११ नैमित्तिकस्नानम्

अथ नैमित्तिकस्नानम्

तत्र मनुः ।

दिवाकीर्तिम् उदक्यां च पतितं सूतिकां तथा ।
शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुद्ध्यति ॥

दिवाकीर्तिश् चण्डालः । उदक्या रजस्वला । स्नानेन सचेलेनेति शेषः,

शवस्पृष्टिम् अथोदक्यां सूतिकां पतितं तथा ।
स्पृष्ट्वा स्नानेन शुद्धः स्यात् सचेलेन न संशयः ॥

इत्य् अङ्गिरःस्मरणात् । तत्र तच्छब्देन दिवाकीर्त्यादिसवपर्यन्तानां ग्रहणं न शवमात्रस्य, तेषाम् अप्य् अशुचित्वेन शवतुल्यत्वाद् एकवाक्योपादानाच् च । न चात्रानन्तर्याच् छव एव तत्स्पृष्टिन्याय इति शङ्कनीयम्, अत आह गौतमः - “पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्यपस्पर्शने सचेलोदकोपस्पर्शनाच् छुद्ध्येत्” इति । अनेन पतितादिस्पृष्टिनम् आरभ्य तृतीयस्यापि सचेलं स्नानम् इत्य् उक्तं भवति । न चात्रापि पतिताद्युदक्यान्तानां शवस्पृष्टिना संबन्ध इति तत्रैव तत्स्पृष्टिन्याय इति शङ्कनीयम्, चण्डालादिष्व् अपि स्मृत्यन्तरे तत्स्पृष्टिन्यायाभिधानात् - “शवचण्डालपतितसूतिकोद्क्यातत्स्पृष्टिस्पर्शने स्नानम्” इति । संग्रहकारो ऽपि ।

चण्डालसूतिकोदक्यापतिआः शव एव च ।
एतेषाम् एव संस्पर्शे तत्स्पृष्टिन्याय इष्यते ॥ इति ।

एवकारः कटधूमादिस्पृशि तत्स्पृष्टिन्यायनिवृत्त्यर्थः । तद् आह स एव ।

कटधूमस्पृशं वान्तं विरक्तं क्षुरकर्मिणम् ।
मैथुनाचरितारं च स्पृष्ट्वा स्नानं न विद्यते ॥ इति ।

यत् तु संवर्तेन,

तत्स्पृष्टिनं स्पृशेद् यस् तु स्नानं तस्य विधीयते ।
ऊर्ध्वम् आचमनं प्रोक्तं द्रव्याणां प्रोक्षणम् तथा ॥

इति द्वयोर् एव स्नानम् उक्तम्, तद् अबुद्धिपूर्वकस्पर्शनविषयम् । तथा च संग्रहकारः ।

अबुद्धिपूर्वकस्पर्शे द्वयोः स्नानं विधीयते ।
त्रयाणां बुद्धिपूर्वे तु तत्स्पृष्टिन्यायकल्पना ॥ इति ।

चतुर्थस्य त्व् आचमनम् एव,

उपस्पृशेच् चतुर्थस् तु तद् ऊर्ध्वं प्रोक्षणं स्मृतम् ।

इति मरीचिस्मरणात् । यत् तु कूर्मपुराणे,

चण्डालसूतिकोदक्यासंस्पृष्टं संस्पृशेद् यदि ।
प्रमादात् तत आचम्य जपं कुर्यात् समाहितः ॥
तत्स्पृष्टस्पृष्टिनं स्पृष्ट्वा बुद्धिपूर्वं द्विजोत्तमः ।
आचामेत् तद्विशुद्ध्यर्थं प्राह देवः पितामहः ॥

इति, तदुभयं द्वितीयादिविषयम्, अन्यथा गौतमादिवचनरोधात्, अनेनैवाभिप्रायेण याज्ञवल्क्यो ऽपि,

उदक्याशुचिभिः स्नायात् संस्पृष्टस् तैर् उपस्पृशेत् ।
अब्लिङ्गानि जपेच् चैव गायत्रीं मनसा सकृत् ॥ इति ।

