०८ स्नानभेदाः

अथ स्नानभेदाः

तत्र शङ्खः ।

स्नानं तु द्विविधं प्रोक्तं गौणमुख्यप्रभेदतः ।
तयोस् तु वारुणं मुख्यं तत् पुनः षड्विधं भवेत् ॥
नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम् ।
क्रियास्नानं तथा षष्ठं प्रोढा स्नानं प्रकीर्तितम् ॥ इति ।

एतेषां लक्षणम् आह स एव ।

अस्नातस् तु पुमान् नार्हो
जप्याग्निहवनादिषु ।
प्रातःस्नानं तदर्थं तु
नित्यस्नानं प्रकीर्तितं ॥
चण्डाल-शव-धूमादि
स्पृष्ट्वा स्नातां रजस्वलाम् ।
स्नानार्हस् तु यदा स्नायात्
स्नानं नैमित्तिकं हि तत् ॥
पुष्यस्नानादिकं यत् तु
दैवज्ञ-विधि-चोदितम् ।
तद् धि काम्यं समुद्दिष्टं
न??कामस् तत् प्रयोजयेत् ॥

दैवज्ञो ज्योतिर्वित् ।

पुष्टिकामः पवित्राणि ह्य् अर्चिष्यन् देवताः पितॄन् ।
स्नानं समाचरेद् यस् तु क्रियाङ्गं तत् प्रकीर्तितम् ॥
मलपकर्षणं नाम स्नानम् अभ्यङ्गपूर्वकम् ।
मलापकर्षणार्थं तु प्रवृत्तिस् तस्य नान्यथा ॥
सरःसु देवखातेषु तीर्थेषु च नदीषु च ।
क्रियास्नानं समुद्दिष्टं स्नानं तत्र मता क्रिया ॥

स्नानम् एव तत्र क्रियाङ्गतया विहितम् इत्य् अर्थः । गोबिलो ऽपि ।

नित्यं सतत-निर्वृत्तं
काम्यं कामाय यद् +धितम् ।
निमित्ताद् उपजातं तु
स्नानं नैमित्तिकं स्मृतम् ॥

इति ।

अनेन माध्यन्दिनस्ननस्यापि नित्यत्वम् उक्तं भवति, तस्यापि सततनिर्वर्त्यत्वात् । तथा च वैयाघ्रपादः ।

प्रतःस्नायी भवेन् नित्यं मध्यस्नायी भवेद् इति । इति ।

इति स्मृतिचन्द्रिकायां स्नानप्रभेदाः

अवसरप्राप्तं नित्यस्नानम्

अथावसरप्राप्तं नित्यस्नानम् उच्यते

क्रमः

तत्र शौनकः ।

प्रातर् आचमनं कृत्वा
शौचं कृत्वा यथार्थवित् ।
दन्तशौचं ततः कृत्वा
प्रातःस्नानं समाचरेत् ॥ इति ।

अत्राचमनं कृत्वेति दन्तशौचे ऽपि संबध्यते । तथा च कूर्मपुराणम् ।

प्रक्षाल्य दन्तकाष्ठं वै
भक्षयित्वा विधानतः ।
आचम्य प्रयतो नित्यं
प्रातःस्नानं समाचरेत् ॥

इति ।

प्रामुख्यम्

अत्र दक्षः ।

अस्नात्वा नाचरेत् कर्म
जपहोमादि किंचन ।
लाला-स्वेद-समाकीर्णः
शयनाद् उत्थितः पुमान् ॥

अत्यन्त-मलिनः कायो
नव-च्छिद्र-समन्वितः ।
स्रवत्य् एव दिवा रात्रौ
प्रातःस्नानं विशोधनम् ॥

प्रातःस्नानं प्रशंसन्ति
दृष्टादृष्ट-करं हितम् ।
सर्वम् अर्हति शुद्धात्मा
प्रातःस्नायी जपादिकम् ॥

