४८ माध्यन्दिनस्नानम्

ततो माध्यन्दिनस्नानम्

तत्र बोधायनः ।

ततो मध्याह्नसमये पुनः स्नानं समाचरेत् ।
सूर्यस्य चाप्य् उपस्थानं जपहोमादिकं ततः ॥

कूर्मपुराणे ।

ततो मध्याह्नसमये स्नानार्थं मृदम् आहरेत् ।

मध्याह्नसमये अष्टधा विभक्तस्याह्नः चतुर्थभागे । अत एव दक्षः ।

चतुर्थे ऽह्नस् तथा भागे स्नानार्थं मृदम् आहरेत् ।
तिलपुष्पकुशादीनि स्नानं चाकृत्त्रिमे जले ॥

वसिष्ठहारीताव् अपि ।

पवित्रपाणिर् एकाग्रः पार्श्वान् अनवलोकयन् ।
अरुग् दिवाचरेत् स्नानं मध्याह्नात् प्राग् विशेषतः ॥

अरुग् अरोगी । अनेनार्थान् न रोगी स्नायाद् इत्य् उक्तं भवति । उक्तं च व्यासेन ।

स्नानं मध्यन्दिने कुर्यात् सुजीर्णे ऽन्ने निरामयः ।
न भुक्त्वालंकृतो रोगी नाज्ञाताम्भसि नाकुलः ॥ इति ।

एतच् च स्नानं गृहस्थवनस्थयोर् वेदितव्यम् । तथा च दक्षः ।

प्रातर् मध्याह्नयोः स्नानं वानप्रस्थगृहस्थयोः ।
यतेस् त्रिषवणं स्नानं सकृच् च् ब्रह्मचारिणः ॥ इति ।

अत्र व्यासः ।

मन्त्रपूतैर् जलैः स्नानं प्राहुः स्नानं फलप्रदम् ।
न वृथा वारिमग्नानां यादसाम् इव तत्फलम् ॥

यादसां जलजन्तूनाम् इत्य् अर्थः । योगयाज्ञवल्क्यो ऽपि ।

मत्स्यकच्छपमण्डूकास् तोये मग्ना दिवानिशम् ।
वसन्ति चैव ते स्नानान् नाप्नुवन्ति फलं क्वचित् ॥ इति ।

अतो मन्त्रवद् एव कार्यम् इत्य् अभिप्रायः । अत एव तदकरणे दोषम् आह विवस्वान् ।

अविदित्वैव यः स्नानविधानं स्नानम् आचरेत् ।
य याति नरकं घोरम् इति धर्मस्य धारणा ॥ इति ।

एतद् अपि द्विजातिविषयम् । तद् आह विष्णुः ।

ब्रह्मक्षत्रविशां चैव मन्त्रवत् स्नानम् इष्यते ।
तूष्णीम् एव हि शूद्रस्य स्त्रीणां च कुरुनन्दन ॥

अत्र स्नानद्रव्याण्य् आह योगयाज्ञवल्क्यः ।

मृत् तिलान् गोमयं दर्भान् पुष्पाणि सुरभीणि च ।
आहरेत् स्नानकाले तु स्नानार्थं प्रयतः शुचिः ॥ इति ।

शातातपो मृत्स्वरूपम् आह ।

वल्मीकाखूत्कराल् लेपाज् जलाच् च पथिवृक्षयोः ।
कृतशौचावशिष्टाच् च न ग्राह्याः सप्त मृत्तिकाः ॥
शुचिदेशात् तु संग्राह्याः शर्कराश्मादिवर्जिताः ।
रक्ता गौरा तथा श्वेता मृत्तिका त्रिविधा स्मृता ।
मृत्तिकां गोमयं वापि न निशायां समाहरेत् ॥
न गोमूत्रं प्रदोषेषु गृह्णीयाद् बुद्धिमान् नरः ॥ इति ।

