अथान्ये ऽपि तिथिप्रयुक्तनिषेधाः प्रदर्श्यन्ते
तत्र क्रतुः ।
षष्ठीं च सप्तमीं चैव नवमीं च त्रयोदशीम् ।
संक्रान्तौ रविवारे च स्नानम् आमलकैस् त्यजेत् ॥
योगयाज्ञवल्क्यो ऽपि ।
धात्रीफलैर् अमावास्या सप्तमीनवमीषु च ।
न स्नायात् तत्र हीयन्ते तेज आयुर् धनं सुताः ॥
धात्री आमलकी । मार्कण्डेयो ऽपि ।
सप्तम्यां न स्पृशेत् तैलं नीलवस्त्रं न धारयेत् ।
न चाप्य् आमलकैः स्नायान् न कुर्यात् कलहं नरः ॥
व्यासो ऽपि ।
षष्ठ्य् अष्टमी पञ्चदशी पक्षद्वयचतुर्दशी ।
अत्र संनिहितं पापं तैले मांसे क्षुरे भगे ॥
एतद् दर्शपूर्णमासव्यतिरिक्तविषयम्, तस्य तत्रैव विधानात् । व्याघ्रो ऽपि ।
अष्टम्यां च चतुर्दश्यां पञ्चदश्यां त्रिजन्मनि ।
तैलं मांसं व्यवायं च दन्तकाष्ठं च वर्जयेत् ॥
व्यवायो मैथुनम् । अत्रिर् अपि ।
षष्ठ्यां तैलम् अनायुष्यम् अष्टम्यां पिशितं (?) तथा ।
क्षुरकर्म चतुर्दश्याम् अमायां मैथुनं तथा ॥
दन्तकाष्ठम् अमावास्यां मैथुनं च चतुर्दशीम् ।
हन्ति सप्तकुलं पुंसां तैलग्रहणम् अष्टमीम् ॥
पुराणे ऽपि ।
कुहूपूर्णेन्दुसंक्रान्तिचतुर्दश्यष्टमीषु च ।
नरश् चण्डालयोनिः स्यात् तैलस्त्रीमांससेवनात् ॥
धौम्यो ऽपि ।
मांसाशने पञ्चदशी तैलाभ्यङ्गे चतुर्दशी ।
अष्टमीं ग्राम्यधर्मे च ज्वलन्तम् अपि पातयेत् ॥
ग्राम्यधर्मो मैथुनम् । पुराणे ऽपि ।
चतुर्दश्य् अष्टमी षष्ठी अमावास्या च पूर्णिमा ।
पर्वाण्य् एतानि राजेन्द्र रविसंक्रान्तिर् एव च ॥
तैलस्त्रीमांससंभोगी पर्वस्व् एतेषु यः पुमान् ।
विण्मूत्रभोजनं नाम प्रयाति नरकं ध्रुवम् ॥
मार्कण्डेयो ऽपि ।
अष्टमी च तथा षष्टी नवमी च चतुर्दशी ।
क्षुरकर्मणि वर्ज्याः स्युः पर्वसंधिस् तथैव च ॥
अमावास्यासु सर्वासु नववस्त्रं न धारयेत् ॥
प्रचेता अपि ।
विधुक्षये न गच्छेत प्राप्तकालाम् अपि स्त्रियम् ।
तैलं च न स्पृशेद् आमवृक्षादींश् च कर्तयेत् ॥
विष्णुपुराणे ऽपि ।
छिनत्ति वीरुधो यस् तु वीरुत्संस्थे निशाकरे ।
पत्रं वा पातयत्य् एकं ब्रह्महत्यां स विन्दति ॥
शङ्खो ऽपि ।
अमावास्यासु न छिन्द्यात् कुशांस् तु समिधस् तथा ।
सर्वत्रावस्थिते सोमे हिंसायां ब्रह्महा भवेत् ॥
पैठीनसिर् अपि - “नामावास्यायाम् अङ्कुराणि छिन्द्यात्” इति । एवं च यद् उक्तं जाबालिना,
कुशान् काशं च पुष्पाणि गवार्थं च तृणादिकम् ।
निषेधे चापि गृह्णीयाद् अमावास्याहनि द्विजः ॥
इति, तच् छान्तीयकुशादिग्रहणम् इत्य् अनुसंधेयम् ।
इति स्मृतिचन्द्रिकायां तिथिप्रयुक्तनिषेधाः