१७ स्नानार्हजलानि

अथ स्नानार्हजलानि

तत्र मनुः ।

नदीषु देवखातेषु तटाकेषु सरःसु च ।
स्नानं समाचरेन् नित्यं गर्तप्रस्रवणेषु च ॥

देवखातं देवनिर्मितम्, न तु स्थावरकृत्त्रिमं जलम् । गर्तस् तु कात्यायनेन प्रदर्शितः ।

धनुःसहस्राण्य् अष्टौ तु गतिर् यासां न विद्यते ।
न ता नदीशब्दवहा गर्तास् ताः परिकीर्तिताः ॥

अनेनार्थान् नदीलक्षणम् अप्य् उक्तं भवति । पर्वतादेः स्तोकजलप्रवाहः प्रस्रवणम् । विष्णुपुराणे ऽपि ।

नदीनदतटाकेषु देवखातजलेषु च ।
नित्यं क्रियार्थं स्नायीत गिरिप्रसर्वणेषु च ॥
कूपेषूधृततोयेन स्नानं कुर्वीत वा भुवि ।
स्नायीतोद्धृततोयेन अथ वा भुव्य् असंभवे ॥

मार्कण्डेयो ऽपि ।

पुराणानां नरेन्द्राणाम् ऋषीणां च महात्मनाम् ।
स्नानं कूपतटाकेषु देवतानां समाचरेत् ॥ इति ।

महात्मनाम् इत्य् अनेन पतिताद्युदपानेषु न स्नायाद् इत्य् आह । अत एव वृद्धमनुः ।

अन्यायोपात्तवित्तस्य पतितस्य च वार्धुषेः ।
न स्नायाद् उदपानेषु स्नात्वा कृच्छ्रं समाचरेत् ॥ इति ।

एवम् अनुत्सृष्टेष्व् अपि द्रष्टव्यम् । यद् आह व्यसः ।

अनुत्सृष्टेषु न स्नायात् तथैवासंस्कृतेष्व् अपि ।

असंस्कृतम् अप्रतिष्ठितम् । अनुत्सृष्टम् अदत्तं परकीयम् इति यावत् । अत एव जाबालिः ।

न पारक्ये सदा स्नायान् न भुञ्जीत महानिशि ।
नार्द्रम् एकं च वसनं परिदध्यात् कदाचन ॥

मनुर् अपि ।

परकीयनिपातेषु न स्नायाच् च कदाचन ।
निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ॥ इति ।

यत् पुनर् व्यासेनोक्तम्,

पञ्च पिण्डान् समुद्धृत्य पारक्ये स्नानम् आचरेत् ।

इति,तन् नद्याद्यलाभविषयम् । तथा च यमः ।

अलाभे देवखातानां सरसां सरितां तथा ।
उद्धृत्य चतुरः पिण्डान् पारक्ये स्नानम् आचरेत् ॥ इति ।

अनेनैवाभिप्रायेण शौनको ऽपि ।

वापीकूपतटाकेषु यदि स्नायात् कदाचन ।
उद्धृत्य मृत्तिकापिण्डान् दश पञ्चाथ व क्षिपेत् ॥

योगयाज्ञवल्क्यो ऽपि ।

परकीयनिपानेषु यदि स्नायात् कदाचन ।
सप्त पिण्डान् तदोद्धृत्य ततः स्नानं समाचरेत् ॥ इति ।

अत्र यथासामर्थ्यं व्यवस्था । एवम् अनुद्धृत्य परकीये यः स्नाति तस्यैव तद्दोषभाक्त्वम् इत्य् उक्तं भवति । उक्तं च शौनकेन ।

अनुद्धृत्य तु यः स्नायात् परकीयजलाशये ।
वृथा भवति तत् स्नानं कर्तुः पापेन लिप्यते ॥

वृथा निष्फलम् इत्य् अर्थः । उत्सृष्टे तु सर्वार्थत्वात् तदभावाद् अनुद्धरणे ऽपि न दोष इति भावः । एवम् उष्णोदकस्नाने ऽपि नैष्फल्यम् आह शङ्खः ।

