०१ प्रसवाशौचनिर्णयः

अथाशौच-कालादौ
कर्तव्यैकोद्दिष्टादि-श्राद्धस्य निरूपणार्थम्
आशौच-प्रकरणम् आरभ्यते । तत्र शङ्खः ।

दानं प्रतिग्रहो होमः
स्वाध्यायः पितृकर्म च ।
प्रेत-पिण्ड-क्रिया-वर्जम्
आशौचे विनिवर्तयेत् ॥

स-पिण्डादि-जनने मरणे वा
यद् अप्रायत्यं दानादि-धर्मेष्व् अयोग्यत्व-लक्षणं
पापविशेषात्मकं वा भवति
तद् आशौच-शब्देन बोद्धव्यम् ।

अयम् एवाशौच-शब्दार्थ इत्य् उपदिष्टः ।
अदूरे भट्टाचार्य-ग्रन्थ-संवादे दृढी-करिष्यामः ।

एवंविधाशौचे वर्तमाने
प्रेतोपकारक-पिण्ड-क्रिया-व्यतिरिक्त–पितृ-कर्म–दान-प्रतिग्रहादिकं च
न कुर्याद् इत्य् अर्थः ।

प्रेत-पिण्ड-क्रिया-वर्जम् इति पर्युदासेन
प्रेतोपकारकं श्राद्धम्
आशौचे वर्तमाने ऽपि कर्तव्यम् इति दर्शितम् ।
आशौचस्य वर्तमानता
न चिरं काल एवेत्य् आह दक्षः ।

सद्यःशौचं तथैकाहस्
त्र्यहश् चतुरहस् तथा ।
षड्-दश–द्वा-दशाहश् च
पक्षो मासस् तथैव च ॥
मरणान्तं तथा चान्यद्
दश पक्षास् तु सूतके ।

इति ।

दश-पक्षा इति नावधारणार्थम्,
इतो ऽधिकानाम् अपि पक्षाणां स्मृतिषु दर्शनात् ।

अचिरे तूत्तमे +++(ब्राह्मणवर्णे)+++ त्रयः ।
राजन्ये तु चतूरात्रं
वैश्य पञ्चाहम् एव च ॥
अष्टाहेन तु शूद्रस्य
शुद्धिर् एषा प्रकीर्तिता ॥

इति पञ्चाहादिकम् अपि स्मृतम् ।
अयम् अर्थः -
अचिरे गर्भकालस्य निष्पादक-चतुर्थ-मासाद् अर्वाचीने काले
गर्भस्रुत्यां यथा-मासं नाशौचम्,
किं तु उत्तमे ब्राह्मण-वर्णे त्रयो दिवसाः मातुः शुद्धिहेतवः, राजन्ये क्षत्रियवर्णे चतूरात्रं मातुः शुद्धिहेतुः, वैश्यवार्णे पञ्चाहं मातुः शुद्धिकारणम्, शूद्रवर्ण्स्य अष्टाहेन स्रावे मातुः शुद्धिः । (ब्राह्मण्यास् त्रिरात्रं क्षत्रियायाश् चतूरात्रं वैश्यायाः पञ्चरात्रं शूद्राया अष्टरात्रं शुद्धिकारणम्) । शुद्धिशब्दार्थस् तु, “पापक्षयः शुद्धिः धर्मयोग्यत्वम् एव वा” इत् भट्टाचार्योक्तो द्रष्टव्यः । पापक्षयः सपिण्डादौ जनने मरणे वा तत्संबन्ध्यादाव् उत्पन्नस्य पापविशेषस्य क्षयः । धर्मयोग्यत्वं दानादिधर्मानुष्ठानार्हत्वम् । एवं शुद्धिशब्दर्थो मतभेदेन द्विधा विवृतो भट्टाचार्यैः । तद्विपरीतस्य जननमरणनिमित्तकस्य पापविशेषस्य दानादिधर्मानुष्ठानायोग्यत्वस्य च मतभेदेनाशौचशब्दाभिधेयत्वं ज्ञापिताम् एति मन्तव्यम् । अचिरगर्भस्रावे मातुर् एवाशौचम्, न पित्रादिसपिण्डानाम् । तथा चानन्तरम् उक्तं तेनैव ।

