१६ क्रियास्नानम्

अथ क्रियास्नानम्

तत्र शङ्खः ।

क्रियास्नानं प्रवक्ष्यामि यथावद् विधिपूर्वकम् ।
मृद्भिर् अद्भिश् च कर्तव्यं शौचम् आदौ यथाविधि ॥
जले निमग्नस् तून्मज्ज्य उपस्पृश्य यथाविधि ।
तीर्थस्यावाहनं कुर्यात् तत् प्रवक्ष्याम्य् अतः परम् ॥
प्रपद्ये वरुणं देवम् अम्भसां पतिम् ऊर्जितम् ।
याचितं देहि मे तीर्थं सर्वपापापनुत्तये ॥
तीर्थम् आवाहयिष्यामि सर्वपापनिषूदनम् ।
सांनिध्यम् अस्मिन् स्वे तोये स्थीयतां मदनुग्रहात् ॥
रुद्रान् प्रपद्ये वरदान् सर्वान् अप्सुपदस् त्व् अहम् ।
सर्वान् अप्सुपदश् चैव प्रपद्ये वरुणस् त्व् इह ॥
देवम् अप्सुपदं वह्निं प्रपद्ये ऽरिनिषूदनम् ।
अपः पुण्याः पवित्राश् च प्रपद्ये शरणं तथा ॥
सर्वे रुद्रास् तथाग्निश् च वरुणश् चाप एव च ।
समयन्त्व् आशु मे पापं रक्षन्तु च सदाप्सु माम् ॥
इत्य् एवम् उक्त्वा कर्तव्यं ततः संमार्जनं कुशैः ।
आपो हिष्ठेति तिसृभिर् यथावद् अनुपूर्वशः ॥
हिरण्यवर्णा इति च ऋग्भिश् च तिसृभिस् तथा ।
शं नो देवीर् इति तथा शं न आपस् तथैव च ॥
इदम् आपः प्रवहतेत्य् एवं च समुदीरयेत् ।
एवं संमार्जनं कृत्वा छन्द आर्षं च दैवतम् ॥
अघमर्षणसूक्तं च संस्मरेत् प्रयतः सदा ।
तथाम्भसि निमग्नस् तु त्रिः पठेद् अघमर्षणम् ॥
प्रदद्यान् मूर्ध्नि च तथा महाव्याहृतिभिर् जलम् ॥ इति ।

इति स्मृतिचन्द्रिकायां क्रियास्नानम्