सङ्क्षेपः

कात्यायनो ऽपि ।

यथाहनि तथा प्रातर्
नित्यं स्नायाद् अतन्द्रितः ।
दान्तान् प्रक्षाल्य नद्यादौ
गृहे वै तद् अमन्त्रवत् ॥

इति ।

अ-मन्त्रवद् इति सर्वथा मन्त्र-निषेध-परं न भवति । किं तु मन्त्र-बहुत्व-निषेधार्थम् ।+++(5)+++ यतः स एवाह ।

अल्पत्वाद् +धोम-कालस्य
बहुत्वात् स्नान-कर्मणः ।
प्रातः संक्षेपतः स्नानं
होम-लोपो विगर्हितः ॥

इति ।

मन्त्रः

तथा स्नानं चतुर्-विंशताव् उक्तम् ।

स्नानम् अब्-दैवतैर् मन्त्रैर्
वारुणैश् च मृदा सह ।
कुर्याद् व्याहृतिभिर् वाथ
यत् किंचिद् एवम् ऋचापि वा ॥
द्रुपदाद् इति वा स्नायाज्
जुम्बुकायेति वा पुनः ।
पुण्यानि च स्मरेत् तीर्थान्य्
उशना मुनिर् अब्रवीत् ॥

कालः

अत्र कलनियमम् आह जाबालिः ।

सततं प्रातर् उत्थाय
दन्त-धावन-पूर्वकम् ।
आचरेद् उषसि स्नानं
तर्पयेद् देव-मानुषान् ॥ इति ।

विष्णुर् अपि - “प्रातःस्नाय्य् अरुण-कर-ग्रस्तां प्राचीम् अवलोक्य स्नायात्” इति । यत् तु चतुर्विंशताव् उक्तम्,

उषस्य् उषसि यत् स्नानं
संध्यायाम् उदिते ऽपि वा ।
प्राजाप्त्येन तत् तुल्यं
सर्व-पाप-प्रणाशनम् ॥

इति, तद् अपि वैष्णवेन समानार्थम् । यत् संध्यायां स्नानं - तद् अप्य् उषसि, यदि वोदिते उद्गते उदयाभिमुख इति, तस्याप्य् उषः काल-परत्वात् । युक्तं चैतत् । अन्यथा “प्रातःसंध्यां सनक्षत्राम्” इत्यदि-विरोधः स्यात्, अ-स्नातस्य संध्याद्य्-अनधिकारात् ।

यद् आह विष्णुः -

स्नातो ऽधिकारी भवति
दैवे पित्र्ये च कर्मणि ।
पवित्राणां तथा जप्ये
दाने च विधि-चोदिते ॥

दक्षो ऽपि -

स्नान-मूलाः क्रियाः सर्वाः
संध्योपासनम् एव च ।
तस्मात् सर्व-प्रयत्नेन
स्नानं कुर्यात् समाहितः ॥

इति ।

यद्य् एवं तर्ह्य् एतद् वचन-बलाद् एव संध्याप्य् उत्कृष्यताम् +++(→पश्चात् क्रियताम्?)+++ । मैवम्,

संधौ संध्याम् उपासीत
नास्तगे नोदिते रवौ ।

इति योगयाज्ञवल्क्येन +उदित-निषेध-स्मरणात्, तथा,

रात्र्य्-अन्त-याम-नाडी द्वे
संध्यादिः काल उच्यते ।
दर्शनाद् रवि-रेखायास्
तद्-अन्तो मुनिभिः स्मृतः ॥

इति दक्षेण काल-नियमाच् च । रवि-रेखा-दर्शनाद् उपलक्षितः कालः संध्यान्त इत्य् अर्थः । अतः पूर्वोक्तैव व्याख्या ज्यायसी ।

तर्पणम्

अत्र ब्रह्माण्ड-पुराणम् -

नित्यं नैमित्तिकं काम्यं
त्रिविधं स्नानम् उच्यते ।
तर्पणं तु भवेत् तस्य
(+)अङ्गत्वेन प्रकीर्तितम् ॥