स्रावे मातुस् त्रिरात्रं स्यात् सपिण्डाशुचवर्जनम् । इति ।

त्रिरात्रम् इति ब्राह्मणवर्णाभिप्रायम्, राजन्यादेश् चतूरात्रादेर् उक्तत्वात् । यत् तु सुमन्तुनोक्तम् - “गर्भमासतुल्या दिवसा गर्भस्रंसने सद्यःशौचं च” इति, तच् चतुर्थमासविषयम् । व्यवस्थितविकल्पश् चायम् । एवं चायम् अर्थः - गर्भ्यस्रंसने चतुर्थे मासि गर्भस्रावे मातुश् चतूरात्रम् आशौचम्, सपिण्डपुरुषस्य स्नानात् सद्यःशौचम् इति । तथा च वृद्धवसिष्ठः - “गर्भस्रावे मासतुल्या दिवसाः स्त्रीणां स्नानमात्रम् एव पुरुषस्य ईषत्कठिनगर्भस्रावे तु त्रिरात्रम्” इति, एतत् चतुर्थमासजातगर्भस्रावविषयम् इति व्यक्तम्, मासान्तरे ईषत्कठिनस्रावासंभवात् । अस्य वचनस्यायं तात्पर्यर्थः - चतुर्थ मासे मृदुतया ईषत्पठिनतया वा गर्भस्रावे मतुस् त्रिरात्रम् आशौचम्, सपिण्डपुरुषस्य मृदुतया स्रावे सद्यःशौचम्, कठिनतया स्रावे त्रिरात्रम् आशौचम् इति । पुरुषग्रहणाद् अत्र सपिण्डस्त्रीणां नाशौचम्, किं तु पुरुषस्येत्य् एकवचनात् पितुर् त्रिरात्रम् आशौचम् । यत् तु मरीचिना सपीण्ड्स्त्रीपुंससाधारण्येन त्रिरात्रम् उक्तम् ।

पाते मातुर् यथामासं पित्रादीनां दिनत्रयम् ।

इति, यच् च वसिष्ठेन - “गर्भस्य पतने सपिण्डानां त्रिरात्रम्” इति, तत् पञ्चषष्ठमासपातविषयम्, मासान्तरे गर्भपातासंभवात् । तात्पर्यार्थस् तु - पञ्चमे मासि गर्भपाते मतुः पञ्चरात्रम् आशौचम्, षष्ठे षड्रात्रम्, पित्रादीनां सपिण्डानां तु मसद्वये ऽपि त्रिरात्रम् इति । यत् तूक्तम् यमेन,

अजातदन्ते तनये शिशौ गर्भच्युते तथा ।
सपिण्डानां तु सर्वेषाम् अहोरात्रम् अशौचकम् ॥

इति, तत् गुणवत्सपिण्डविषयम् असंनिहितविषयं वा । यत् तूक्तं ब्रह्मपुराणे,

सद्यःशौचं सपिण्डानां गर्भस्य पतने सति ।

इति, तत् चतुर्थमासान्तर्गतमृदुरूपगर्भस्रावविषयम्, तत्रैव च सुमन्तुना वृद्धवसिष्ठेन च सपिण्डपुरुषस्य सद्यःशौचविधानात् । एवं स्रावे पातशब्दो मातुर् जठरान् निर्गमनगुणेन स्रावेण गौण्यावर्तत इति बोद्यम्, मुख्यार्थपरत्वे पूर्वोक्तवचनविरोधापत्तेः । चतुर्थमासादिषु त्रिषु यच् चतूरात्रादिकम् आशौचम् उक्तं तत् ब्राह्मणादिवर्णचतुष्कसाधारणम्, विशेषास्मरणात् । विशेषस्मरणं च वर्णचतुष्टये ऽप्य् आशौचविषयम् एव ज्ञापितुं मनुनात्र साधारणरजस्वलाशुद्धेः साहचर्यं कृतम् ।

रात्रिभिर् मासतुल्याभिर् गर्भस्रावे विशुध्यति ।
रजस्य् उपरते सर्वा स्नानेन स्त्री स्नानेन स्त्री रजस्वला ॥ इति ।

सर्वा सर्ववर्णेत्य् अर्थः । सप्तममासादिषु स्मृत्यन्तरोक्तं द्रष्टव्यम् ।

आ चतुर्थाद् भवेत् स्रावः पातः पञ्चमषष्ठयोः ।
अत ऊर्ध्वं प्रसूतौ तु दशाहं सूतकं भवेत् ॥ इति ।