मृदाद्याहरणान्तरं योगयाज्ञवल्क्यः ।

गत्वोदकान्तं विधिवत् स्थापयेत् तत्पृथक् क्षितौ ।
त्रिधा कृत्वा मृदं तां तु गोमयं च विचक्षणः ॥
अधमोत्तममध्यानाम् अङ्गानां क्षालनं तु तैः ।
भागैः पृथक् पृथक् कुर्यात् क्षालने मृदसंकरः ॥
अद्भिर् मृद्भिश् च चरणौ प्रक्षाल्याचम्य वै शुचिः । इति ।

अत्र मलस्नानं प्रकृत्य व्यासः ।

षड्भिः पादौ चतुर्भिस् तु जङ्घे नाभिकटी त्रिभिः ।
मृदैकया सिरः क्षाल्यं द्वभ्यां नाभेस् तथोपरि ॥
अधश् च तिसृभिः कार्यः पादौ षड्भिस् तथैव च ।
प्रक्षाल्य सर्वकायं तद् द्विर् आचम्य यथाविधि ॥ इति ।

अत्र यथास्वशाखं व्यवस्था । मृददिपरिमाणं कूर्मपुराणे दर्शितम् ।

स्नानार्थं मृत्तिका ग्राह्या ह्य् आर्द्रामलकमात्रिका ।
गोमयस्य प्रमाणं तत् तेनाङ्गं लेपयेत् ततः ॥ इति ।

एतच् च मलपकर्षणं स्नानं तटे कार्यम् । तथा च नृसिंहपुराणे ।

शुचौ देशे समभ्युक्ष्य स्थापयेत् कुशमृत्तिकाः ।
मृत्तोयेन स्वकं देहं बहिः संशोध्य यत्नतः ॥

दक्षो ऽपि ।

नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानम् उच्यते ।
तेषां मध्ये तु यन् नित्यं तत् पुनर् भिद्यते त्रिधा ॥
मलापकर्षणं पार्श्वे मन्त्रवत् तु जले स्मृतम् ।
संध्यास्नानम् उभाभ्यां तु स्नानदेशाः प्रकीर्तिताः ॥ इति ।

पार्श्वे तटे । संध्यस्नानं मार्जनम् । तद् उभाभ्यां जलस्थलाभ्यां कार्यम् इत्य् अर्थः । अत्र मलस्नाने ऽपि नित्यग्रहणम् अनुक्तशाखिनाम् अपि तस्य नित्यत्वं यथा स्याद् इति । मलस्नानानन्तरं यमः ।

पादप्रक्षालनं कृत्वा आचम्य प्राङ्मुखः स्थितः ।
प्राणायामत्रयं कुर्यात् ततो ध्यत्वा दिवाकरम् ॥ इति ।

ततस् तीर्थपरिकल्पनादि कुर्यात् । तथा च मत्स्यपुराणम् ।

दर्भपाणिस् तु विधिना स्वाचान्तः प्रयतः सुचिः ।
तीर्थं तु कल्पयेद् विद्वान् मूलमन्त्रेण मन्त्रवित् ॥
ॐ नमो नारायणायेति मूलमन्त्र उदाहृतः ।
चतुर्हस्तसमायुक्तं चतुरश्रं समन्ततः ॥
प्रकल्प्यावाहयेद् गङ्गाम् एभिर् मन्त्रैर् विचक्षणः ।
विष्णुपादप्रसूतासि वैष्णवी विष्णुदेवता ॥
त्राहि नस् त्व् एनसस् तस्माद् आजन्ममरणान्तिकात् ।
तिस्रः कोट्यो ऽर्धकोटी च तीर्थानां वायुर् अब्रवीत् ॥
दिवि भुव्य् अन्तरिक्षे च तानि मे सन्तु जाह्नवि ।
नन्दिनीत्य् एव ते नाम देवेषु नलिनीति च ॥
दक्षा पृथ्वी च विहगा विस्वराया शिवामृता ।
विद्याधरी सुप्रसन्ना तथा लोकप्रसादिनी ॥
क्षमा च जाह्नवी चैव शान्ता शान्तिप्रदायिनी ।
एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत् ॥
भवेत् संनिहिता तत्र गङ्गा त्रिपथगामिनी ।

