०२ सूतक-मध्य-भव-शिशुमरणाशौचम्

अथ शावाशौचनिर्णयः

तत्र मनुः ।

प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च ।
चतुर्णाम् अपि वर्णानां यथावद् अनुपूर्वशः ॥ इति ।

ननु वर्णानाम् इत्य् अनेनैव विप्रक्षत्रियविट्छूद्राणाम् इत्य् एषो ऽर्थः सिद्धः, चतुर्णाम् इत्य् अनर्थकम्, इति चेद् उच्यते ।

सब्रह्मचारिण्य् एकाहम् अतीते क्षपणं स्मृतम् ।
मातुले पक्षिणी रात्रिः शिष्यर्त्विग्बान्दवेषु च ॥

इत्य् एवमादिवचनेषु ये ऽनुपात्तवर्णविशेषा आशौचविधयः ते सर्वे न प्रथमवर्णमात्रविषयाः किं तु सर्ववर्णविषया इति ज्ञापनार्थं चतुर्णाम् इत्य् उक्तम् । उक्तं चैवम् एवैतद् भाष्यार्थसंग्रहकारेण ।

असपिण्डेषु वर्णेषु अतीते श्रोत्रिये गुरौ ।
अतीते नृपतौ तद्वद् ऋतुकालेषु योषिताम् ॥
अप्रजासु तथा स्त्रीषु मातुले बान्धवेषु च ।
एवमादाव् अशौचस्य चतुर्णाम् अपि तुल्यता ॥
वर्णानाम् इत्य् एव सिद्धे चतुर्णाम् अपि कीर्तनात् ॥ इति ।

प्रतिज्ञातक्रमेणादौ प्रेतशुद्धिर् निरूप्यते । तत्र पैङ्ग्यः - “गर्भस्थे प्रेते मातुर् दशाहम्” इति । प्रेताशौचम् इति शेषः । मातृव्यतिरिक्तानां सपिण्डानाम् अस्मिन् विषये बृहद्विष्णुनोक्तम् - “मृतजाते कुलस्य सद्यः शुद्धिः” इति । जातमृते त्व् आह व्याघ्रः ।

जाते मृते सपिण्डानां सद्यः शौचं विधीयते ।
दशाहेनैव दम्पत्योः सोदराणां तथैव च ॥ इति ।
दशाहेनेति जन्मदिनमृतबालविषयम् । जन्मदिनाद् ऊर्ध्वं मृतबालविषये ऽप्य् आह स एव ।

अन्तर्दशाहे जातस्य शिशोर् निष्क्रमणं यदि ।
सूतकेनैव शुद्धिः स्यात् पित्रोः शातातपो ऽब्रवीत् ॥ इति ।

पित्रोर् इति सोदरभ्रातॄणाम् उपलक्षणार्थम् । शिशोर् अन्तर्दशाहे द्वितीयादिदिने । निष्क्रमणं मरणम् । सूतकेनैव जन्माशौचशेषाहोभिर् एव पित्रोः सोदरभ्रातॄणां च शिशुमरणाशौचाद् अपि शुद्धिर् भवतीत्य् अर्थः । तथा च अन्तर्दशाहोपरतस्य यत् पित्रादीनां मरणाशौचं तत् सूतकाहोभिर् एव शुध्यतीत्य् अर्थः । यत् तु पैङ्गिवचनम् - “जात उभयोः कृते नामनि सोदरभ्रातॄणां च” इति, तत् कृते नामनीति नामकरणदिनस्य दशमस्योपलक्षणार्थम् । एवं चायम् अर्थः - जातशिशौ जन्मदिने प्रेते मातापित्रोः सोदरभ्रातॄणां च दशाहम् आशौचम्, कृते नामनि नामकरणदिने दशमे गते सति पूर्वोक्तानाम् एवाहोरात्रम् आशौचम् इति । तथा च शङ्खः ।

