२० गौणस्नानानि

अथ गौणस्नानानि

तत्र गर्गः ।

दिव्यं वायव्यम् आग्नेयं ब्राह्मं सारस्वतं तथा ।
मानसं चेति विज्ञेयं गौणस्नानं तु षड्विधम् ॥

योगयाज्ञवल्क्यो ऽपि ।

मान्त्रं भौमं तथाग्नेयं वायव्यं दिव्यम् एव च ।
वारुणं मानसं चैव सप्त सानान्य् अनुक्रमात् ॥ इति ।

एतेषां लक्षणम् आह स एव ।

आपो हिष्ठादिभिर् मान्त्रं मृदालम्भश् च पार्थिवम् ।
आग्नेयं भस्मना स्नानं वायव्यं गोरजः स्मृतम् ॥
यत् तु सातपवर्षेण तत् स्नानं दिव्यम् उच्यते ।
वारुणं चावगहस् तु मानसं विष्णुचिन्तनम् ॥
मानसं प्रवरं स्नानं केचिद् इच्छन्ति सूरयः ।
आत्मतीर्थप्रशंसायां व्यासेन पठितं यतः ॥

अत्र विशेषः कूर्मपुराणे दर्शितः ।

आग्नेयं भस्मनापादमस्तकाद् देहधूलनम् ।

योगयाज्ञवल्क्यो ऽपि ।

शं न आपस् तु द्रुषदा आपोहिष्ठाघमर्षणम् ।
एतैस् तु पञ्चभिर् मन्त्रैर् मन्त्रस्नानम् उदाहृतम् ॥

बृहस्पतिर् अपि ।

वायव्यं गोरजः प्रोक्तस् तं गच्छति गोपतौ ।
विद्वत्सरस्वतीप्राप्तं स्नानं सारस्वतं स्मृतम् ॥

गोपतौ सूर्ये । विदुषां सरस्वती वाणी तया प्राप्तं सारस्वतम् इत्य् अर्थः । तत्स्वरूपम् आह व्यासः ।

स्वयम् एवोपपन्नाय विनयेन द्विजातये ।
तज्ज्ञः संपादयेत् स्नानं शिष्याय च सुताय च ॥
दाक्षायणमयैः कुम्भैर् मन्त्रवज् जाह्नवीजलैः ।
कृतमङ्गलपुण्याहैः स्नानम् अस्तु तदर्थिनाम् ॥
आदौ तावत् प्रभासे बहुगुणसलिले मध्यमे पुष्करे वा ।
गङ्गाद्वारे प्रयागे कनखलसहिते भद्रकर्णे गयायाम् ॥
राहुग्रस्ते तु सोमे दिनकरसहिते संनिपत्या विशेषात् ।
एतैर् व्याख्याततीर्थैस् त्रिभुवनविहितैः स्नानम् अच्छिद्रम् अस्तु ॥
प्राप्य सारस्वतं स्नानं भवेन् मुदितमानसः ।
सर्वतीर्थाभिषेकाद् धि पवित्रं विदुषां हि वाक् ॥ इति ।

एतानि गौणस्नान्य् अशक्ताव् एव कारयेत् । तद् उक्तं कूर्मपुराणे ।

अप्रायत्ये समुत्पन्ने स्नानम् एव समाचरेत् ।
ब्राह्मादीन्य् अयथाशक्तौ स्नानान्य् आहुर् मनीषिणः ॥

योगयाज्ञवल्क्यो ऽपि ।

कालदोषाद् असामर्थ्यान् न शक्नोति यदा ह्य् असौ ।
तदा ज्ञात्वा ऋषिभ्यस् तु मन्त्रैर् दृष्टं तु मार्जनम् ॥

जाबालिर् अपि ।

अशिरस्कं भवेत् स्नानं स्नानाशक्तौ तु कर्मिणाम् ।
आर्द्रेण वाससा वापि मार्जनं दैविकं विदुः ॥ इति ।

एतत् कपिलं स्नानम् । तद् आह बृहस्पतिः ।

आर्द्रेण कपटेनाङ्गशोधनं कापिलं स्मृतम् । इति ।

इति स्मृतिचन्द्रिकायां गौणस्नानानि