आङ् अभिविधौ । दशाहम् इति ब्राह्मणीविषयम् एव, न जात्यन्तरस्त्रीविषयम् । तथा च आदिपुराणे ।

षण्मासाभ्यन्तरं यावद् गर्भस्रावो भवेद् यदा ।
तदा मससमैस् तासां दिवसैः शुद्धिर् इष्यते ॥ इति ।

षण्मासाभ्यन्तरं यावत् चतुर्थमासम् आरभ्येत्य् अर्थः । स्वजात्युक्तम् इत्य् अनेनैतद् उक्तम् - ब्राह्मण्या दशाहाशौचम्, क्षत्रियाया द्वादशाहाशौचम्, वैश्यायाः पञ्चदशाहाशौचम्, शूद्राया मासम् इति । यस् तु प्रचेतसोक्तम्,

सूतिका सर्ववर्णानां दशाहेन विशुध्यति ।
ऋतौ तु न पृथक् स्त्रीणां सर्ववर्णेष्व् अयम् विधिः ॥

स्त्रीणां रजोदर्शने यस् त्रिरात्राशौचविधिः स सर्ववर्णेष्व् अविशिष्ट इत्य् अर्थः । अत्र सर्ववर्णानां सूतिका दशाहेन शुध्यतीत्य् एतत् प्रसवसमयासृङ्निःसरणनिबन्धनाप्रायत्यलक्षणाशौचाभिप्रायम्, ऋतुमत्याशौचसाहचर्यात् ।

अत ऊर्ध्वं स्वजात्युक्तम् आशौचं तासु विद्यते ।

इति पूर्वोक्तवचनम्, मातापित्रादिसर्वसपिण्डसाधारणासरूपाभिप्रायम्, स्वजात्युक्तम् इत्य् उक्तत्वात् । यत् तु पैठीनसिनोक्तम् - “सूतिकां पुत्रजननीं विंशतिरात्रेण कर्माणि कारयेन् मासेन स्त्रीजननीम्” इति, तद् वचनं दानादिधर्मेष्व् अयोग्यत्वलक्षणाशौचाभिप्रायम् इति न पूर्वोक्तविरोधः । कर्माण्य् अत्रादृष्टार्थानि यागदानादीनि विविक्षितानि । विंशतिरात्रेण गतेनेत्य् अर्थः । प्रसवदिनम् आरभ्य विंशतिदिनेष्व् अतीतेषु दानादिकर्मणि योग्या भवतीत्य् अर्थः ।

सूतिका सर्ववर्णानां दशाहेन विशुध्यति ।

इत्य् अत्र सर्वशब्दः शूद्रेतरवर्णेषु संकोचनीयः । तथा च पराशरः ।

द्विजातेः सूतिका या स्यात् सा दशाहेन शुध्यति ।
त्रयोदशे ऽह्नि संप्राप्ते शूद्रा सुध्यत्य् असंशयः ॥ इति ।

एवं सूतिकायाम् असृङ्निःसरणनिबन्धनम् अप्रायत्यं युगत्रयमात्रपरिहरणादिहेतुभूतं द्विजादिषु दशरात्रपर्यन्तम्, अघरूपाशौचं त्व् अस्पृश्यत्वादिहेतुभूतं स्वजात्युक्तदशद्वादशपञ्चदशाहपर्यन्तम्, दानादिधर्मानधिकारलक्षणं तु द्विजादिषु पुत्रजनन्यां विंशतिरात्रपर्यन्तं (?) स्त्रीजनन्यां मासपर्यन्तम् इत्य् अवगन्तव्यम् । यत् तु चतुर्विंशतिमत उक्तम् ।

अधस्तान् नवमान् मासाच् छुद्धिः स्यात् प्रसवे सदा ।
मृते जीवे ऽपि वा तस्मिन्न् अहोभिर् माससंख्यया ॥

इति, अधस्तान् नवमान् मासात् सप्तममासाद् आरभ्येति शेषः । तद् एतत् सूतिकाव्यतिरिक्तसपिण्डविषयम्, सूतिकादिसर्वसपिण्डविषयत्वे पूर्वोक्तवचनविरोधापत्तेः । एवं च यद् उक्तं विष्णुना - “ब्राह्मणस्य सपिण्डानां जननमरणयोर् दशाहम् आशौचं द्वादशाहं राजन्यस्य पञ्चदशाहं वैश्यस्य मासं शूद्रस्य” इति, तद् एतद् विष्णुवचनम्,

