१२ काम्यस्नानानि

अथ काम्यस्नानानि

तत्र पुलस्त्यः ।

पुष्ये च जन्मनक्षत्रे व्यतीपाते च वैधृतौ ।
अमायां च नदीस्नानं पुनात्य् आसप्तमं कुलम् ॥
रव्यङ्गारशनेर् वारे स्नानं कुर्वन्ति ये द्विजाः ।
व्याधिभिस् ते न पीड्यन्ते मृगैः केसरिणो यथा ॥
चैत्रकृष्णचतुर्दश्यां यः स्नायाच् छिवसंनिधौ ।
न प्रेतत्वम् अवाप्नोति गङ्गायां च विशेषतः ॥

भविष्यत्पुराणे ।

शिवलिङ्गसमीपे तु यत् तोयं पुरतः स्थितम् ।
शिवगङ्गेति तज्ज्ञेयं तत्र स्नात्वा दिवं व्रजेत् ॥

यमो ऽपि ।

कार्तिक्यां पुष्करे स्नातः सर्वपापैः प्रमुच्यते ।
माघ्यां स्नातः प्रयागे तु मुच्यते सर्वकिल्बिषैः ॥
ज्येष्ठमासे सिते पक्षे द्वादश्यां हस्तसंयुते ।
दशजन्माघहा गङ्गा तेन पापहरा स्मृता ॥
यमुनायां तथा स्नात्वा माघकृष्णचतुर्दशीम् ।
वैशाखे शुक्लपक्षे तु तृतीयायां तथैव च ॥
गङ्गातोये नरः स्नात्वा मुच्यते सर्वकिल्बिषैः ॥

मार्कण्डेयो ऽपि ।

गवां कोटिसहस्रस्य सम्यग् दत्तस्य यत् फलम् ।
तत् फलं जाह्नवीस्नाने राहुग्रस्ते दिवाकरे ॥

पद्मपुराणे ऽपि ।

कार्तिके नवमी शुक्ला पितॄणाम् उत्सवाय सा ।
तस्यां स्नानं हुतं दत्तम् अनन्तफलदं भवेत् ॥

विष्णुर् अपि ।

सूर्यग्रहणतुल्या तु शुक्ला माधस्य सप्तमी ।
अरुणोदयवेलायां तस्यां स्नानं महाफलम् ॥
पुनर्वसुबुधोपेता चैत्रमासे सिताष्टमी ।
स्रोतःसु विधिवत् स्नात्वा वाजपेयफलं लभेत् ॥

शातातपो ऽपि ।

अमावास्या भवे द्वारे यदा भूमिसुतस्य वै ।
जाह्नवीस्नानमात्रेण गोसहस्रफलं भवेत् ॥

पुराणे ऽपि ।

कार्तिकं स्कलं मासं नित्यस्नायी जितेन्द्रियः ।
जपन् हविष्यभुक् स्नातः सर्वपापैः प्रमुच्यते ॥
तुलामकरमेषेषु प्रातःस्नायी सदा भवेत् ।
हविष्यं ब्रह्मचर्यं च महापातकनाशनम् ॥

यमो ऽपि ।

य इच्छेद् विपुलान् भोगांश् चन्द्रसूर्यग्रहोपमान् ।
प्रातःस्नायी भवेन् नित्यं मासौ द्वौ माघफाल्गुनौ ॥

मत्स्यपुराणे ऽपि ।

आषाढादिचतुर्मासान् प्रातःस्नायी भवेन् नरः ।
विप्रेभ्यो भोजनं दत्वा कार्तिक्यां गोप्रदो भवेत् ॥
स वैष्णवं पदं याति विष्णुव्रतम् इदं स्मृतम् ॥

वृद्धवासिष्ठो ऽपि ।

रविसंक्रमणे पुण्ये न स्नायाद् यदि मानवः ।
सप्तजन्मसु रोगी स्याद् दुःखभागीह जायते ॥
सप्तजन्मातरं (?) रोगैः न विमुक्तः सदा भवेत् ॥

मार्कण्डेयो ऽपि ।

सर्वकालं तिलैः स्नानं पुण्यं व्यासो ऽब्रविन् मुनिः ।
तुष्यत्य् आमलकैर् विष्णुर् एकादश्यां विशेषतः ॥
श्रीकामस् तु सदा स्नानं कुर्वीतामलकैर् नरः ।
सपतमीं नवमीं चैव पर्वकालं च वर्जयेत् ॥

अत्र ब्रह्माण्डपुराणम् ।

नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानम् उच्यते ।
तर्पणं तु भवेत् तस्य अङ्गत्वेन प्रकीर्तितम् ॥ इति ।

गर्गो ऽपि ।

कुर्यान् नैमित्तिकस्नानं शीताद्भिः काम्यम् एव च ।
नित्यं यादृच्छिकं चैव यथारुचि समाचरेत् ॥ इति ।

इति स्मृतिचन्द्रिकायां काम्यस्नानानि