०७ स्नानप्रशंसा

अथ स्नानप्रशंसा

अत्र योगयाज्ञवल्क्यः ।

अगम्यागमनात् स्तेयात् पापेभ्यश् च प्रतिग्रहात् ।
रहस्याचरितात् पापान् मुच्यते स्नानम् आचरन् ॥
मनःप्रसादजननं रूपसौभाग्यवर्धनम् ।
शोकदुःस्वप्नहं स्नानं मोक्षदं ज्ञानदं तथा ॥
स्नानमूलाः क्रियाः सर्वाः श्रुतिस्मृत्युदिता नृणाम् ।
तस्मात् स्नानं निषेवेत श्रीपुष्ट्यारोग्यवर्धनम् ॥
याम्यं हि यातनादुःखं नित्यस्नायी न पश्यति ।
नित्यस्नानेन पूयन्ते ये ऽपि पापकृतो जनाः ॥
गुणा दश स्नानपरस्य साधोः रूपं च तेजश् च बलं शौचम् ।
आयुष्यम् आरोग्यम् अलोलुपत्वं दुःस्वप्नघातश् च तपश् च मेधा ॥

सत्यव्रतो ऽपि ।

बलं रूपं यशो धर्मं ज्ञानम् आयुः सुखं धृतिम् ।
आरोग्यं परम् आप्नोति सम्यक् स्नानेन मानवः । इति ।

इति स्मृतिचन्द्रिकायां स्नानप्रशंसा