नवमे दशमे वापि प्रबलैः सूतिमारुतैः ।
निःसार्यते बाण इव यन्त्राच् छिद्रेण सज्वरः ॥

इति याज्ञवल्क्योक्तनवमदशममासप्रसवविषयं वेदितव्यम् । यत् तु पैठीनसिनोक्तम्,

जनौ सपिण्डः शुचयो मातापित्रोस् तु सूतकम् ।
सूतकं मतुर् एव स्याद् उपस्पृश्य पिता शुचिः ॥

इति, तस्यायम् अर्थः - सपिण्डस्य जनने पितृमातृव्यतिरिक्ताः सपिण्डाः शुचयः सपिण्डजनननिबन्धनाशौचे धर्मानधिकारलक्षणे विद्यमाने ऽप्य् अघरूपाभावात् स्पर्शनयोग्याः । तत्संभवान् मातापित्रोर् अस्पृश्यत्वलक्षणं सूतकं भवति । तत्संभवश् च मातापित्रोर् जायमानप्राणिपीडाहुतुत्वात् । तद्धेतुत्वं तज्जनकतया पितुः कथंचित् परंपरया, मातुः गर्भान् निर्गमनानुकूलप्रेरणतया साक्षात् । ततश् च गुरुतया स्नानमात्रानपनोद्यं सूतकं मातुर् एव स्यात्, न पितुः । तेन शुद्ध्यर्थं कालप्रतीक्षाभावे ऽपि स्नानमात्रेण पिता शुचिः अघनाशात् स्पर्शयोग्यो भवतीति । तथा च स्मृत्यन्तरम् - “जनने ऽप्य् एतन् मातापित्रोर् मातुर् एवास्पर्शनात्मकं नान्येषां ज्ञातीनाम्” इति । तथा मरणे तदनन्तरम् अधर्मयोग्यत्वलक्षणम् आशौचं नाभिच्छेदात् प्राङ् मातापित्रोर् एव भवति नान्येषां सपिण्डानां जायमानप्राणिपीडनकर्तृत्वरहितानाम् । मातापित्रोर् मध्ये ऽपि स्नानमात्रानपनोद्यम् अस्पर्शनहेतुभूतम् आशौचं मातुर् एवेत्य् अर्थः । एतेन यद् उक्तं जनने पापोत्पत्तौ निमित्ताभावाद् धर्मानर्हत्वलक्षणम् एवाशौचं न पुनर् अघरूपाशौचम् इति तन् निरस्तम् । तर्ह्य् अस्पृश्यत्वधर्मानर्हत्वलक्षणम् आशौचं संभवति, अग्निहोत्रादिकर्मानर्हाणां विवाहरहितानाम् अस्पृश्यत्वाभावात् । तेन जनननिमित्तं च द्विविधम् एव । यद् अङ्गिरोवचनम्,

प्राक् स्नानाज् जनने ऽस्पृश्यः कर्महानिर् अशौचकम् ।

इति, तत् पितृविषयं वेदितव्यम् । स्नानाद् ऊर्ध्वं पिता सूतिकां स्पृशति चेत् तत्स्पृशौ स्नानाद् अप्य् अस्पृश्य एव । तथा च पराशरः ।

यदि पत्न्यां प्रसूतायां द्विजः संसर्गम् इच्छति ।
सूतकं तु भवेत् तस्य यदि विप्रः षडङ्गवित् ॥ इति ।

संसर्गम् इच्छति पत्न्या सह संस्पर्शलक्षणं संसर्गं करोति तस्य द्विजस्य सूतिकास्पर्शननिमित्तम् अस्पृश्यत्वं भवेद् इत्य् अर्थः । पतिर् इति वक्तव्ये द्विज इत्य् उक्तिः पतिव्यतिरिक्तस्यापि सूतिकां स्पृशतो द्विजस्य समानम् एतद् इति ज्ञापनार्थम् । अत एव सुमन्तुः - “मातुर् एव सूतकं तां स्पृशतां च, नेतरेषाम्” इति । प्रसवसमयासृङ्निःसरणनिबन्धनाप्रायत्यलक्षणसूतकाभिप्रायम् एतत् । तां सूतिकां स्पृशतो जनस्य सूतकम् अस्पृश्यत्वल(क्ष)णं (?) भवति, नेतरेषां ता अस्पृशतां जनानाम् इत्य् अर्थः । वसिष्ठो ऽपि ।

