर् वृतः ।
यमसूक्तं तथा गाथां (?) जपद्भिर् लौकिकाग्निना ॥
स दग्धव्यः । । । ॥ इति ।

इतरः पूर्णद्विवर्षो यो मृतः स ज्ञातिभिः आ श्मशानाद् अनुव्रज्यः अनुगन्तव्यः, लौकिकाग्निना तैर् एव यमसूक्तं यमगाथां च जपद्भिर् दग्धव्यश् चेत्य् अर्थः । अत्रानुव्रज्य इति नियमविधिबलान् नियमेन ज्ञातिभिर् अनुगमनं कर्तव्यम् । इतर इत्य् अभिधानाद् ऊनद्विवर्षे नियमाभावो ऽवगम्यते । निखननं च द्विवर्षात् प्राग् एवेत्य् अवगम्यते । लौकिकाग्निर् असंस्कृताग्निश् चण्डालाग्निव्यतिरिक्तो ऽग्निर् ग्राह्यः,

चण्डालाग्निर् अमेध्याग्निः सूतकाग्निश् च कर्हिचित् ।
पतिताग्निश् चिताग्निश् च न शिष्टग्रहणोचितः ॥

इति देवलस्मरणात् । अस्मिन् वचने लौकिकाग्निनेति वदन् जातारणिनिर्मथिताग्निव्यतिरिक्तः जातकर्मादिसंस्कारेषु होमार्थ इति दर्शयति । अत एवोक्तं देवस्वामिना - “चूडाकरणादिहोमार्थं त्व् अग्नेर् जातारणेर् उत्पत्तिः न तत् सद्भावे ऽपि विद्यमानाग्निपक्षबाधनम् अयुक्तम्” इति । ननु संपूर्णाद्विवर्षस्य याज्ञवल्क्येन विहितो ऽग्निसंस्कारो न नित्यः, “ऊनद्विवार्षिकं प्रेतं निदध्युर् बान्धवा बहिः” इत् प्रस्तुत्य “नास्य कार्यो ऽग्निसंस्कारः” इत् मनुनाभिधानाद् दर्शयति सर्वनाम्ना ऊनद्विवर्षप्रत्यवमर्शनं तथा व्याख्यानम् अयुक्तम् इति । उच्यते — ऊनद्विवर्षविषये नित्यवन् निखननं विधाय वाशब्दादिकं विना तत्रैव काष्ठावत्त्यागरूपपक्षान्तरविधानस्यानुचितत्वात्, अस्येति सर्वनाम्न ऊनद्विवर्षप्रत्यासन्नतया संनिहितसंपूर्णद्विवर्षप्रत्यवमर्शकत्वम् एव युक्तम् इति नास्यावकाशः । किं च संपूर्णद्विवर्षस्याग्निसंस्कारप्रतिषेधे क्रियमाणे कथं तत्र मृतशरीरस्य संस्कार इत्य् अपेक्षायाम् अरण्ये काष्ठावत्त्यागविधिर् अपेक्षितो भवति । नैवम् ऊनदिवर्षे, तत्राग्निसंस्कारप्रतिषेधे ऽपि निखननरूपसंस्कारस्य प्रागुक्तेर् अपि विद्यमानत्वात् । तस्माद् एवम् एव व्याख्येयम् । “क्षपेयुस् त्र्यहम् एव तु” इत् त्रिरात्राशौचविधिर् यद्य् अपि न विशेषेणाभिहितः, तथाप् “बालानां कृतचूडानाम् अशुच्छिर् नैशिकी स्मृता” इति तेनैव त्रिवर्षपर्यन्तं सपिण्डानाम् अहोरात्राशौचस्योक्तत्वात् तदविरोधेन मातापितृसोदरभ्रातृष्व् एव त्रिरात्रम् आशौचम् उपतिष्ठते, दन्तजननाद् ऊर्ध्वं त्रिवर्षपर्यन्तं त्रिरात्राशौचस्य मातापितृसोदरभ्रातृविषयत्वेन प्रतिपादितत्वात् । “नास्य कार्यो ऽग्निसंस्कारो नापि कार्योदकक्रिया” इति वदन्न् उदकदानक्रियाया अग्निसंस्कारानुविधायित्वं दर्शयति । तेनाग्निसंस्कारोदकदानक्रिययोः सह वा प्रवृत्तिः सह वा निवृत्तिर् इति बोद्धव्यम् । ततश् च,