उदक्याशुचिभिश् चण्डालपतिताद्यैः संस्पृष्टः स्नायात् । तैर् उदयादिभिर् अस्पृष्टैः स्पृष्ट उपस्पृशेत् आचामेद् इत्य् अर्थः । भाष्यकारैस् तु दण्डादिस्पर्शविषयम् इत्य् एतद् व्याख्यातम् । यद् वा, “तैर् उदक्यादिभिर् अस्पृष्टैः स्पृष्ट उपस्पृशेत् स्नायात्” इति संवर्तवचनेन समानार्थम् । यद् अपि देवलेनोक्तम्,

संस्पृश्याशुचिसंस्पृष्टं द्वितीयं चापि मानवः ।
हस्तौ पादौ च तोयेन प्रक्षाल्याचम्य शुद्ध्यति ॥

इति, तद् अपि याज्ञवल्क्येन समानार्थम् । यद् अपि वृद्धशातातपेन,

अशुचिं संस्पृशेद् अन्यम् एक एव स दुष्यति ।
तत्स्पृष्टो ऽन्यो न दुष्येत सर्वद्रव्येष्व् अयं विधिः ॥

इति, तद् अपि तेनैव समानार्थम् । यद् अप्य् आदित्यपुराणे,

ससूतकं समृतकं ससूतां वा रजस्वलां ।
स्पृष्ट्वा स्नायात् तु तत्स्पृष्टसंस्पर्शाद् आचमेद् बुधः ॥

इति, तद् अपि संवर्तवचनेन समानार्थम् । अत्र कात्यायनः,

चण्डालसूतिकोदक्यापतिताशौचकृच् छवान् ।
स्पृष्ट्वा स्नात्वा सुचिः प्रेतम् अनुगम्यानलं स्पृशेत् ॥

इति, एतत् प्रमादसंस्पर्शविषयम् ।

पतितं सूतिकाम् अन्त्यं सवं स्पृष्ट्वा च कामतः ।
स्नात्वा सचेलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुद्ध्यति ॥

इति स्मरणात् । अत्र प्रचेताः ।

वस्त्रान्तरितसंस्पर्शः साक्षात् स्पर्शो ऽभिधीयते ।
साक्षात् स्पर्शे तु यत् प्रोक्तं तद् वस्त्रान्तरिते ऽपि च ॥ इति ।

व्यासो ऽपि ।

चण्डालपतितौ दृष्ट्वा नरः पश्येत भास्करम् ।
स्नातस् त्व् एतौ समालोक्य सचेलं स्नानम् अर्हति ॥
सूतिकापतितोदक्याश् चण्डालं च चतुर्थकम् ।
यथाक्रमं परिहरेद् एकद्वित्रिचतुर्युगम् ॥

वैयाघ्रपादो ऽपि ।

चण्डालं पतितं चैव दूरतः परिवर्जयेत् ।
गोवालव्यजनाद् अर्वाक् सवासा जलम् आविशेत् ॥ इति ।

एतद् अतिसङ्कटस्थानविषयम् इति कैश्चिद् व्याख्यातम् । विष्णुर् अपि ।

चण्डालोदक्यासंस्पर्शे स्नानं कृत्वा विशुद्ध्यति । इति ।

पराशरो ऽपि ।

चैत्यवृक्षश् चितिर् यूपश् चण्डालः सोमविक्रयी ।
एतांस् तु ब्राह्मणः स्पृष्ट्वा सचेलो जलम् आविसेत् ॥ इति ।

चितिप्रदेशारोपितवृक्षः चैत्यवृक्षः । अङ्गिरा अपि ।

यस् तु छायां श्वपाकस्य ब्राह्मणो ह्य् अधिरोहति ।
तत्र स्नानं प्रकुर्वीत घृतं प्राश्य विशुध्यति ॥

आपस्तम्बो ऽपि ।

एकशाखां समारूढश् चण्डालादिर् यदा भवेत् ।
ब्राह्मणस् तत्र निवसन् स्नानेन शुचिताम् इयात् ॥ इति ।

शाखाग्रहणम् एवंजातीयकद्रव्योपलक्षणार्थम् । अत एव संग्रहकारः ।

तार्णे संस्तर एकस्मिन्न् अस्पृश्यैः स तिष्ठति ।
अस्पृश्यैस् तैर् अदुष्टो ऽस्मीत्य् एवं मूढस् तु मन्यते ॥ इति ।

तार्णे तृणनिर्मिते । अत्र रजस्वलां प्रकृत्य अङ्गिराः ।

स्नानं रजस्वलायास् तु चतुर्थे ऽहनि निर्दिशेत् ।
कुर्याद् रजसि निर्वृत्ते शौचार्थं तु ततः पुनः ॥ इति ।