नाशौचं सूतके पुंशां संसर्गं चेन् न गच्छति ।
रजस् तत्राशुचि ज्ञेयं तच् च पुंसि न विद्यते ॥ इति ।

पराशरस् तु सरूपाशौचम् आह ।

प्रसवे गृहमेधी तु न कुर्यात् संकरं यदि ।
दशाहाच् छुद्यते माता त्व् अवगाह्य पिता शुचिः ॥ इति ।

अत्रिर् अपि ।

संपर्काज् जायते दोषः पारक्ये मृतिजन्मनि ।
तद्वर्जनात् पितुर् अपि सद्यःशौचं विधीयते ॥ इति ।

पारक्ये मृतिजन्मनि परसंबन्धिनि मरणे जनने चेत्य् अर्थः । आदिपुराणे ऽपि ।

सूतके तु मुखं दृष्ट्वा जातस्य जनकस् ततः ।
कृत्वा सचेलस्नानं तु शुद्धो भवति तत्क्षणात् ॥ इति ।

संवर्तो ऽपि ।

सचेलं तु पुतुः स्नानं जाते पुत्रे विधीयते ।
माता शुध्येद् दशाहेन स्नानात् तु स्पर्शनं पितुः ॥

न दोषावहम् इत्य् अर्थः । माता शुध्येत् स्पर्शनयोग्या भवतीत्य् अर्थः । यत् तु बोधायनेनोक्तम् - “जनने तावन् मातापित्रोर् दशाहम् आशौचं मातुर् इत्य् एके” इति, आशौचम् असमवायलक्षणम् । तत्र मातापित्रोर् दशाहम् इत्य् एतत् पूर्वपक्षत्वेनोक्तम् इति तावद्ग्रहणाद् अवगम्यते । तेन “मातुर् इत्य् एके” इत्य् अयम् एव सम्यक्पक्ष इति न पूर्वोक्तविरोधः । यद् उक्तम् अङ्गिरसा,

सूतके सूतिकावर्जं संस्पर्शो न ह्य् अशुद्धिदः ।

इति, तत् अस्नातपितृव्यतिरिक्तविषयम् । यत् तु तेनैवोक्तम्,

नाशौचं सूतके प्रोक्तं सपिण्डानां क्रियावताम् ।

इति, अस्यार्थः - क्रियावतां जन्मदाख्यदेवताप्रीत्यर्थं यागादिक्रियावतां पित्रादिसपिण्डानां जन्मदाख्यदेवतायागाद्यनुष्ठानदिवसेषु नाशौचं कर्मायोग्यत्वलक्षणं तद् अनुष्ठानकाल इति । तथा च व्यासः ।

सूतिकावासनिलया जन्मदा नाम देवताः ।
तासां यागनिमित्तं तु शुद्धिर् जन्मनि कीर्तिता ॥ इति ।

यागग्रहणं पूजाकर्मादेर् उपलक्षणार्थम् । अत एवानन्तर्म् उक्तं तेनैव ।

प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा ।
त्रिष्व् एतेषु न कुर्वीत पुत्रजन्मनि सूतकम् ॥ इति ।

सूतकं तु धर्मायोग्यत्वलक्षणम् इत्य् अभिप्रेतम्, यागनिमित्तम् इत्य् अभिधानात् । प्रथमे दशमे वा यागनिमित्ताशौचाभावः । यागकालस् तु ।

षष्ठे ऽह्नि यागं दानं च जन्मदानां तु कारयेत् । इति ।

यागार्थं ततस् तत्र शुद्धिः प्रकीर्तितेत्य् अर्थः । दशमे ऽह्न्य् अपि रात्राव् एव यागविधानम् । तथा च मार्कण्डेयः ।

रक्षणीया तथा षष्ठी निशा तत्र विशेषतः ।
रात्रौ जागरणं कार्यं जन्मदानां तथा बलिम् ।
पुरुषाः शत्रहस्ताश् च नृत्तगीतैश् च योषितः ।
रात्रौ जागरणं कुर्युर् दशम्यां चैव सूतके ॥ इति ।

