१४ मलापकर्षणस्नान-विषयः

अथ मलापकर्षणस्नान-विषयाणि कानिचिद् वचनानि लिख्यन्ते

अत्र वृद्धमनुः ।

पक्षादौ च तवौ षष्ठ्यां रिक्तायां च तथा तिथौ ।
तैलेनाभ्यज्यमानस् तु धनायुर्भ्यां विहीयते ॥

हारितो ऽपि ।

पञ्चमीं दशमीं चैव पौर्णमासीं त्रयोदशीम् ।
एकादशीं तृतीयां च यस् तैलम् उपसेवते ॥
अभ्यङ्गस्पर्शनाद् वापि भक्षणाच् च तथैव च ।
उच्छीर्णा तस्य वृद्धिः स्याद् धनापत्यबलायुषाम् ॥

बोधायनो ऽपि ।

अष्टम्यां च चतुर्दश्यां दशम्यां च विशेषतः ।
शिरो ऽभ्यङ्गं वर्जयेत् तु पर्वसंधौ तथैव च ॥

गर्गो ऽपि ।

पञ्चदश्यां चतुर्दश्याम् अष्टम्यां रविसंक्रमे ।
द्वादश्यां सप्तमीषष्ठ्योस् तैलस्पर्शं विवर्जयेत् ॥
एवं वारनिषेधो ऽपि ज्योतिःशास्त्रे प्रदर्शितः ।
संतापः कान्तिर् अल्पायुर् धनं वै निधनं तथा ।
अनारोग्यं सर्वकामा अभ्यङ्गाद् भास्करादिषि ॥

वामनपुराणे ऽपि ।

नाभ्यङ्गम् अर्के न च भूमिपुत्रे क्षौरं च शुक्रे च कुजे च मांसम् ।
बुधे च योषित्पर्वर्जनीया शेषेषु कार्याणि सदैव कुर्यात् ॥
चित्रासु हस्ते श्रवणे च तैलं क्षुरं विशाखासु भिषक्षु वर्ज्यम् ।
मूले मृगे भाद्रपदासु मांसं योषिन्मखार्तिकसोत्तरासु ॥
तैलाभ्यङ्गो नार्कवारे न भौमे नो संक्रान्तौ वैधृतौ निष्टिषष्ठ्योः ।
पर्वस्व् अष्टम्यां च नेष्टः स इष्टः प्रोक्तो मुक्त्वा वासरे सूर्यसूनोः ॥

सूर्यसूनुः शनैश्वरः । एवं चोत्तरादियुक्तां द्वितीयां विहायोत्तरासु तिथिष्व् अभ्यङ्गस्नानं कुर्याद् इत्य् उक्तं भवति । अत्र प्रचेताः ।

सार्षपं गन्धतैलं च यत् तैलं पुष्पवासितम् ।
अन्यद् द्रव्ययुतं तैलं न दुष्यति कदाचन ॥

यमो ऽपि ।

घृतं च सार्षपं तैलं यत् तैलं पुष्पवासितम् ।
न दोषः पक्वतैलेषु स्नानाभ्यङ्गेषु नित्यशः ॥ इति ।

अयं च तिथिविशेषनिषेधो ऽभ्यङ्गस्नान एव, न नित्यस्नानादौ । तथा च गर्गः ।

पुत्रजन्मनि संक्रान्तौ श्राद्धे जन्मदिने तथा ।
नित्यस्नाने च कर्तव्ये तिथिदोषो न विद्यते ॥

आपस्तम्बो ऽपि ।

यादृच्छिकं तु यत् स्नानं भोगार्थं क्रियते द्विजैः ।
तन् निषिद्धं दशम्यादौ नित्यं नैमित्तिकं त्व् इति ॥

एवं काम्ये ऽपि द्रष्टव्यम् । अत एव जाबालिः ।

नित्यं न हापयेत् स्नानं काम्यं नैमित्तिकं च यत् ।
दशम्याम् अपि कर्तव्यं न तु यादृच्छिकं क्वचित् ॥ इति ।

यादृच्छिकं मलापकर्षणार्थम्,

मलव्यपोहनफलं स्नानं यादृच्छिकं तु तत् ।

इति गर्गस्मरणात् । एवं च यद् उक्तम् आपस्तम्बेन,

विना तु सन्ततस्नानं न स्नायाद् दशमीषु च ।

इति, तत् काम्यनैमित्तिकयोर् अपि प्रदर्शनार्थम् इत्य् अवगन्तव्यम् ।

इति स्मृतिचन्द्रिकायां मलापकर्षणस्नानम्