अतः स्नानानन्तरं तर्पयेद् इति भावः । यत् तु चतुर्विंशतिमते,

स्नानाद् अनन्तरं तावत्
तर्पयेत् पितृ-देवताः ।

इति, तत्र विशेषम् आह यमः ।

द्वौ हस्तौ युग्मतः कृत्वा
पूरयेद् उदकाञ्जलिम् ।
गो-शृङ्ग-मात्रम् उद्धृत्य
जल-मध्ये जलं क्षिपेत् ॥

इति ।

यत् तु व्याघ्रेणोक्तम्,

उभाभ्याम् अथ हस्ताभ्याम्
उदकं यः प्रयच्छति ।
स मूढो नरकं याति
काल-सूत्रम् अवाक्-छिराः ॥

इति, तच् छ्राद्ध-विषयम् ।

तथा च कार्ष्णाजनिः -

श्राद्धे विवाहकाले च
पाणिनैकेन दीयते ।
तर्पणे तूभयेनैव
विधिर् एष सनातनः ॥

इति ।

पितृ-तर्पणं प्रकृत्य स एवाह ।

नाभिमात्रे जले स्थित्वा
चिन्तयन्न् ऊर्ध्व-मानसः ।
आगच्छन्तु मे पितरो
गृह्णन्त्व् एतान् पयो ऽञ्जलीन् ॥
पितॄणाम् अम्बर-स्थानाम्
अभ्यस्थो दक्षिणामुखः ।
त्रींस् त्रीञ् जलाञ्जलीन् दद्याद्
उच्चैर् उच्चतरान् बुधः ॥

इति ।

तत्र विशेषः स्मृत्यन्तरे दर्शितः ।

बाहुपूर्णं तिलैः कृत्वा
जलस्थस् तर्पयेत् पितॄन् ।
स्थल-स्थेन न कर्तव्यं
पितॄणां तृप्तिम् इच्छता ॥

इति ।

एवं च यद् उक्तं गोबिलेन,

रोम-संस्थांस् तिलान् कृत्वा
यस् तु तर्पयते पितॄन् ।
पितरस् तर्पितास् तेन
रुधिरेण मलेन च ॥

इति, तत् स्थल-तर्पण-विषयम् इत्य् अवगन्तव्यम् ।

ननु चात्र कथं पितृतर्पणम्, “तर्पयेद् देव-मानुषान्” इति जाबालि-स्मरणात्, “अपराह्णं पितॄणाम्” इति श्रुतेर् मध्यन्-दिन-स्नाने देव-तर्पणं न स्यात् । न चैवम् अस्त्व् इति वाच्यम्,

स्नाने चैव तु सर्वत्र
तर्पयेत् पितृ-देवताः।
काम्ये नित्ये विशेषेण
तत् प्रकुर्यात् प्रयत्नतः ॥

इति व्याघ्र-स्मरणात् ।

अत्र +++(“अपराह्णं पितॄणाम्” इत्यादि)+++ श्रुति-द्वयं तर्पण-व्यतिरिक्त-विषयम् इत्य् अवगन्तम्यम्। किं चाकरणे ऽपि दोषो वसिष्ठेन दर्शितः ।

नास्तिक्य-भावाद् यः स्नात्वा
न तर्पयति वै पितॄन् ।
पिबन्ति देह-निःस्रावं
पितरो ऽस्य जलार्थिनः ॥

इति ।

देह-निः-स्रावो रुधिरम् । भारद्वाजः ।

वस्त्रोदकम् अपेक्षन्ते
ये मृता दश-वर्गिणः ।
तस्मात् सर्व-प्रयत्नेन
जलं भूमौ निपातयेत् ॥

इति ।

उत्तीर्य किंचित् कालं तिष्ठेद् इत्य् अर्थः । ततः स्नान-वस्त्रं निष्पीडयेद् इति । तथा च पुलस्त्यः ।