मनुर् अपि ।

रजस्य् उपरते साध्वी स्नानेन स्त्री रजस्वला ।

रजोनिवृत्त्यनन्तरं पुनः स्नानेन साध्वी दैवादिकर्मयोग्येत्य् अर्थः । यत् पुनर् अङ्गिरोवचनम्,

शुद्धा भर्तुश् चतुर्थे ऽह्नि स्नाता नारी रजस्वला ।
दैवे कर्मणि पित्र्ये च पञ्चमे ऽहन्ति शुध्यति ॥

इति, तद् रजोनिवृत्तिकालोपलक्षणार्थम् । यतः स एवाह ।

शध्वाचारा न तावत् स्यात् स्नातापि स्त्री रजस्वला ।
यावत् प्रवर्तमानं हि रजो न विनिवर्तते ॥ इति ।

साध्वाचारा दैवादिकर्मयोग्येत्य् अर्थः । स्पर्शयोग्या तु स्नानानन्तरं भवत्य् एव । तद् आह कात्यायनः ।

रजस्वला चतुर्थे ऽह्नि स्नानाच् छुद्धिम् अवाप्नुयात् । इति ।

यदा तु रोगेण रजो निःसरति तदा न तेनाशुद्धिर् इत्य् आह अङ्गिराः ।

रोगेण यद् रजः स्त्रीणाम् अत्यर्थं तु प्रवर्तते ।
अशुद्धा नैव तास् तेन यस्माद् वैकारिकं हि तत् ॥ इति ।

एवम् अकाले ऽपि रजोदर्शने द्रष्टव्यम् । तथा च स्मृत्यन्तरम् ।

अकाले यद् भवेत् स्त्रीणां रक्तम् आहुर् मनीषिणः ।
काले तु यद् रजः प्रोक्तं तस्मात् तत्रैव साशुचिः ॥ इति ।

अत्र संवर्तः ।

श्ववराहखरान् उष्ट्रान् वृकगोमायुवानरान् ।
काककुक्कुटगृध्रांश् च स्पृष्ट्वा स्नानं समाचरेत् ॥ इति ।

पैठीनसिर् अपि - “काकोलूकस्पर्शने सचेलं स्नानम् । अनुदकमूत्रपुरीषकरणे सचेलं स्नानम्, महाव्याहृतिभिर् होमश् च” इति । तदनन्तरम् उदकलाभ इत्य् अर्थः,

कृत्वा मूत्रं पुरीषं वा यदा नैवोदकं लभेत् ।
स्नात्वा लब्धोदकः पस्चात् सचेलेस् तु विशुद्ध्यति ॥

इत्य् अङ्गिरःस्मरणात् । व्यासो ऽपि ।

भासवानरमार्जारखरोष्ट्राणां शुनां तथा ।
सूकराणाम् अमेध्यं वै स्पृष्ट्वा स्नायात् सचेलकम् ॥

हारीतो ऽपि ।

एलकं कुक्कुटं ककं श्वसृगलशिवावृकान् (?) ।
चितियूपश्मशानानि विड्वराहखराशुचीन् ।
अवकीर्णिनम् अन्त्यं च स्पृष्ट्वा स्नानं समाचरेत् ॥

मार्कण्डेयपुराणे ऽपि ।

अभोज्यसूतिकाषण्डमार्जाराखुश्वकुक्कुटम् ।
पतितापविद्धचण्डालमृतहारांश् च धर्मवित् ॥
संस्पृश्य शुद्ध्यति स्नानान् नोदक्याग्रामसूकरौ ।
तद्वच् च सूतिकाशौचदूषितौ पुरुषाव् अपि ॥

षट्त्रिंशन्मते ।

बौद्धान् पाशुपताञ् जैनान् लोकायतिककापिलान् ।
विकर्मस्थान् द्विजान् स्पृष्ट्वा सचेलो जलम् आविशेत् ॥
कापालिकांस् तु संस्पृश्य प्राणायामो ऽधिको मतः ।

ब्रह्माण्डपुराणे ऽपि ।

शैवान् पाशुपतान् स्पृष्ट्वा लोकायतिकनास्तिकान् ।
विकर्मस्थान् द्विजान् शूद्रान् सवासा जलम् आविशेत् ॥