तथा गङ्गावाक्यम् अपि ।

नन्दिनी नलिनी सीता मालती च महापगा ।
विष्णुपादाब्जसंभूता गङ्गा त्रिपथगामिनी ।
भागीरथी भोगवती जाह्नवी त्रिदशेश्वरी ।
द्वादशैतानि नामानि यत्र यत्र जलाशये ॥
स्नानोद्यतः स्मरेन् नित्यं तत्र तत्र भवाम्य् अहम् ।

व्यासो ऽपि ।

कुरुक्षेत्र गया गङ्गा प्रभासं नैमिसं तथा ।
तीर्थान्य् एतानि सर्वाणि स्नानकाले भवन्तु मे ॥ इति ।

एतत् सर्वं कृत्रिमोदकविषयम्,

गङ्गादिसर्वतीर्थानि कृत्रिमादिषु संस्मरेत् ।

इति योगयाज्ञवल्क्यस्मरणात् । देवलो ऽपि ।

न नदीषु नदीं ब्रूयात् पर्वतेषु न पर्वतम् ।
नान्यत् प्रशंसेत् तत्रस्थस् तीर्थेष्व् आयतनेषु च ॥ इति ।

एवम् आवाह्य स्वशाखोक्तेन विधिना स्नायात् । अत एव शौचानन्तरं मत्यपुराणे ।

स्नानं कुर्यान् मृदा तद्वद् आमन्त्र्य च विधानतः ।
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ॥ इति ।

अत्र जमदग्निः ।

अथ स्नानं प्रवक्ष्यामि सर्वपापप्रणाशनम् ।
नाल्पोदके द्विजः स्नायान् नदीं चोत्सृज्य कृत्रिमे ॥
प्रागग्रम् उदगग्रं वा धौतवस्त्रं प्रसारयेत् ।
अश्वक्रान्त इति शुद्धां मृत्तिकाम् आहरेच् छुचिः ॥
नमो मित्रस्येत्य् आदित्याय दत्वा प्रक्षालयेत् करौ ।
गन्धद्वाराम् इति जप्त्वा स्वान्य् एवाङ्गानि लेपयेत् ॥
हिरण्यशृङ्गं वरुणम् इत्य् अपो ऽभिप्रपद्यते ।
सुमित्रा न इत्य् अपः क्षिप्त्वा दुर्मित्रास् तु बहिः क्षिपेत् ॥
यद् अपां क्रूरम् इत्य् अपस् त्रिर् आलोड्य तु पाणिना ।
आदित्याभिमुखो मज्जेद् आपो अस्मान् इति द्व्यृचा ॥
मध्यन्दिने ऽप आचामेन् मन्त्रेणापः पुनन्त्व् इति ।
अग्निश् च मेति सायं च प्रातः सूर्यश् च मेति च ॥
सुरभिमत्याब्लिङ्गाभ्ः प्रोक्षयेत् कुशपाणिना ।
हिरण्यवर्णीयाभिश् च पावमानीभिर् एव च ॥
ऋतं चेत्य् एतद् अप्स्व् अन्तस् त्रिः पठेद् अघमर्षणम् ।
यथास्वमेधे ऽवभृथं तथा स्नाने ऽघमर्षणम् ॥ इति ।

अन्यज् जलतर्पणादि सर्वं प्रातःस्नानोक्तं वेदितव्यम् । आदित्याभिमुखो मज्जेद् इति स्थावरोदकविषयम् । तथा च नृसिंहपुराणम् ।

नद्यां स्रवत्सु च स्नायात् प्रतिस्रोतः स्थितो द्विजः ।
तटाकादिषु तोयेषु प्रत्यर्कं स्नानम् आचरेत् ॥ इति ।

अत्र द्रुपदां प्रकृत्य कूर्मपुराणं ।

अपः पाणौ समादाय जलैर् वै मार्जने कृते ।
विन्यस्य मूर्ध्नि तत् तोयं मुच्यते सर्वपातकैः ॥ इति ।

अत्र विशेषम् आह योगयाज्ञवल्क्यः ।

अपः पाणौ समादाय त्रिः पठेद् द्रुपदाम् ऋचम् ।
तत् तोयं मूर्ध्नि विन्यस्य सर्वपापैः प्रमुच्यते ॥