स्नातस्य वह्नितप्तेन तथैव परवारिणा ।
शरीरशुद्धिर् विज्ञेया न तु स्नानफलं लभेत् ॥

याज्ञवल्क्यो ऽपि ।

वृथा तूष्णोदकस्नानं वृथ जप्यम् अवैदिकम् ।
वृथा त्व् अश्रोत्रिये दानं वृथा भुक्तम् असाक्षिकम् ॥

यत् तु कैश्चिद् उक्तम्,

आप एव सदा पूतास् तासां वह्निर् विशोधकः ।
तस्मात् सर्वेषु कालेषु उष्णाम्भः पावनं स्मृतम् ॥

इति, यद् अपि षट्त्रिंसन्मते,

आपः स्वभावतो मेध्याः किं पुनर् वह्निसंयुताः ।
तेन सन्तः प्रशंसन्ति स्ननम् उष्णेन वारिणा ॥

इति, तद् आतुरस्नानविषयम् । तथा च यमः ।

आदित्यकरिणैः पूतं पुनः पूतं तु वह्निना ।
आम्नातम् आतुरस्नाने प्रशस्तं तु कुशोदकम् ॥ इति ।

यदा तु नद्यादिजलं न लभ्यते तदानातुरस्याप्य् उष्णोदकस्नानम् अविरुद्धम् इत्य् आह स एव ।

नित्यं नैमित्तिकं चैव क्रियाङ्गं मलकर्षणम् ।
तीर्थाभावे तु कर्तव्यम् उष्णोदकपरोदकैः ॥ इति ।

यत् तु वृद्धमनुनोक्तम्,

मृते जन्मनि संक्रान्तौ श्राद्धे जन्मदिने तथा ।
अस्पृश्यस्पर्शने चैव न स्नायाद् उष्णवारिणा ॥
संक्रान्त्यां भानुवारे च सप्तम्यां राहुदर्शने ।
आरोग्यपुत्रामित्रार्थी न स्नायाद् उष्णवारिणा ॥
स गोहत्याकृतं पापं प्राप्नोत्य् एव न संशयः ।

इति, तेनाप्य् उक्तेषु मरणादिषु तीर्थाभावे ऽपि नोष्णोदकैः स्नायात् किं तु परोदकैर् उद्धृतैर् इत्य् उक्तम् इत्य् अविरोधः । उष्णोदकस्नाने तु विशेषम् आह व्यासः ।

शीतास्व् अप्सु निपिच्योष्णा (?) मन्त्रसंभारसंभृताः ।
गेहे वा शस्यते स्नानं तद् धीनम् अफलं बहिः ॥ इति ।

संभारा मृदादयः । अत एव मध्यन्दिनाधिकारे विवस्वान् ।

मन्त्रसंभारसंयुक्तम् उपस्पर्सनम् उच्यते ।
स्नाने ऽवगाहने चैव प्लावनं विधिवर्जितम् ॥ इति ।
तथाल्पोदके ऽपि न स्नायाद् इत्य् आह शङ्खः - “नाल्पोदके स्नायान् न समुद्रोदके ऽवगाहेत” इति । स्मृत्यन्तरे ऽपि ।

नातुरो नारुणकरानाक्रान्ते च नभःस्थले ।
न पराम्भसि नाल्पे च नाशिरस्कः कथंचन ॥ इति ।

एतत् प्रभूतोदक्संभवाभिप्रायम् । यद् आह योगयाज्ञवल्क्यः ।

प्रभूते विद्यमाने तु उदके सुमनोहरे ।
नाल्पोदके द्विजः स्नायान् नदीं चोत्सृज्य कृत्त्रिमे ॥

पुराणो ऽपि ।

नद्यां तु विद्यमानायां न स्नायाद् अन्यवारिषु ।
न स्नायाद् अल्पतोये तु विद्यमाने बहूदके ॥

पुण्योदके संभवति नापुण्ये स्नायाद् इत्य् अर्थः । तत्र पुण्योदकान्य् आह मार्कण्डेयः ।

भूमिष्टम् उद्धृतात् पुणं (?) ततः प्रस्रवणोदकम् ।
ततो ऽपि सारसं पुण्यं तस्मान् नादेयम् उच्यते ॥
तीर्थतोयं ततः पुण्यं गाङ्गं पुण्यं तु सर्वतः ॥