संवर्तो ऽपि ।

शूद्रोच्छिष्टं द्विजः स्पृष्ट्वा उच्छिष्टं शूद्रम् एव वा ।
शुचिम् अप्य् अवगूह्यैनं सवासा जलम् आविशेत् ॥

अवगूह्य स्पृष्ट्वेत्य् अर्थः । स्मृत्यन्तरे ऽपि ।

चितिं च चितिकाष्ठं च यूपं चण्डालम् एव च ।
स्पृष्ट्वा देवलकं चैव सवासा जलम् आविशेत् ॥
देवार्चनपरो विप्रो वित्तार्थि वत्सरत्रयम् ।
स वै देवलको नाम हव्यकव्येषु गर्हितः ॥

यमो ऽपि ।

शुना चैव श्वपाकेन मृतनिर्हरणेन वा ।
स्पृष्टमात्रस् तु कुर्वीत सचेलं प्लावनं जले ॥ इति ।

शुनि विशेषम् आह आपस्तम्बः - “शुनोपहतः सचेलो ऽवहाहेत । प्रक्षाल्य वा तं देशम् अग्निना संस्पृश्य पुनः प्रक्षाल्य पादौ चाचम्य प्रयतो भवति” इति । सचेलावगाहनं नाभेर् ऊर्ध्वाङ्गस्पर्शनविषयम् । तथा च विष्णुः ।

नाभेर् अधः कराग्रं वा शुना यद्य् उपहन्यते ।
प्रक्षाल्य दर्भैर् संज्वाल्य पुनर् आचम्य शुध्यति ॥
नाभेर् ऊर्ध्वं शुना स्पृष्टो लिप्तो ऽमेध्येन वा पुनः ।
प्रक्षाल्य मृधिर् अङ्गानि सचेलं स्नानम् अर्हति ॥ इति ।

एवं रजकादिस्पर्शने वेदितव्यम् । तथा च शातातपः ।

रजकश् चर्मकृच् चैव व्याधजालोपजीविनौ ।
निर्णेजकः सौनिकश् च नटश् शैलूषकस् तथा ॥
मुखेभगस् तथा श्वा च वनिताः सर्ववर्णगाः ।
चक्री ध्वजी वध्यघाती ग्रामकुक्कुटसूकरौ ॥
एतैर् यद् अङ्गं स्पृष्टं स्याच् छिरोवर्जं द्विजातिषु ।
तोयेन क्षालनं कृत्वा आचान्ताः प्रयता मताः ॥

रजको वस्तादिरागकर्ता । निर्णेजकश् चेलधावकः । सैनिको हिंस्रः । नटो जातिविशेषः । अनटो ऽपि रङ्गावतरणजीवी शैलूषकः । मुखेभगः षण्डविशेषः । ध्वजी मद्यविक्रेता । अत्रापि श्वसाहचर्याच् छिरोग्रहणं नाभेर् ऊर्ध्वाङ्गोपलक्षणार्थम् । शङ्खो ऽपि ।

रथ्याकर्दमतोयेन ष्ठीवनाद्येन वा तथा ।
नाभेर् ऊर्ध्वं नरः स्पृष्टः सद्यः स्नानेन शुद्ध्यति ॥

जातूकर्णो ऽपि ।

ऊर्ध्वं नाभेः करौ मुक्त्वा यद् अङ्गं स्पृसते खगः ।
स्नानं तत्र प्रकुर्वीत शेषं प्रक्षाल्य शुद्ध्यति ॥

खगः पक्षी । यदि पुनर् अशुद्ध एव श्वादीन् स्पृशति तदा विशेषो देवलेन दर्शितः ।

श्वपाकं पतितं व्यङ्ग्म् उन्मत्तं शवदाहकम् ।
सूतिकां स्राविकां नारीं रजसा च परिप्लुताम् ॥
शुककुक्कुटवाराहान् ग्राम्यान् संस्पृश्य मानवः ।
सचेलः सशिराः स्नात्वा तदानीम् एव शुद्ध्यति ॥
अशुद्धान् स्वयम् अप्य् एतान् अशुद्धस् तु यदि स्पृशेत् ।
विशुद्ध्यत्य् उपवासेन तथा कृच्छ्रेण वा पुनः ॥ इति ।

स्राविका प्रसवस्य कारयित्री । एतद् बुद्धिपूर्वकस्पर्शविषयम् । तथा च कूर्मपुराणम् ।

