अथ सायंसंध्या
तत्र व्यासः ।
सूर्ये ऽस्तशिखरं याते पादशौचक्रियान्वितः ।
बहिः संध्याम् उपासीत कुशपाणिः समाहितः ॥ इति ।
अस्तशिखरं प्राप्ते ऽर्धास्तमित इत्य् अर्थः । अत एव संवर्तः ।
प्रातःसंध्यां सनक्षत्राम् उपासीत यथाविधि ।
सादित्यां पश्चिमां संध्याम् अर्धास्तमितभास्कराम् ॥
अत्र विशेषम् आह आपस्तम्बः - “संध्ययोश् च बहिर् ग्रामाद् आसनं वाग्यतश् च विप्रतिषेधे श्रुतिलक्षणं बलीयः” इति ।
अहोत्रात्रसंध्ययोर् ग्रामाद् बहिर् वाग्यतस्य संध्योपासनं भवति । यस्य तु बहिःसंध्यात्वे श्रुतिलक्षणविहरणाङ्गबाधस् तस्य गृहे ऽपि संध्याद्वयम् अविरुद्धम् इत्य् अर्थः । अत एव अत्रिः ।
संध्याद्वयं तु कर्तव्यं द्विजेनात्मविशुद्धये ।
उभे संध्ये तु कर्तव्ये ब्राह्मणैः स्वगृहेष्व् अपि ॥ इति ।
अत्र व्यासः ।
बहिःसंध्या दशगुणा गर्तप्रस्रवणेषु च ।
ख्याततीर्थे शतुगुणा सहस्रं जाह्नवीजले ॥
शातातपो ऽपि ।
अनृतं मद्यगन्धं च दिवामैथुनम् एव च ।
पुनाति वृषलस्यान्नं बहिःसंध्याभ्युपासितम् ॥
वसिष्ठो ऽपि ।
गृहे त्व् एकगुणा संध्या गोष्ठे शतगुणा स्मृता ।
शतसाहस्रिका नद्याम् अनन्ता विष्णुसंनिधौ ॥ इति ।
अत्र “अनन्ता शिवसंनिधौ” इति शातातपीयो विशेषः । अत्रायं प्रयोगः - कृतप्राणायामः सायंसंध्याम् उपासिष्य इति संकल्प्य पूर्ववन् मार्जनान्ते “अग्निश् च” इत्य् अपः पिबेत् । तद् आहतुः क्रमेण याज्ञवल्क्यशौनकौ ।
प्राणान् आयम्य संप्रोक्ष्य ऋचेनाब्दैवतेन तु ।
सायम् अग्निश् च मेत्य् उक्त्वा प्रतः सूर्येत्य् अपः पिबेत् ॥
तस्य प्रकृतिः छन्दः । सूर्य ऋषिः । अगिनिमनुमनुपत्यहानि (?) देवता । सायंसम्ध्याचमने विनियोगः । ततो मार्जनादि समानम् आ गायत्रीजपात् । तत्र विशेषम् आह व्यासः ।
प्रत्यङ्मुखोपविष्टस् तु वागयतः सुसमाहितः ।
प्रणवव्याहृतियुतां गायत्रीं तु जपेत् ततः ॥
अक्षसूत्रं समादाय सम्यग् आ तारकोदयात् ।
शङ्खो ऽपि - “कुशब्रुस्यां समासीनः कुशोत्तरायां वा कुशपवित्रपाणिर् उदङ्मुखः सूर्याभिमुखो वा अक्षमालाम् आदाय देवतां ध्यायञ् जपं कुर्यात्” इति । ब्रुसी आसनम् । कुशोत्तरा कुशच्छन्ना । देवता चात्र गायत्रीप्रतिपद्या, “मौनं मन्त्रार्थचिन्तनम्” इति बृहस्पतिस्मरणात् । ततः पूर्ववद् गायत्रीविसर्जनान्तं कृत्वा स्वशाखाधीतैर् मन्त्रैर् आदित्यम् उपतिष्ठेत,
उपस्थानं स्वकैर् मन्त्रैर् आदित्यस्य तु कारयेत् ।
इत्य् वसिष्ठस्मरणात् । ते च मन्त्रा नारायणेन दर्शिताः - “वारुणीभिर् आदित्यम् उपस्थाय प्रदक्षिणं कुर्वन् दिशो नमस्कुर्याद् दिगीशांश् च पृथक् पृथक्” इति । वारुण्यश् च “इमं मे वरुण”, “तत्वा (?) यामि”, “यच्चिद् धिते”, “यक्तिं चेदम्”, “कित वासः” इति । तासां प्रथमागृतीययोर् गायत्री छन्दः । द्वितीयापञ्चम्योस् त्रिष्टुब् छन्दः । चतुर्थी जगती । आद्यानां तिसृणां शुनःशेफ ऋषिः । अनन्त्रयोः क्रमेण वसिषात्री । वरुणो देवता । आदित्योपस्थाने विनियोगः । बोधायनस् तु गायत्रीजपान्ते रात्र्युपस्थानम् आह - “वारुणीभ्यां रात्रिम् उपतिष्ठत इमं मे वरुण तत् त्वा यामीति द्वाभ्याम्” इति । अत्र अङ्गिराः ।
उभे संध्ये तु यो विप्रो मौनम् आस्ते समाहितः ।
दिव्यं वर्षसहस्रं तु ब्रह्मलोके महीयते ॥ इति ।
इति स्मृतिचन्द्रिकायां सायंसंध्यविधिः