कृत्वा तर्पणम् एवं तु
समुत्तीर्य जलाशयात् ।
पीडयेत् स्नान-शाटीं तु
तट एव विचक्षणः ॥

कार्ष्णाजनिर् अपि ।

स्नान-वस्त्रं ततः पीड्य
पुनर् आचमनं चरेत् ।

ये के चास्मत्-कुले जाता
अपुत्रा गोत्रिणो मृताः ॥
ते गृह्णन्तु मया दत्तं
वस्त्र-निष्पीडनोदकम् ॥

इति ।

अयं वस्त्र-निष्पीडनोदक-मन्त्रः ।

वस्त्रधरणम्

अत्र मत्स्यपुराणम् ।

एवं स्नात्वा ततः पश्चाद्
आचम्य विधिवत् पुनः ।
उत्थाय वाससी शुक्ले
शुद्धे तु परिधाय वै ॥

“द्विर् आचामेद्” इति शेषः । तथा च व्याघ्रः -

नोत्तरीयम् अधः कुर्यान्
नोपर्य् आधस्त्यम् अम्बरम् ।
नान्तर्-वासो विना जातु
निवसेद् वसनं बुधः ॥
न चानुलिम्पेद् अस्नात्वा
स्नात्वा वासो न निर्धुनेत् ।
आर्द्र एव तु वासांसि
स्नात्वा सेवेत मानवः ॥

इति ।

मृदम्भसा शोधनम्

ततो मृदम्भसा जङ्घे शोधयेत् । तद् आह जाबालः ।

स्नात्वा निरस्य वस्त्रं तु
जङ्घे शोध्ये मृद्-अम्भसा ।
अ-पवित्री-कृते ते हि
कौपीनास्राव-वारिणा ॥

इति ।

अ-पवित्री-कृते इति हेत्व्-अभिधानाज् जङ्घाग्रहणम् अपवित्रीकृताङ्गोपलक्षणार्थम् । अत एव योग-याज्ञवल्क्यः -

स्नात्वैवं वाससी धौते
अच्छिन्ने परिधाय च ।
प्रक्षाल्योरू मृदाद्भिश् च
हस्तौ प्रक्षालयेत् ततः ॥

इति ।

अपमार्जनम्

अत्र मार्कण्डेयपुराणम् ।

अपमृज्यान् न च स्नातो
गात्राण्य् अम्बर-पाणिभिः ।
न च निर्धूनयेत् केशान्
वासश् चैव न निर्धुनेत् ॥

अत्र हेतुम् आह गोबिलः ।

पिबन्ति शिरसो देवाः
पिबन्ति पितरो मुखात् ।
मध्यतः सर्व-गन्धर्वा
अधस्तात् सर्वजन्तवः ।
तस्मात् स्नातो नाप-मृज्यात्
स्नान-शाट्या न पाणिना ॥

व्यासो ऽपि ।

तिस्रः कोट्यो ऽर्धकोटी च
यावन्त्य् अङ्गरुहाणि वै ।
स्रवन्ति सर्व-तीर्थानि
तस्मान् न परिमार्जयेत् ॥

अत्र वसिष्ठः ।

स्नान-शाट्यां न दातव्या
मृदस् तिस्रो निशुद्धये ।
उत्तीर्य तां च निष्पीड्य
ततः शेषं समापयेत् ॥

फलम्

एवं कुर्वतः फलम् आह दक्षः ।

प्रातर् उत्थाय यो विप्रः
प्रतः स्नायी सदा भवेत् ।
सप्त-जन्म-कृतं पापं
त्रिभिर् वर्षैर् व्यपोहति ॥

शौनको ऽपि ।

प्रातर् उत्थाय यो विप्रः
प्रातःस्नायी सदा भवेत् ।
सर्व-पाप-विनिर्मुक्तः
परं ब्रह्माधिगच्छति ॥

इति

इति स्मृतिचन्द्रिकायां प्रातःस्नानविधिः