उच्छिष्टो ऽद्भिर् अनाचान्तश् चण्डालं वा स्पृशेद् द्विजः ।
प्रमादाद् वा जपेत् स्नात्वा गायत्रष्टसहस्रकम् ॥
चण्डालपतितादींस् तु कामाद् यः संस्पृशेद् द्विजः ।
उच्छिष्टस् तत्र कुर्वीत प्राजापत्यं विशुद्धये ॥ इति ।

अनेनैवाभिप्रायेण विष्णुर् अपि ।

अनुच्छिष्टेन संस्पृष्टे स्नानं येन विधीयते ।
तेनैवोच्छिष्टसंस्पृष्टः प्राजापत्येन शुद्ध्यति ॥

अत्र संवर्तः ।

नीलीं नीलीविकारांश् च मानुष्यास्थ्य् अपि वा द्विजः ।
चण्डालपतितच्छायां स्पृष्ट्वा स्नानं समाचरेत् ॥

एतत् सस्नेहास्थिविषयम् । यद् आह मनुः ।

नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुद्ध्यति ।
आचम्यैव तु निःस्नेहं गाम् आलभ्यार्कम् ईक्ष्य वा ॥

अमानुषे तु विष्णूक्तं द्रष्टव्यम् - “भक्ष्यवर्जं पञ्चनखशवं तदस्थि सस्नेहं च स्पृष्ट्वा स्नायात्” इति । अत्र यमः ।

अजीर्णे ऽभ्युदिते वान्ते श्मश्रुकर्मणि मैथुने ।
दुःस्वप्ने दुर्जनस्पर्शे स्नानमात्रं विधीयते ॥

अजीर्णे ऽपरेद्युर् भुक्तोद्गारे । अभ्युदिते शयानस्यादित्ये । पुराणे ऽपि ।

स्पृष्ट्वा रुद्रस्य निर्माल्यं सवासा आप्लुतः शुचिः ।

पराशरो ऽपि ।

दुःस्वप्ने मैथुने वान्ते विरिक्ते क्षुरकर्मणि ।
चितियूपश्मशानानां स्पर्शने स्नानम् आचरेत् ॥
अस्थिमञ्चयनात् (?) पूर्वं रुदित्वा स्नानम् आचरेत् ।
अन्तर्दशाहे विप्रस्य ऊर्ध्वम् आचमनं स्मृतम् ॥

अत्रास्थिमञ्चनाद् ऊर्ध्वं (अन्तर्दशाहे) आचमनम् इति संबन्धः । वमनादौ तु विशेषम् आह यमः ।

वान्तो विरिकः स्नात्वा तु घृतप्राशनम् आचरेत् ।
आचामेद् एव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम् ॥ इति ।

भुक्त्वान्नम् अनन्तरं वान्त आचामेद् इत्य् अर्थः । मैथुनिनः स्नानम् ऋतुकालविषयम् । यद् आह शातातपः ।

ऋतौ तु गर्भशङ्कित्वात् स्नानं मैथुनिनः स्मृतम् ।
अनृतौ तु यदा गच्छेच् छौचं मूत्रपुरीषवत् ॥ इति ।

अत्र मूत्रपुरीषवच् छौचद्वयम् अपि कार्यम् इत्य् अर्थः । स्मृत्यन्तरे त्व् अनृताव् अपि कालविसेषे स्नानम् उक्तम् ।

अष्टम्यां च चतुर्दश्यां दिवा पर्वणि मैथुनम् ।
कृत्वा सचेलं स्नात्वा तु वारुणीभिश् च मार्जयेत् ॥ इति ।

अत्र व्यासः ।

रात्रौ स्नानं न कुर्वीत दनं चैव विशेषतः ।
नैमित्तिकं तु कुर्वन्ति स्नानं दानं च रात्रिषु ॥

एतन् मध्यमयामाभिप्रायम् । यद् आह देवलः ।

महानिषा तु विज्ञेया मध्यस्थं प्रहरद्वयम् ।
तस्मात् स्नानं न कुर्वीत काम्यनैमित्तिकाद् ऋते ॥

पैठीनसीर् अपि।

अपेयं हि सदा तोयं रात्रिमध्यमयामयोः ।
स्नानं चैव न कर्तव्यं तथैवाचमनक्रिया ॥ इति ।

अनेन महानिशायाम् एव स्नाननिषेधाद् अन्यत्र रात्राव् अप्य् अविरुद्धम् इति गम्यते । अत एव पराशरः ।

