१८ नदीरजोदोषनिर्णयः

अथ नदीरजोदोषनिर्णयः

अत्र योगयाज्ञवल्क्यः ।

यावन् नोदेति भगवान् दक्षिणाशाविभूषणः (?) ।
तावद् रेतोवहा नद्यो वर्जयित्वा तु जाह्नवीम् ॥

यावन् नोदेत्य् अगस्त्यस् तावन् नद्यो रेतोवहा रजस्वला इत्य् अर्थः । उदयो ऽपि तस्योदीच्यदेशे शरद्य् एव ज्योतिःशास्त्रे दर्शितः । एवं च वर्षाकाले रजस्वला इत्य् उक्तं भवति । अत एव कात्यायनः ।

संप्राप्ते श्रावणे मासे सर्वा नद्यो रजस्वलाः ।
तासु स्नानं न कुर्वीत वर्जयित्वा तु जाह्नवीम् ॥ इति ।

संप्राप्ते श्रावणे मासे यावन् मासद्वयम् इति शेषः । अत एव मार्कण्डेयः ।

द्विमासं सरितः सर्वा भवन्ति हि रजस्वलाः ।
अप्रशस्तं ततः स्नानं वर्षादौ नववारिणि ॥ इति ।

एतत् समुद्रगनदीव्यतिरिक्तविषयम् । तथा च कात्यायनः ।

यव्यद्वयं श्रावणादौ सर्वा नद्यो रजस्वलाः ।
तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगाम् ॥ इति ।

यव्यो मासः, “यव्या मासात् सुमेकः संवत्सरः” इति शतपथश्रुतेः । समुद्रगास्व् अपि कासुचिद् रजोदोषम् आह स एव ।

प्रावृट्काले महानद्यः सन्ति सद्योरजस्वलाः ।
तासु स्नानं न कुर्वीत वर्जयित्वा तु जाह्नवीम् ॥ इति ।

महानदीष्व् अपि जाह्नवीं वर्जयित्वेत्य् अर्थः । महानद्यो वामनपुराणे दर्शिताः ।

गोदावरी भीमरथी कृष्णवेणी सरस्वती ।
तुङ्गभद्रा सुप्रयागा वेणी कावेरिकेति च ॥
दुग्धोदा नलिना रेवा वारा शीता कलस्वना ।
एता अपि महानद्यो सह्यमूलाद् विनिर्गताः ॥

नृसिंहपुराणे ऽपि - “गङ्गा यमुना गोदावरी तङ्गभद्रा कावेरीत्य् एता महानद्यः” इति । स्नानग्रहणं तर्पणादेर् अपि प्रदर्शनार्थम् । यद् आह कात्यायनः ।

नभोनभस्ययोर् मध्ये सर्वा नद्यो रजस्वलाः ।
न स्नानादीनि कर्माणि तासु कुर्वीत मानवः ॥ इति ।

कर्कटकादिमासद्वयं यावत् तावद् रजस्वला इत्य् अर्थः । यत् तु कात्यायनेन “प्रावृट्काले” इत्य् उपक्रम्य “वर्जयित्वा तु जाह्नवीम्” इत्य् उक्तं न तत् तस्याः सर्वत्र प्रावृट्काले रजोयोगाभावप्रतिपादनपरम् । यतः स एवाह ।

प्र्क़वृत्ते श्रावणे मासे त्र्यहं गङ्गा रजस्वला ।
चतुर्थे ऽहनि संप्राप्ते शुद्धा भवति जाह्नवी ॥ इति ।

एतद् अपि सौरमानाभिप्रायम् (?) । अन्यथा,

प्रथमं कर्कटे देवि त्र्यहं गङ्गा रजस्वला ।
सर्वा रक्ता महानद्यः करतोयाम्बुवाहिनी ॥

इति योगयाज्ञवल्क्यवचनविरोधः स्यात्, श्रावणमासप्रवृत्तेर् अर्वाग् एव कर्कटसंक्रान्तिनियमात् (?) । करतोया नदी । अत्र यमः ।

गङ्गा धर्मोद्भवा पुण्या यमुना च सरस्वती ।
अन्तर्गतरजोयोगाः सर्वाहेष्व् अपि चामलाः ॥
प्रतिस्रोतोरजोयोगो रथ्याजलनिषेवणम् ।
गङ्गायां न प्रदुष्यन्ति सा हि धर्मोद्भवा स्वयम् ॥

वामनपुराणे ऽपि ।

सरस्वती नदी पुण्या तथा वैतरणी नदी ।
आपगा च महापुण्या गङ्गा मन्दाकिनी तथा ॥
मधुस्रवा चांशुनदी कौशिकी पापनाशिनी ।
दृशद्वती महापुण्या तथा हैरण्यवती नदी ॥
वर्षाकालवहाः सर्वा वर्जयित्वा सरस्वतीम् ।
एतासाम् उदकं पुण्यं वर्षाकाले प्रवर्षितम् ॥
रजस्वलात्वम् एतासां विद्यते न कदाचन ॥

कात्यायनो ऽपि ।

तपनस्य सुता गङ्गा गोमती च सरिद्वरा ।
रजसा न प्रदुष्यन्ति ये चान्ये पुन्नदाः स्मृताः ॥

तपस्य सुता यमुना । मार्कण्डेयो ऽपि ।

आदित्यदुहिता गङ्गा प्लक्षजाता सरस्वती ।
रजसा नाभिभूयन्ते ये चान्ये नदसंज्ञिकाः ॥ इति ।

कुरुक्षेत्रे या सरस्वती सा प्लक्षजाता । तथा गोमत्यादिष्व् अपि कर्कटादौ त्रिरात्रम् आह कात्यायनः ।

कर्कटादौ रजोदुष्टा गोमती वासरत्रयम् ।
चन्द्रभागा सती सिन्धुः सरयूर् नर्मदा तथा ॥ इति ।

एवमुक्तरजोदोषस्य क्वचिद् अपवादम् आह स एव ।

उपाकर्मणि चोत्सर्गे प्रातःस्नाने तथैव च ।
चन्द्रसूर्यग्रहे चैव रजोदोषो न विद्यते ॥
स्वर्धुन्यम्भःसमानि स्युः सर्वाण्य् अम्भांसि भूतले ।
कूपस्थाण्य् अपि सोमार्कग्रहणे नात्र संशयः ॥ इति ।

अतः कथं रजोदोष इति भावः । स्वर्धुनी गङ्गा ।

इति स्मृतिचन्द्रिकायां नदीरजोदोषनिर्णयः