प्रथमे दिवसे कर्मादिनिमित्ते जातकर्माद्यनुष्ठानकाले कृत्स्ने न प्रथमे ऽह्नि । तथा शङ्खलिखितौ - “कुमारप्रसवे नाभ्याम् अच्छिन्नायां गुडतिलहिरण्यवस्त्रप्रावरण्गोधान्यानां प्रतिग्रहे ऽप्य् अदोषः तधर् इत्य् एके” इति । कुमारप्रसवदिने अच्छिन्नायां नाभ्यां दानप्रतिग्रहादिष्व् अदोष इति । तदहर् इत्य् एके मन्यन्ते । अत एव याज्ञवल्क्यः ।

तद् अहर् न प्रदुष्येत पूर्वेषां जन्मकारणात् । इति ।

यस्मिन् दिने कुमारजननं तद् अहर् न प्रदुष्येत कुमारजन्मनिमित्तदानार्चनानर्हत्वापादकं न भवति यस्मात् तस्मिन्न् अहनि पूर्वेषां पित्रादीनां पुत्ररूपेण जन्मोपपत्तेर् इत्य् अर्थः । यत् तु जैमिनिनोक्तम्,

यावन् न छिद्यते नाऌअं तावन् नाप्नोति सूतकम् ।
छिन्ने नाऌए ततः पश्चात् सूतकं तु विधीयते ॥

इति, तस्यायम् अर्थः - नाभिच्छेदनिमित्तकं सर्वसपिण्डानाम् अघरूप्म् आशौचम् आशौचनिमित्तसंभावनाद् ऊर्ध्वम् एव भवति न पुनः पूर्वम् एव चेति ।

नन्व् अघरूपाशौचं सपिन्डपितृव्यतिरिक्तानां न भवति, कारणाभावद् इत्य् आशङ्क्य कारणम् आह हारीतः - “प्रेताभिभूतत्वाच् छावाशौचं जाते वृद्धियोगेन केनेति मीमांसन्ते नाभ्यच्छिन्नकालानाम् उच्छेदभूयस्त्वाच् च कुलस्याशौचं भवति” इति । समानोदकानां तु (?) जनननिमित्ताशौचं त्रिरात्रं वेदितव्यम्,
जन्मय् एकोदकानां तु त्रिराताच् छुद्धिर् इष्यते ।

इति स्मरणात् । जन्मनि पित्रादिसपिण्डानाम् अपि त्रिरात्रम् आशौचम् आह बृहन्मनुः ।

जीवन् जातो यदि शुशुर् मृतः सूतक एव वा ।
सूतकं सकलं मातुः पित्रादीनां त्रिरात्रकम् ॥ इति ।

अयम् अर्थः - जातः शिशुर् यदि नाभिच्छेदात् पूर्वं मृतः तदा मातुर् दशाहम् आशौचम्, पित्रादिसर्वसपिण्डानां त्रिरात्रम् इति । यद् बृहत्प्रचेतसो वचनम् -

मुहूर्तं जीवितो बालः पञ्चत्वं यदि गच्छेति ।
मातुः शुद्धिर् दशाहेन सद्यः शौचास् तु गोतिर्णः ॥

इति, तत् प्रस्तुताग्निहोत्रानुष्टातृविषयम्(?), “अग्निहोत्रार्थं स्नानोपस्पर्शनात् तत्कालाशौचम्” इति शङ्खस्मरणात् । यत् तु हारीतेनोक्तम् - “जातमृते मृतजाते वा सपिण्डानां दशाहम्” इति, सूतकम् इत् शेषः । अत्र जातमृते यद् दशाहम् उक्तं तत् जातस्य शिशोर् नाभिच्छेदाद् ऊर्ध्वम् वेदितव्यम्, बृहन्मनुवचनसमानविषयत्वे ऽन्योन्यविरोधापत्तेः । मृतजातविषये पारस्करेणापि दशाहं सूतकम् उक्तम् ।

गर्भे यदि विपत्तिः स्याद् दशाहं सूतकं भवेत् । इति ।

सपिण्डानाम् इति शेषः । उभयत्र दशाहग्रहणं स्वजात्युक्तकालोपलक्षणार्थम् । यत् तु,

पुत्रो जातो यत्र मृतो मृतो व सूयते यदि ।
सूतकं मतुर् एव स्यात् पित्रादीनां त्रिरात्रकम् ॥

इति, तद् एतत् वृत्तस्वाध्यायोपेतपित्रादिविषयम् । एतच् च मृतजातत्रिरात्रसूतकं वृत्तस्वाध्यायोपेतपित्रादेर् अपि कलौ न कार्यम् ॥

इति स्मृतिचन्द्रिकायां प्रसवाशौचनिर्णयः