नात्रिवर्षस्य कर्तव्या बान्धवैर् उदकक्रिया ।

इति मनुवचनान्तरे उदकक्रियानिषेधाद् अग्निसंस्कारस्य प्रतिषेधो ऽवगन्तव्यः । अयं चाग्निसंस्कारोदकदाननिषेधो नामकरणात् प्राग् एव, नित्येनोर्ध्वम्,

जातदन्तस्य वा कुर्यान् नानिम्नि वापि कृते सति ।

इति तेनैवान्तरम् अभिदानात् । नामकरणाद् दन्तजननाद् ऊर्ध्वं त्रिवर्षपर्यन्तं नाग्निसंस्कारम् उदकदानं च बान्धवाः कुर्युर् इत्य् अर्थः । एवं च जन्मप्रभृति ऊनद्विवर्षपर्यन्तम् उदकदानक्रियारहितं विखननं तत्सहिताग्निसंस्कारो वा, संपूर्णवर्षप्रभृत्य् ऊनद्विवर्षपर्यन्तम् उदकदानरहितो ऽरण्ये काष्ठवत् त्यागो ऽग्निसंस्कारो वा तत्सहितो ऽत्रेति संकलितो ऽर्थः प्रत्येतव्यः । नात्रिवर्षस्येति वदन्न् असंपूर्णत्रिवर्षप्रभृत्य् आ मौञ्जिबन्धनाद् अग्निसंस्कारोदकदानप्रतिषेधो न विद्यत इति दर्शयति । तेन संपूर्णत्रिवर्षस्याकृतचौलस्यापि मरणे नियत एवाग्निसंस्कारो नित्या चोदकक्रियेति मन्तव्यम् । अत एव अङ्गिराः ।

यद्य् अप्य् अकृतचूडो वै जातदन्तस् तु संस्थितः ।
दाहयित्वा तथा तत्र कन्याशौचं त्र्यहं चरेत् ॥ इति ।

जातदन्तो जाताखिलदन्तः संपूर्णत्रिवर्ष इत्य् अर्थः । कृतचूडं संस्थितं दाहयित्वोदकक्रियां तस्यैव कृत्वा त्र्यहम् आशौचं मातापितृव्यतिरिक्तो ऽपि सपिण्डः समाचरेद् इत्य् अर्थः । यद्य् अपीति वदन्न् ऊनत्रिवर्षस्य कृतचूडस्यैव संस्थाने दहनोदकदानत्रिरात्राशौचं नियतं न पुनर् अकृतचूडस्यापीति दर्शयति । दर्शितं च लोकाक्षिणा ।

तूष्णीम् एवोदकं कुर्यात् तुष्णीं संस्कारम् एव च ।
सर्वेषां कृतचूडानाम् अन्यत्रापीच्छया द्वयम् ॥ इति ।

संस्कारम् अग्निसंस्कारम् । अन्यत्रापि अकृतचूडे ऽपि नामकरणाद् ऊर्ध्वं द्विवर्षपर्यन्तम् इच्छया प्रेताभ्युदयकामनया अग्निसंस्कारोदकदानात्मकं द्वयं कुर्याद् इत्य् अर्थः । अग्निसंस्कारे कृते उदकदाननियमात् त्रिरात्राशौचनियमनं मात्रादिसपिण्डानाम् । तथा च पराशरः ।

दन्तजाते ऽनुजाते च कृतचूडे च संस्थिते ।
अग्निसंस्करणं तेषां त्रिरात्रम् अशुचिर् भवेत् ॥ इति ।

येषाम् अजातदन्तानाम् अग्निसंस्करणं कृतं तेषां सपिण्डमात्रं मात्रादिव्यतिरिक्तम् अपि त्रिरात्रम् अशुचि भवेद् इत्य् अर्थः । आदिपुराणे अकृतचूडस्याप्य् अग्निसंस्कारे कृते पित्रादिव्यतिरिक्तानाम् अपि त्रिरात्रम् आशौचम् इत्य् उक्तम् ।

