१३ माघस्नानविधिः

अथ माघस्नानविधिः

तत्र नारदीयपुराणम् ।

संप्राप्ते माघमासे तु तपस्विजनवल्लभे ।
क्रोशन्ति सर्ववारीणि समुद्गच्छति भास्करे ॥
पुनीमः सर्वपापानि त्रिविधानि न संशयः ।
ब्रह्मघ्नेनापि यानि स्युस् तीव्रकर्मकृतानि च ॥
देवैस् तेजः परिक्षिप्तं माघमासे जलेषु वै ।
अतः पवित्रं हि जलमशेषाघौघनाशनम् ॥
नड्वलेषु तु न स्नायात् कौप्ये भाण्डे स्थिते जले ।
न सुखाल् लभ्यते पुण्यं पुण्यं कृच्छ्रेण लभ्यते ॥
माघमासे वरारोहे शस्तं वै निम्नगाजलम् ।
स्नातो वह्निं न सेवेत अस्नातो वा कथंचन ॥

विष्णुर् अपि ।

पौषफाल्गुनयोर् मध्ये प्रातःस्नायी सदा भवेत् ।
दर्शं वा पौर्णमासीं वा प्रारभ्य स्नानम् आचरेत् (?) ॥
पुण्यान्य् अहानि त्रिंशत् तु मकरस्थे दिवाकरे ।
तत्र चोत्थाय नियमं गृह्णीयाद् विधिपूर्वकम् ॥
माघमासम् इमं पूर्णं स्नास्ये ऽहं देव माधव ।
तीर्थस्यास्य जले नित्यम् इति संकल्प्य चेतसि ॥
ततः स्नात्वा गृही तीर्थे कृत्वा शिरसि वै मृदम् ।
वेदोक्तविधिना राजन् सूर्यस्यार्घ्यं निवेदयेत् ॥
पितॄन् संतर्पयित्वा तु अवतीर्य ततो जलात् ।
काष्ठा मौनी नमस्कृत्य पूजयेत् पुरुषोत्तमम् ॥
शङ्खचक्रधरं देवं माधवं नाम पूजयेत् ।
वह्नौ हुत्वा विधानेन ततस् त्व् एकाशनो भवेत् ॥
भूशय्याब्रह्मचर्येण शक्तः स्नानं समाचरेत् ।
अशक्तस्यां धनाढ्यस्य स्वेच्छा सर्वत्र कथ्यते ॥
अवश्यम् एव कर्तव्यं माघस्नानम् इति स्थितिः ।
तिलस्नायी तिलोद्वर्ती तिलहोमी तिलोदकी ॥
तिलदस् तिलभोक्ता च षट्तिलो नावसीदति ।
तिला आमलकाश् चैव तीर्थे देयास् तु नित्यशः ॥
तथा प्रज्वालयेद् वह्निम् इन्धनार्थं द्विजन्मनाम् ।
एवं स्नानस्यावसाने भोज्यं देयम् अवारितम् ॥
भोजयेद् द्विजदाम्पत्यं भूषयेद् वस्त्रभूषणैः ।
कम्बलाजिनरत्नानि वासांसि विविधानि च ॥
चेलकानि च देयानि प्रच्छादनपटास् तथा ।
उपानहौ तथा गुल्फमोचकौ पादमोचकौ ॥
अनेन विधिना दद्यान् माधवः प्रीयताम् इति ।

अत्र पुराणोक्तो विशेषः ।

सवित्रे प्रसवित्रे च परं धाम जले मम ।
त्वत्तेजसा परिभ्रष्टं पापं यातु सहस्रधा ॥
दिवाकर जगन्नाथ प्रभाकर नमो ऽस्तु ते ।
परिपूर्णं करिष्ये ऽहं माघस्नानं तवाज्ञया ॥

इति संकल्पमन्त्रः ।

अहन्य् अहनि दातव्यास् तिलाः शर्कर्यान्विताः ।
माघवसाने सुभगे विप्रान् संभोजयेत् तथा ॥
सूर्यो मे पीयतां देवो विष्णुमूर्तिर् निरञ्जनः ।
दम्पत्योर् वाससी सूक्ष्मे सप्तदान्यसमन्विते ॥
त्रिंशत् तु मोदका देयाः शर्करातिलसंयुताः ।
भागत्रयं तिलानां तु चतुर्थः शर्करांशकः ॥
अनभ्यङ्गी वरारोहे सर्वं मासं नयेद् व्रती ॥

तत्र फलविशेषार्थिनो नियमविशेषम् आह विष्णुः ।

संयतः पथि गच्छेत् तु मौनी पैशुन्यवर्जितः ।
यदीच्छेद् विपुलान् भोगांश् चन्द्रसूर्योपमाम् (?) शुभान् ॥
अप्रावृत्तश्रीरस् तु यःकामी स्नानम् आचरेत् ।
पदे पदे ऽश्वमेधस्य फलं प्राप्नोति मानवः ॥

पुराणे ऽपि ।

सरित्तोयं महावेगं नवकुम्भस्थं तथा ।
वयुना ताडितं रात्रौ गङ्गास्नानसमं व्रतम् ॥ इति ।

एवं कुर्वतः फलम् आह विष्णुः ।

बालास् तरुणका वृद्धा नरनारीनपुंसकाः ।
स्नात्वा माघे शुभे तीर्थे प्राप्नुवन्तीप्सितं फलम् ॥
पित्रा पितामहैः सार्धं प्रपितामहैः ।
मातृमातामहैः सार्धं वृद्धमातामहैः तथा ॥
एकविंशत्कुलैः सार्धं भुक्त्वा भोगान् यथेप्सितान् ।
माघमास्य् उषसि स्नात्वा विष्णुलोकं स गच्छति ॥

पुराणे ऽपि ।

एवं माघप्लवे याति भित्वा बिम्बं दिवाकरे ॥ इति ।

इति स्मृतिचन्द्रिकायां माघस्नानविधिः