तीर्थतोयं साधुपरिगृहीतं जलम् । विष्णुर् अपि - “उद्धृतात् पुण्यं भूमिष्ठम् उदकम् । तस्मान् नादेयम् । तस्माद् अपि साधुपरिगृहीतम् । सर्वत एव गाङ्गम्” इति । विवस्वान् अपि ।

एकतः सर्वतीर्थानि जाह्नव्य् एकैव चान्यतः ।
ब्रह्मलोकेशशिरसः पतिता या महीतले ॥

मरीचिर् अपि ।

भूमिष्ठम् उद्धृतं वापि शीतम् उष्णम् अथापि वा ।
गाङ्गं पयः पुनात्य् आशु पापम् आमरणान्तिकम् ॥
त्रिभिः सारस्वतं तोयं पञ्चाहेन तु यामुनम् ।
सद्यः पुनाति गाङ्गेयं दर्शनाद् एव नार्मदम् ॥

योगयाज्ञवल्क्यो ऽपि ।

त्रिरात्रफलदा नद्यः याः काश्चिद् असमुद्रगाः ।
समुद्रगास् तु पक्षस्य मासस्य सरितां पतिः ॥

सरितां पतिः समुद्रः । अत्र व्यासः ।

नद्याम् अस्तम् इते स्नानं वर्जयेत् तु सदा बुधः ।
नद्यां स्नात्वा नदीं चान्यां न प्रशंसेत धर्मवित् ॥ इति ।

देवलो ऽपि ।

न नदीषु नदीं ब्रूयात् पर्वतेषु न पर्वतम् ।
नान्यं प्रशंसयेत् तीर्थं तीर्थेष्व् आयतनेषु च ॥ इति ।

जलावगाहनं प्रकृत्य आपस्तम्बः - “सशिरावमज्जनम् अप्सु वर्जयेत्” इति । एतत् स्थावरोदकविषयम् । तथा च पुराणम् ।

स्रवन्नदीषु तु स्नायात् प्रविश्यान्तःस्थितो द्विजः ।
तटाकादिषु तोयेषु प्रत्यर्कं स्नानम् आचरेत् ॥ इति ।

अत्र वर्ज्योदकान्य् आह व्यासः ।

नद्या यच् च परिभ्रष्टं नद्या यच् च विनिःसृतम् ।
गतप्रत्यागतं यच् च तत् तोयं परिवर्जयेत् ॥
न मेहेत जलद्रोण्यां स्नातुं च न नदीं तरेत् ॥

परिभ्रष्टं विच्छिन्नम् । यन् निःसृतम् विच्छिन्नं तद् वर्जयेत् । आवर्तागतं गतप्रत्यागतम् । गर्गो ऽपि ।

प्रत्यावर्ते (?) ऽम्भसि स्नानं नद्यां वर्ज्यं द्विजातिभिः ।

बोधायनो ऽपि ।

अधोवर्णोदके स्नानं वर्ज्यं नद्यां द्विजातिभिः ।
तस्यां रजकतीर्थे तु दशहस्तेन वर्जयेत् ॥
स्नानं रजकतीर्थे तु भोजनं गणिकागृहे ।
पश्चिमोत्तरशायित्वं शक्राद् अपि हरेच् छ्रियम् ॥

गणिका वेश्या । योगयाज्ञवल्क्यो ऽपि ।

अग्राह्यास् त्व् अग्रिमा आपो नद्याः प्रथमवेदिकाः ।
प्रक्षोभिताश् च केनापि याश् च तीर्थाद् विनिःसृताः ॥

अग्रिमा नवाः । स्मृत्यन्तरे ।

अजा गावो महिष्यश् च ब्राह्मण्यश् च प्रसूतिकाः ।
दशरात्रेण शुद्ध्यन्ति भूमिष्ठं च नवोदकम् ॥

कात्यायनो ऽपि ।

याः शोषम् उपगच्छन्ति ग्रीष्मे कुसरितो भुवि ।
तासु प्रावृषि न स्नायाद् अपूर्णे दशवासरे ॥ इति ।

**इति स्मृतिचन्द्रिकायां स्नानार्हजलानि **