अनतीतद्विवर्षस् तु प्रेतो यत्रोपदह्यते ।
अतिमोहाभिभूतैस् तु देशसाधर्म्यम् आचरन् ॥
आशौचं बान्धवानां तु त्रिरात्रं तत्र विद्यते ॥ इति ।

देशसाधर्म्यम् आचरन् स्वदेशाचारम् आचरद्भिर् इत्य् अर्थः । मोहः स्नेहः । यतु तु वसिष्ठेनोक्तम् - “उदकक्रियाशौचं द्विवर्षात् प्रभृति दन्तजननाद् इत्य् एके” इति । तस्यायम् अर्थः - प्रेताभ्युदयकामनया क्रियमाणाग्निसंस्कारपूर्वोदकदानक्रिया सर्वसपिण्डानां त्रिरात्रम् आशौचं च द्विवर्षप्रभृतित्रिवर्षपर्यन्तं दन्तजननप्रभृतित्रिवर्षपर्यन्तं वा वेदितव्यम् इति । “दन्तजननाद् इत्य् एके” इत्य् एतन् मतान्तरोपलक्षणार्थम्, “नाम्नि वापि कृते सति” इति मनुना नामकरणप्रभृत्युदकदानादेर्। अभिधानात् । दन्तजननादि मातापितृभ्याम् एवाशौचं प्राक्चूडाकरणाद् इति मातापितृभ्याम् एवाशौचं त्रिरात्रं कर्तव्यम् इति शेषः,

प्राङ्नामकरणात् सद्य एकाहं दन्तजन्मनः ।
चूडायास् त्रिदिनं प्रोक्तम् । । । ॥

इति स्मृत्यन्तरे दन्तजननाद् ऊर्ध्वं प्राक्चूडाकरणान् मातापितृविषये त्रिरात्राशौचस्याभिधानात् । मातापितृभ्याम् एवेत्य् एवकारः सपिण्डान्तराणां त्रिरात्राशौचस्य निवृत्त्यर्थो नाशौचमात्रस्य । तथात्वे,

नादन्तजन्मनः सद्य आ चौलान् नैशिकी स्मृता ।

इत्यादभिश् (?) च सपिण्डाशौचप्रतिपादकवचनैः सह विरोधो ऽपरिहार्थः स्यात् । एतेनैवम् “आ द्विवर्षे प्रेते मातापित्रोर् आशौचम्” इति पारस्करवचनं व्याख्यातम् । अत एवानन्तरम् उक्तं तेनैव - “एकरात्रं त्रिरात्रं वा शरीरम् अदग्ध्वा निखनन्ति” इति । तत्र त्रिरात्रम् इति पक्षो मातापितृविषयः । एकरात्रपक्षस् तु तदितरसपिण्डविषय इति मन्तव्यम् । “शरीरम् अदग्ध्वा निखनन्ति” इत्य् अस्मिन् विषये दाहस्थाने निखननम् इति दर्शितम् । यत् तु शङ्खलिखिताभ्याम् उक्तम् - “बाले ऽतीते सद्यःशौचं य ऊनद्विवर्षः स्याद् अनुतपन्नदन्तकः” इति, यो बाल ऊनद्विवर्षः तस्मिन् व्यतीते सद्यःशौचम् इत्य् अन्वयः । तद् एतत् प्रस्तुताग्निहोत्राद्यनुष्ठानविषयम्, “अग्निहोत्रार्थम् स्नानोपस्पर्शनात् तत् कालं शोचम्” इति शङ्खस्मरणात् । तेन शङ्खस्यापि “आचौलन्नैशिकी स्मृता” इत्यादिपूर्वोक्तवचनैः सह नास्ति विरोधः । यत् तु काश्यपेनोक्तम् - “बालानाम् अजातदन्तानां त्रिरात्रेण शुद्धिः” इति, यत् तु वैवस्वतेनोक्तम् - “बाले वा जातदन्ते वा त्रिरात्रम् आशौचं सद्यःशौचम् इति गौतमः” इति, यद् अपि वसिष्ठेन - “ऊनद्विवर्षे (?) प्रेते गर्भप्रपतने वा सपिण्डानां त्रिरात्रम् आशौचं सद्यःशौचम् इति गौतमः” इति, तत्र त्रिरात्रम् इत्य् अग्निसंस्कारविषयम् । सद्यःशौचम् इत्य् अनग्निसंस्कार एव प्रस्तुताग्निहोत्रानुष्ठानविषयम् । यत् तु पैठीनसिनोक्तम् “अकृतचूडानां त्रिरात्रम् इति, तद् अप्य् अग्निसंस्कारविषयम् । अनग्निसंस्कारो वा मातापितृविषयम् । यत् तु यमेनोक्तम्,