दशाहान्तर्गते बाले सुद्धिः स्याज् जन्मना सह ।
ऊर्ध्वं दशाहाद् एकाहम् । । । ॥ इति ।

दशाहान्तः दशाहमध्ये बाले गते प्रेते जन्माशौचशुद्ध्या सह मातापित्रोः सोदरभ्रातॄणां च शुशुमरणाद् अपि सुद्धिः स्यात् । ऊर्ध्वं चैतेषाम् एकाहम् इति । यत् तु यमेनोक्तम्,

दशाहाभ्यन्तरे बालः कदाचिन् म्रियते यदि ।
शावाशौचं न कर्तव्यं सूत्याशौचेन शुध्यति ॥

इति, तस्यायम् अर्थः - प्रथमप्रवृत्तसूतकमध्ये शिशुमरणाशौचं च सूतकापगमाद् ऊर्ध्वं मात्रादिभिर् न कर्तव्यम्, यतः सूत्याशौचेन सूत्याशौचकालविषयेणैव मातापितराव् अपि शावाशौचाद् अपि शुध्यतः सोदरभ्रातरश् च शुध्यन्तीति । यद् अप्य् आपस्तम्बेनोक्तम् - “सूतके चोत्थानाद् आशौचं सूतकवन् मृते तस्मिन्न् एव बाले सद्यः शौचं नात्रोदकम्” इति, तस्याप्य् अयम् अर्थः - यस्मिन् जाते सूतकं प्रवृत्तं तत्सूतकमध्ये तस्मिन्न् एव बाले मृते सूतकवदोत्थानाद् आशौचं यथा सूतकम् आ दशम्या विहितं सूतिकोत्तानपर्यन्तं तथा शिषुमरणाशौचम् अपि मात्रादीनां तत्पर्यन्तम् एव, सूत्याशौचशुद्धेः । तस्मिन् विषये सपिण्डान्तरवत् सद्यः शौचं मात्रादीनाम् । नात्र प्रेतायोदकम् इति । ओत्थाना आशौचम् इति यद् अन्तःसूतके दशमदिने ऽपि शिशुमरणे तद्दिन एवाशौचं न पुनः “अहःशेषे द्वाभ्यां प्रभाते त्रिभिः” इत्यादिवचनोक्तो विशेषो ऽत्रापीति दर्शयति । यद् उक्तं षट्त्रिंशन्मते “न सूतिः शावशोधिनी” इति, तत् द्व्येकत्र्यन्तरसूत्याशौचविषयम्, अन्यथा पूर्वोक्ताशौचविषयाद् एकवचनवोरोधापत्तेः । यत् तु बृहन्मनुओक्तम्,

दशाहाभ्यन्तरे बाले प्रमीते तस्य बान्धवैः ।
शावाशौचं न कर्तव्यं सूत्याशौचं विधीयते ॥

इति, तस्ययम् अर्थः - दशाहाभ्यन्तरे बाले मृते बान्धवैः पितृव्यादिभिर् अपि शावाशौचं मात्रादिवद् दीर्घकालं न कर्तव्यम्, किं तु सद्य एव, सूत्याशौचं पितृव्यादिबान्धवानाम् अपि मात्रादिवत् स्वजात्युक्तं दशाहादिदीर्घकालतया विधीयत इति । यत् तु शाट्यायनेनोक्तम्,

बालस् त्व् अन्तर्दशाहे तु प्रेतत्वं यदि गच्छति ।
सद्य एव विशुद्धिः स्यान् नाशौचं नैव सूतकम् ॥

इति, तत् मातुलादिविषयम् । ततश् चायम् अर्थः - मातुलादिबन्धूनाम् इह न कालापनोद्यं शावाशौचं सूतकं वा किं तु तदन्ननिमित्तम् अप्रायत्यं सूतकादि वा स्पर्शननिमित्ताप्रायत्यवत् स्नानमात्रेण नश्यतीति ॥

इति स्मृतिचन्द्रिकायां सूतकमध्यभवशिशुमरणाशौचविषयाणि