०३ सूतकोपरिभव-शिशुमरणाशौचम्

अथ सूतकोपरिभवशिशुमरणाशौचविषयाणि

तत्र शङ्खः ।

दशाहान्तर्गते बाले शुद्धिः स्याज् जन्मना सह ।
ऊर्ध्वं दशाहाद् एकाहम् अधस्ताच् चौलकर्मणः ॥
तत ऊर्ध्वं त्रिरात्रं स्याद् अधस्तान् मौञ्जिबन्धनात् ॥ इति ।

अधस्ताच् चौलकर्मणः प्रथमाब्दविहिताच् चौलाद् अधस्तात् दन्तोद्गमाद् इति यावत् । एवं चायम् अर्थः - दशाहान्तर्गतसूतकानुवृत्तिदशायां बाले मृते जननाशौचेन सह मरणाशौचस्यापि शुद्धिर् भवति, ऊर्ध्वं दशाहात् सूतकापगमाद् ऊर्ध्वं दन्तजननाद् अधस्ताद् बाले मृते एकम् अहोरात्रम् आशौचम्, दन्तजननाद् ऊर्ध्वं मौञ्जिबन्धनाद् अधस्तात् त्रिरात्रम् इति । अत्र “शुद्धिः स्याज् जन्मना सह” इत्य् एतन् मातापितृविषयम्,

सूतकेनैव शुद्धिः स्यात् पित्रोः शातातपो ऽब्रवीत् ।

इति पूर्वोक्तस्यापि वचनस्य सामर्थ्यात् । एवं चैतत् साहचर्यात् “ऊर्ध्वं दशाहाद् एकाहम्” इत्य् एतद् दशम्यां नमकरणे सति द्रष्टव्यम्, “जननाद् दशरात्रे व्युष्टायां शतरात्रे संवत्सरे वा नामकरणम्” इति गृह्यपरिशिष्टोक्तेः दशरात्रादिकाले नमकरणं यथा तस्य ।

प्राङ्नामकरणात् सद्य एकाहं दन्तजन्मनः ।
चूडायास् त्रिदिनं प्रोक्तं तथा वृद्धिकम् आ व्रतात् ॥

इति स्मृत्यन्तरोक्तं सद्यः शौचं दशाहाद् ऊर्ध्वं नामकरणपर्यन्तं वेदितव्यम् । स्मृत्यन्तरस्यायम् अर्थः - सूतकापगमाद् ऊर्ध्वं नामकरणात् पूर्वं सद्यः, दन्तजननात् प्राग् अहोरात्रेण, दन्तजननाद् ऊर्ध्वं तृतीयवर्षविहितचूडाकरणात् प्राक् त्रिरात्रेण, अत ऊर्ध्वं मौञ्जिबन्धनात् प्राक् तेनैव त्रिरात्रेणाग्निसंस्कारोदकदानसहितेन शुद्धिर् इति । अत एव संग्रहकारः ।

नाम्नो दन्तोद्गमाच् चौलाद् उपनीतेर् अधः क्रमात् ।
सद्यः शौचम् अहस् त्र्यहो नियताग्न्युदकः परः ॥

यत् तु शङ्केनोक्तम्,

अजातदन्ते बाले तु सद्यः शौचं विधीयते ।
अहोरात्रात् तथा शुद्धिर् बाले त्व् अकृतचौलके ॥ इति ।

अकृतचौलके चूडाकालाद् अर्वाग् इत्य् अर्थः । यद् अपि याज्ञवल्क्येनोक्तम्,

आ दन्तजन्मनः सद्य आ चौलान् नैशिकी स्मृता ।
त्रिरात्रम् आ व्रतादेशाद् दशरात्रम् अतः परम् ॥

इति, जननानन्तरं नामकरणम् आरभ्य दन्तोद्गमात् प्राग् अतीतस्य संबन्धिनां सध्यः शौचम्, दन्तजननाद् आरभ्य चूडाकरणात् पूर्वम् अहोरात्रम्, चूडाकरणाद् आरभ्य उपननयपर्यन्तं त्रिरारम् आशौचम् इत्य् अर्थः । तद् एतद् वचनद्वयं मातापितृसोदरभातृव्यतिरिक्तविषयम् ।

अजातदन्ते बाले तु सधः शौचं विधीयते ।

इत्य् अत्र विषयम् आह अङ्गिराः ।

अनुजातस्य तावत् स्याद् आशौचं संस्थितस्य तु ।
यावत् स्नानं न कुर्वन्ति सचेलं बान्धवा बहिः ॥ इति ।

अनुजातो जातदन्ताद् बालतरः अनुत्पन्नदन्त इत्य् अर्थः । अपराण्य् अपि वचनान्य् अस्मिन् प्रकरणे प्रदर्शितवचनविरुद्धवचनवद् अवभासमानानि बहूनि विद्यन्ते, तेषां विरोधपरिहारो वक्ष्यमाणप्रकरणे वक्ष्यते ॥

इति स्मृतिचन्द्रिकायां सूतकोपरिभवशिशुमरणाशौचविषयाणि