महानिशा तु विज्ञेया मध्यस्थं प्रहरद्वयम् ।
प्रदोषपश्चिमौ यामौ दिनवत् स्नानम् आचरेत् ॥ इति ।

एतद् अप्य् आपद्विषयम् । यद् आह स एव ।

दिवाकरकरैः पूतं दिवा स्नानं प्रशस्यते ।
अप्रशस्तं निशास्नानं राहोर् अन्यत्र दर्शनात् ॥

अहनि स्नाने संभवति रात्राव् अप्रशस्तम् इत्य् अर्थः । राहुदर्शनग्रहणं संक्रान्त्यादेर् अपि प्रदर्शनार्थम् । अत एव देवलः ।

राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु ।
स्नानदानादिकं कुर्यान् निशि काम्यव्रतेषु च ॥

अत्ययो मरणम् । वृद्धिर् जननम् । योगयाज्ञवल्क्यो ऽपि ।

ग्रहणोद्वाहसंक्रान्तियात्रार्तिप्रसवेषु च ।
स्नानं नैमित्तिकं ज्ञेयं रात्राव् अपि तद् इष्यते ॥ इति ।

आर्तिर् मरणम् । पराशरो ऽपि ।

पुत्रजन्मनि यज्ञे च तथा संक्रमणे रवेः ।
राहोश् च दर्शने स्नानं प्रशस्तं नान्यथा निशि ॥

यज्ञे ऽवभृथे । रात्रिस्नाने तु विशेषम् आह यमः ।

विप्रः स्पृष्टो निशायां तु उदक्यापतितेन वा ।
दिवानीतेन तोयेन स्नापयेद् अग्निसंनिधौ ॥ इति ।

तोयेन स्वर्णसहितेनेति शेषः । तथा च पराशरः ।

दिवाहृतं तु यत् तोयं कृत्वा स्वर्णयुतं तु तत् ।
रात्रौ स्नाने तु संप्राप्ते स्नायाद् अनलसंनिधौ ॥ इति ।

यदि दिवाहृतं न संभवति तदा विशेषम् आह मरीचिः ।

दिवाहृतं तु यत् तोयं ग्र्हे यदि न विद्यते ।
प्रज्वाल्याग्निं ततः स्नायान् नदीपुष्करिणीषु च ॥

कात्यायनो ऽपि ।

प्रवेशाद् वरुणस्याप्सु न रात्रौ जलम् उद्धरेत् ।
अन्यत्र धाम्नि इत्य् एव तत्रस्थे स्नानम् इष्यते ॥

धाम्नो धाम्न इति समन्त्रोद्धरणाद् अन्यत्र रात्रौ जलं नोद्धरेद् इत्य् अर्थः । अत्रापि विशेषम् आह पराशरः ।

यदि गेहे न तोयं स्यात् तावच् छुद्दिः कथं भवेत् ।
धाम्नो धाम्नेति मन्त्रेण गृह्णीयाद् अग्निसंनिधौ ॥
रात्रौ गृहांशुभिः पूतं दिवा पूतं तु भानुना ।
अनेनैव विशुद्ध्येत यथा रात्रौ तथा दिवा ॥

अत्र ब्रह्माण्डपुराणम् ।

नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानम् उच्यते ।
तर्पणं तु भवेत् तस्य अङ्गत्वेन प्रकीर्तितम् ॥ इति ।

नैमित्तिके ऽप्य् अस्य क्वचिद् अपवादम् आह आपस्तम्बः ।

अस्पृश्यस्पर्शने वान्ते अश्रुपाते क्षुरे भगे ।
स्नानं नैमित्तिकं कार्यं दैवपित्र्यविवर्जितम् ॥

अत्र विशेषम् आह विष्णुः ।

स्नानार्हो यो निमित्तेन कृत्वा तोयावगाहनम् ।
आचम्य प्रयतः पश्चात् स्नानं विधिवद् आचरेत् ॥

कृत्वावगाहनं तूष्णीम् इति शेषः । तथा च योगयाज्ञवल्क्यः ।

तूष्णीम् एवावहाहेत यदा स्याद् असुचिर् नरः ।
आचम्य प्रयतः पश्चात् स्नानं विधिवद् आचरेत् ॥