ऊनद्विवर्षके बाले प्रेतत्वम् उपगच्छति ।
अजातदन्ते तनये शिशौ गर्भच्युते तथा ॥
निकृत्तचूडके वापि देशान्तरम् अथो (?) गते ।
सपिण्डानां तु सर्वेषाम् अहोरात्रम् अशौचकम् ॥

इति, चत्वार्य् एतानि वाक्यानि “अहोरात्रम् अशौचकम्” इति त्रिष्व् अपि वाक्येषु संबध्यते । तत्राद्यवाक्यस्यायम् अर्थः - दन्तजाते ऊरद्विवर्षके बाले प्रेते निखननम् एव । तत्र पित्रादिव्यतिरिक्तसपिण्डानाम् अहोरात्रम् । द्वितीयवाक्यस्यायम् अर्थः - अजातदन्ते तनये नामकरणाद् ऊर्ध्वं खनने च कृते मातापित्रोर् अहोरात्रम् आशौचम् इति । तनयग्रहणाद् अत्र मातापित्रोर् इति गम्यते । तृतीयवाक्योक्तगर्भच्युताव् एकरात्रम् ।

पाते मातुर् यथामासं पित्रादीनां दिनत्रयम् ।

इति मरीचिवचनविरोधपरिहाराय गुणवत्पित्रादिसपिण्डविषयम् इति मन्तव्यम् । चतुर्थं वाक्यं देशान्तरमृतकृतचूडबालविषयम् इति तस्मिन्न् एव वाक्ये स्पष्टम् । अतो नास्यापि वचनान्तरविरोधः । यत् तु याज्ञवल्क्येनोक्तम्,

त्रिरात्रं दशरात्रं वा शावम् आशौचम् इष्यते ।
ऊनद्विवर्ष उभयोः सूतकं मातुर् एव हि ॥
इति, उभयोर् मातापित्रोर् इत्य् अर्थः । ततश् चोनद्विवर्षे प्रेते मातापित्रोर् दशरात्रं शावाशौचम् इत्य् उच्यते । पूर्वोक्तत्रिरात्राशौचविधायकानेकवचनविरोधप्रसङ्गात् तत् परिहाराय त्रिरात्रं शावाशौचम् इत्य् अनेनैव संबन्धः, न पुनर् दशरात्रं शावाशौचम् इष्यत इत्य् अनेनापीति नास्य वचनस्य पूर्वोक्तवचनेन सह विरोधः । यत् तु स्मृत्यन्तरवचनम् - “ऊनद्विवर्षे प्रेते मातापित्रोर् एव नेतरेषाम्” इति, तस्यायम् अर्थः - ऊनद्विवर्षे प्रेते निखनेन कृते मातापित्रोर् एव त्रिरात्रम् आशैचं नेतरेषां सपिण्डानाम्, तेषां त्व् एकरात्राभिधानाद् इति सर्वम् अनवद्यम् ।

एवं निरूपितवयोऽवस्थाप्रयुक्ताशौचविधिः ब्राह्मणादिचर्वर्णसाधारणः, वर्णविशेषानुपादानेन मातापित्रोर् विहितत्वात् । वयसि षण्मासादिरूपे यत् सद्यःशौचादि विर्हितं तत् सर्वेषां ब्राह्मणानाम् अविशिष्टम् इत्य् अर्थः । यद्य् अप्य् अन्यानि ऋश्यशृङ्गवचनानि वयोऽवस्थाप्रयुक्ताशौचविषयाणि क्षत्रियादिषु दीर्घकालाशौचप्रतिपादकानि सन्ति, तथापि “कर्मभूयस्त्वात् फलभूयस्त्वम्” इति न्यायेनात्र शुद्धिभूयस्त्वाभावाद् अनुष्ठातॄङ्णां चानादरत्वे सति तानि न लिखितानि ॥

इति स्मृतिचन्द्रिकायां मृतशिशुशरीरसंस्काराशौचविषयाणि