१९ तीर्थस्नानमन्त्राः

अथ प्रसङ्गात् तीर्थस्नानमन्त्राः प्रदर्श्यन्ते

विष्णुपादाब्जसंभूते गङ्गे त्रिपथगामिनि ।
धर्मप्रदेतिविख्याते पापं मे हर जाह्नवि ॥
श्रद्धया धर्मसंपन्ने श्रीमातर् देवि जाह्नवि ।
अमृतेनाम्बुना देवि भागीरथि पुनीहि माम् ॥

इति गङ्गास्नानमन्त्रः ।

करतोये सदानीरे सरिच्छ्रेष्टेतिविश्रुते ।
आप्लावयसि पौत्राणां पापं हर करोद्भवे ॥

इति करतोयास्नानमन्त्रः ।

गाधिराजसुते देवि विश्वामित्रमुनेः सुते ।
ऋचीकभार्ये सत्यार्ये पापं मे हर कौशिकि ॥

इति कौशिकीस्नानमन्त्रः ।

सह्यपादोद्भवे देवि श्रीशैलोत्सङ्गगामिनि ।
कृष्णवेणीति विख्याते सर्वपापप्रणाशिनि ॥
सह्यपादोद्भवा देवी कृष्णवेणीति विश्रुता ।
सर्वपापविशुद्ध्यर्थं स्नास्ये देवि तवाम्भसि ॥
प्रसीद मे देवि सदा रसेन देवेशसृष्टा जगतां विमुक्त्यै ।
स्नानेन यस्याम् अवधूतपपः प्राप्नोति विष्णोः पदम् एव मर्त्यः ॥
ब्रह्मामृतानन्द्रसेन पूर्णा जलेन पूर्णाम् इव मेनिरे जनाः ।
तां त्वावहाहामि पिबामि कृष्णे देवान् ऋषींस् तर्पयिष्ये पितॄंश् च ॥

इति कृष्णवेणीस्नानमन्त्रः ।

भीमसेनसमुद्भूते रथनेमिविनिःसृते ।
सर्वपापप्रणाशार्थं स्नास्ये देवि तवाम्भसि ॥

इति भीमरथीस्नानमन्त्रः ।

नभो ऽस्तु ते पुण्यजले नमः सागरगामिनि ।
नर्मदे पापनिर्मोचे नमो देवि वरानने ॥
नमो ऽस्तु ते मुनिगणसिद्धसेविते नमो ऽस्तु ते शङ्करदेहनिःसृते ।
नमो ऽस्तु ते धर्मभृतां वरप्रदे नमो ऽस्तु ते सर्वपवित्रपाविनि ॥

इति नर्मदास्नानमन्त्रः ।

त्वं देवि सरितां नाथे त्वं देवि सरितां वरे ।
उभयोः सङ्गमे स्नात्वा मुञ्चामि दुरितानि वाइ ॥

इति गङ्गासागरसङ्गमस्नानमन्त्रः ।

ब्रह्मपुत्र महाभाग (?) शन्तनोः कुलवर्धन ।
अमोघगर्भसंभूत पापं लौहित्य मे हर ॥

इति लौहित्यस्नानमन्त्रः ।

अग्निस् तु ते योनिर् इडा च देहो रेतो ऽपि विष्णोर् अमृतस्य नाभिः ।
एतद् ब्रुवन् पाण्डव सत्यवाक्यं ततो ऽवगाहेत पतिं नदीनाम् ॥

इति सागरस्नानमन्त्रः ।

आजन्मशतसाहस्रे यत् पापं कुरुते क्वचित् ।
मुच्यते सर्वपापेभ्यः स्नात्वैव लवणाम्भसि ॥
अश्वत्थः सागरश् चैव न स्प्रष्टव्यौ कदाचन ।
अश्वत्थं मन्दवारे तु सागरं पर्वणि स्पृशेत् ॥
अन्यदा तु कुरुश्रेष्ठ देवयोनिर् अपां पतिः ।
कुशाग्रेणापि कौन्तेय न स्प्रष्टव्यो महोदधिः ॥ इति ।

अत्रोदकान्तरेणैवाचमनं कार्यम्, न समुद्रोदकेन, “अक्षाराभिर् अनुष्णाभिर् आचामेत्” इति स्मरणात् । न च येन स्नानं तेनैवाचमनम् इत्य् अपि नियमो ऽस्ति । उक्तं च तैत्तिरीयकश्रुतौ - “तस्मात् समुद्रस्य न पिबन्ति” इति । तप्रणादिकं तु तेनैव कार्यम्, निषेधाभावात् । एवम् उष्णोदककुण्डस्नाने ऽपि द्रष्टव्यम् । अत्र तीर्थप्रसङ्गात् पैठीनसिः ।

षोडशांशं स लभते यः परार्थेन गच्छति ।
अर्धतीर्थफलं तस्य यः प्रसङ्गेन गच्छति ॥

शङ्खो ऽपि ।

तीर्थं प्राप्यानुषङ्गेण यस् तत्र स्नानम् आचरेत् ।
स्नानजं फलम् आप्नोति तीर्थयात्राश्रितं न तु ॥
नृणां पापकृतां तीर्थे पापप्रशमनं भवेत् ।
यथोक्तफलदं तीर्थं भवेच् छुद्धात्मनां नृणाम् ॥

व्यासो ऽपि ।

यस्य हस्तौ च पादौ च मनश् चैव सुसंयतम् ।
विद्या तपश् च कीर्तिश् च स तीर्थफलम् अश्नुते ॥

वृद्धवसिष्ठो ऽपि ।

पितरं मातरं वापि भ्रातरं सुहृदं गुरुम् ।
मज्जयेत् तु यम् उद्दिश्य द्वादशांशं लभेत सः ॥

पैठीनसिर् अपि ।

यः प्रकृतिं कुशमयीं तीर्थवारिणि मज्जयेत् ।
मज्जयेत् तु यम् उद्दिश्य ह्य् अष्टभागं लभेत सः ॥

अत्रायं मन्त्रः ।

कुशो ऽसि त्वं पवित्रो ऽसि ब्रह्मणा निर्मितः पुरा ।
त्वयि स्नाते तु स स्नातो यस्यैतद् ग्रन्थिबन्धनम् ॥ इति ।

**इति स्मृतिचन्द्रिकायां तीर्थस्नानमन्त्राः **