अन्तर्जलजपं प्रकृत्यापि स एवाह ।

हत्वा लोकान् अपीमांस् त्रींस् त्रिः पठेद् अघमर्षणम् ।
यथाश्वमेधावभृथ एवं वै मनुर् अब्रवीत् ॥
द्रुपदा नाम सा देवी यजुर्वेदे प्रतिष्ठिता ।
अन्तर्जले त्रिर् आवृत्य मुच्यते ब्रह्महत्यया ॥

व्यासो ऽपि ।

द्रुपदा नाम गायत्री ब्राह्मी वाजसनेयके ।
सकृद् अन्तर्जले जप्तुर् ब्रह्महत्यां व्यपोहति ॥
अन्तर्जले त्रिर् आवृत्य सावित्रीं प्रयतस् ततः ।
मुच्यते पातकैः सर्वैर् यदि न ब्रह्महा भवेत् ॥

हारीतो ऽपि ।

जुम्बुका नाम गायत्री वेदे वाजसनेयके ।
अन्तर्जले सकृज् जप्त्वा ब्रह्महत्यां व्यपोहति ॥

सुमन्तुर् अपि - “मातरं भगिनीं हत्वा मातृष्वसारं पितृष्वसारं स्नुषां सखीं चान्यद् वागम्यागमनं कृत्वाघमर्षणसूक्तम् अन्तर्जले त्रिर् आवृत्य तद् एतस्मात् पूतो भवति” इति । हारीतो ऽपि - “आयं (?) गौः पृश्निर् अक्रमीद् इत्य् एताम् ऋचं त्रिर् अन्तर्जले जपन् सर्वस्मात् पापात् प्रमुच्यते । अपि वा व्याहृतीस् त्रिर् अन्तर्जले जपन् सर्वस्मात् पापात् प्रमुच्यते” इति । गौतमो ऽपि - “अपि वा गायत्रीं पच्छो ऽर्धर्चशः समस्ताम् इति त्रिर् अन्तर्जले जपन् सर्वस्मात् पापात् प्रमुच्यते (?) । अपि वा प्रणवं त्रिर् अन्तर्जले जपन् सर्वस्मात् पापात् प्रमुच्यते” इति । अत्र वसिष्ठः स्नानविधानम् आह ।

अथ स्नानविधिं कृत्स्नं प्रवक्ष्याम्य् अनुपूर्वशः ।
येन स्नत्वा दिवं यान्ति श्रद्दधाना द्विजोत्तमाः ॥
प्रयतो मृदम् आदाय दूर्वाम् आर्द्रां च गोमयम् ।
स्थापयित्वा तथाचम्य ततः स्नानं समाचरेत् ॥
मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस् तथोपरि ।
अधश् च तिसृभिः कायं पादौ षड्भिस् तथैव च ॥
प्रक्षाल्य सर्वम् अङ्गं तु द्विर् आचम्य यथाविधि ।
ततः संमार्जनं कुर्यान् मृदा पूर्वं तु मन्त्रवित् ॥
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ।
उद्धृतासि वरहेण कृष्णेन शतबाहुना ॥
मृत्तिके त्वां च गृह्णामि प्रजया च धनेन च ।
मृत्तिके ब्रह्मदत्तासि काश्यपेनाभिमन्त्रिता ॥
मृत्तिके हन मे पापं यन् मया दुष्कृतं कृतम् ।
मृत्तिके देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम् ॥
पुनश् च गोमयेनैव अग्रम् अग्रम् इति ब्रुवन् ।
अग्रम् अग्रं चरन्तीनाम् ओषधीनां वने वने ॥
तासाम् ऋषभपत्नीनां पवित्रं कायशोधनम् ।
त्वं मे रोगांश् च शोकांश् च पापं मे नुद गोमय ॥
काण्डत् काण्डाद् इति द्वाभ्याम् अङ्गम् अङ्गम् इति स्पृशेत् ॥