अत्र वृद्धशातातपः ।

चण्डालादेस् तु संस्पर्शे वारुणं स्नानम् आचरेत् ।
इतराणि तु चत्वारि यथायोगं स्मृतानि वै ॥

इतराणि ब्राह्मादीनि । योगयाज्ञवल्क्यो ऽपि ।

प्रायश्चित्ते समुत्पन्ने स्नानम् एव विधीयते ।
पूर्वोद्दिष्टैस् तथा मन्त्रैर् अन्यथा मार्जनं स्मृतम् ॥ इति ।

अन्यथा नित्यस्नाने । वारुणे तु विशेषम् आह गर्गः ।

कुर्यान् नैमित्तिकस्नानं शीताद्भिः काम्यम् एव च ।
नित्यं यादृच्छिकं चैव यथारुचि समाचरेत् ॥ इति ।

यादृच्छिकं मलापकर्षणार्थम्,

मलव्यपोहनफलं स्नानं यादृच्छिकं तु तत् ।

इति तेनैवोक्तत्वात् । आतुरस्नानं प्रकृत्य पराशरः ।

आतुरस्नान उत्पन्ने दशकृत्वो ह्य् अनातुरः ।
स्नात्वा स्नात्वा स्पृशेद् एनं ततः शुद्ध्येत् स आतुरः ॥
स्नाने नैमित्तिके प्राप्ते नारी यदि रजस्वला ।
पात्रान्तरिततोयेन स्नानं कृत्वा व्रतं चरेत् ॥
सिक्तगात्रा भवेद् अद्भिः साङ्गोपाङ्गा कथंचन ।
न वस्त्रपीडनं कुर्यान् नान्यद् वासश् च धारयेत् ॥

आतुरो रोगी । उशनापि ।

ज्वराभिभूता या नारी रजसा च परिप्लुता ।
कथं तस्या भवेच् छौचं शुद्धिः स्यात् केन कर्मणा ॥
चतुर्थे ऽहनि संप्राप्ते स्पृशेद् अन्या तु ताम् स्त्रियम् ।
सहसा सा विगाह्यापः स्नात्वा स्नात्वा पुनः स्पृशेत् ॥
दशद्वादशकृत्वो वा आचामेच् च पुनः पुनः ।
अन्ये तु वाससां त्यागस् ततः शुद्धा भवेत् तु सा ॥
दद्याच् छक्त्या ततो दानं पुण्याहेन विसुद्ध्यति ॥ इति ।

तथा सूतिकामरणे स्मृत्यन्तरे विशेषो दर्शितः ।

सूतिकायां मृतायां तु कथं कुर्वन्ति याज्ञिकाः।
कुम्भे सलिलम् आदाय पञ्चगव्यं तथैव च ॥
पुण्याभिर् अभिमन्त्र्यापो वाचा शुद्धिं लभेत् ततः ।
तेनैव स्नापयित्वा तु दाहं कुर्याद् यथाविधि ॥

रजस्वलामरणे तु ।

पञ्चभिः स्नापयित्वा तु गव्यैः प्रेतां रजस्वलाम् ।
वस्त्रान्तरावृतां कृत्वा दाहयेद् विधिपूर्वकम् ॥ इति ।

अत्र शातातपः ।

ग्रामे तु यत्र संस्पृष्टिर् यात्रायां कलहादिषु ।
ग्रामसंदूषणे चैव स्पृष्टिदोषो न विद्यते ॥

ग्रामे राजमार्गादौ । षट्त्रिंशन्मते ऽपि ।

देवयात्राविवाहेषु यज्ञेषु प्रकृतेषु च ।
उत्सवेषु च सर्वेषु स्पृष्ट्वा स्पृष्टिर् न विद्यते ॥

बृहस्पतिर् अपि ।

तीर्थे विवाहे यात्रायां संग्रामे देशविप्लवे ।
नगरग्रामदाहे च स्पृष्ट्वा स्पृष्टिर् न दुष्यति ॥

एतच् च वाक्यत्रयं यत्राहम् अनेन स्पृष्ट इति ज्ञानं नास्ति तद्विषयम् इति केचित् । उच्छिष्टाशुचिस्पर्शनविषयम् इत्य् अन्ये । तत्र आपस्तम्बः - “शक्तिविषये न मुहूर्तम् अप्य् अप्रयतः स्यात्” इति ।

**इति स्मृतिचन्द्रिकायां नैमित्तिकस्नानि **