दूर्वयेति शेषः । याजुर्वेदिकाव् एतौ मन्त्रौ ।

कृत्वैवं मार्जनं मन्त्रैर् अश्वक्रान्तदिभिस् ततः ।
इहैव देवीम् अमृतां पारावत पुरादिषु ॥
एताः शतम् इति ध्यात्वा तीर्थान्य् आवाहयेद् बुधः ।
कुरुक्षेत्रं गयां गङ्गां प्रभासं पुष्कराणि च ॥
ततो महाव्याहृतिभिर् गायत्र्या चाभिमन्त्रयेत् ।
आपो हिष्ठेदम् आपश् च द्रुपदाद् इव इत्य् अपि ॥
तथा हिरण्यवर्णाभिः पावमानीभिर् एव च ।
ततो ऽर्कम् ईक्ष्य स्ॐकारं निमज्ज्यान्तर्जले बुधः ॥।
प्राणायामांश् च कुर्वीत गायत्रीं चाघमर्षणम् ।
यथोक्तैः क्षोभितस् तैस् तु मज्जेत् त्रिर् दण्डवत् ततः ॥

यथोक्तैर् वायोर् आध्माननिरोधोत्सर्गरूपैः,

स्नात्वा संगृह्य वासो ऽन्यद् ऊरू संशोधयेन् मृदा ।
अपवित्रे कृते ते तु कौपीनस्राववारिणा ।
नोत्तरीयम् अधः कुर्यान् नोपर्य् आधस्त्यम् अम्बरम् ।
नान्तर्वासो विना जातु निवसेद् वसनं बुधः ॥
प्राग् वोदग् वा शुचौ देशे उपविश्य द्विर् आचमेत् ।
यो ऽनेन विधिना स्नाति यत्र यत्राम्भसि द्विजः ॥
स तीर्थफलम् आप्नोति तीर्थे तु द्विगुणं फलम् ।
मनोवाक्कर्मभिश् चापि यत् पापं कुरुते तु सः ॥
नाशम् आप्नोति तत् सर्वम् आमपात्रम् इवाम्भसि ॥ इति ।

मृत्तोयैः कृतमलापकर्षणो निमज्ज्याप उपस्पृश्य आपो हिष्ठेति तिसृभिर् हिरण्यवर्णा इति चतसृभिः इदम् आपः प्रवहतेति च तीर्थम् अभिमन्त्रयेत् । ततो ऽप्सु निमग्नः त्रिर् अघमर्षणं जपेत् । तद् विष्णोः परमं पदम् इति, द्रुपदां वा साविर्तीम्, युज्यते मन इत्य् अनुवाकं वा पुरुषसूक्तं वा । स्नातश् चार्द्रवासा देवर्षिपितृतर्पणम् अम्भःस्थ एव कुर्वीतेति । आपस्तम्बो ऽपि - “शनैर् अपो ऽभ्यवेयाद् अभिघ्नन्न् अभिमुखम् आदित्यम् उदकम् उपस्पृशेद् इति सर्वत्रोदकस्पर्शनविधिः” इति । अत्रोदकस्पर्शनम् इत्य् एतद् वनस्थविषयं तत्प्रकरणे पाठाद् इति व्याख्यातं तद्भाष्ये । अत्रानुकल्पम् आह योगयाज्ञवल्क्यः ।

य एष विस्तरः प्रोक्तः स्नानस्य विधिर् उत्तमः ।
असामर्थ्यान् न कुर्याच् चेत् तत्रायं विधिर् उच्यते ॥
स्ननम् अन्तर्जले चैव मार्जनाचमने तथा ।
जलाभिमन्त्रणं चैव तीर्थस्य परिकल्पनम् ॥
अघमर्षणसूक्तेन त्रिरावृत्तेन नित्यशः ।
स्नानाचरणम् इत्य् एतत् समुद्दिष्टं महर्षिभिः ॥ इति ।

एतत् तीर्थपरिकल्पनं जलाभिमन्त्रणाचमनमार्जनान्तर्जलस्नानेषु त्रिरावृत्ताघमर्षणसूक्तविधिपरम् इत् कैश्चिद् व्याख्यातम् ।

इति स्मृतिचन्द्रिकायां मध्यन्दिनस्नानम्