४९ मध्याह्नसंध्या

अथ मध्याह्नसंध्या

तत्र शङ्खः ।

प्रातः संध्यां मध्यमां स्नानकर्मणि ।
सादित्यां पश्चिमां संध्याम् उपासीत यथविधि ॥

स्नानकर्मणि माध्यन्दिनस्नानानन्तरम् इत्य् अर्थः । अत्रायं प्रयोगः । कृतस्ननस् त्व् आचान्तो यथाविधि प्राणान् आयम्य मध्याह्नसंध्याम् उपासिष्ये इति संकल्प्य पूर्ववद् अपो हिष्ठेति तृचेन याजयित्वापः पुनन्त्व् इत्य् अपः पिबेत् । तस्यानुष्टुब् छन्दः । विष्णुः ऋषिः, अपो देवता, मध्याह्नसंध्याचमने विनियोगः । ततो मार्जनादि सर्वं प्रातःसंध्यावद् आ सावित्रीजपात् । अत्र विशेषः कूर्मपुराणे दर्शितः ।

ततो मध्याह्नसंध्यायाम् असीनः प्राङ्मुखो जपेत् ।
स्थितो जपेत् सदादालम् आदित्याभिमुखो द्विजः ॥ इति ।

स्थितश् चेद् आदित्याभिमुखो जपेद् इत्य् अर्थः । अत एव योगयाज्ञवल्क्यः ।

तिष्ठंश् चेद् वीक्षमाणो ऽर्कम् आसीनः प्राङ्मुखो जपेत् ।

अत्रापि स्वशाखोदितैर् मन्त्रैर् आदित्यम् उपतिष्ठेत्,

उपस्थानं स्वकैर् कर्मैर् आदित्यस्य तु कारयेत् ।

इति वसिष्ठस्मरणात् । एतत् सर्वं नारायणोक्तम् ।

उपवीती बद्धशिखः समाचम्य यथागमम् ।
पवित्रपाणिः स्ॐकरं यज्ञेशं मनसा स्मरेत् ॥
प्रातःसंध्याविधानेन छन्द आर्षं च दैवतम् ।
स्मृत्वा चाचम्य च प्राणान् आयमेद् दर्भपाणिना ॥
आपः पुनन्तु मन्त्रेण आपो तिष्ठेति मार्जनम् ।
प्रक्षिप्य चाञ्जलिं सम्यग् उद् उ त्यं चित्रम् इत्य् अपि ॥
तच् चक्षुर् देवहितं च हंसः शुचिषद् इत्य् अपि ।
एतज् जपेद् ऊर्धवाहुः सूर्यं पश्यन् समाहितः ॥
गायत्र्या तु यथाशक्ति उपस्थाय दिवाकरम् ।
नोच्चैर् जप्यं बुधः कुर्यात् सावित्र्या च विसेषतः ॥ इति ।

कूर्मपुराणे तत्स्नानमध्य एव संध्याचमनाद्य् उक्तम् ।

ततो मध्याह्नसमये स्नानार्थं मृदम् आहरेत् ।
पुष्पाक्षतान् कुशतिलान् गोमयं शुद्धम् एव च ॥
मृदैकया शिरः क्षाल्यं द्वाभ्यां नाबेस् तथोपरि ।
अधश् च तिसृभिः कायं पादौ षड्भिस् तथैव च ॥
मृत्तिका च समुद्दिष्टा त्व् आर्द्रामलकमत्रिका ।
गोमयस्य प्रमाणं तत् तेनाङ्गं लेपयेत् ततः ॥
प्रक्षाल्याचम्य विधिवत् ततः स्नायात् समाहितः ।
अभिमन्त्र्य जलं मन्त्रैर् अब्लिङ्गैर् वारुणैः शुभैः ॥
भावपूतस् तद् अव्यक्तं धारयेद् विष्णुम् अव्ययम् ।
आपो नारा इति प्रोक्तास् ता एवास्यायनं पुनः ॥
तस्मान् नारायणं देवं स्नानकाले स्मरेद् बुधः ।
प्रेक्ष्य स्ॐकारम् आदित्यं त्रिर् निमज्ज्य जलाशये ॥
आचान्तः पुनर् आचामेन् मन्त्रेणानेन मन्त्रवित् ।
अन्तश् चरसि भूतेषु गुहायां विश्वतोमुखः ॥
त्वं यज्ञस् त्वं वषट्कार आपो ज्योती रसो ऽमृतम् ।
ततः संमार्जनं कुर्याद् आप् हिष्ठा मनोभुवः ॥
इदम् आपः प्रवहत व्याहृतीभिस् तथैव च ।
ततो ऽभिमन्त्र्य तत् तोयम् आप् हिष्टादिमन्त्रकैः ॥
अन्तर्जलगतो मग्नो जपेत् त्रिर् अघमर्षणम् ।
अथोपतिष्ठेद् अदित्यम् ऊर्ध्वं पुष्पान्वितं जलम् ॥
प्रक्षिप्यालोकयेद् देवम् उद् वयं तमसः परि ।
उद् उ त्यं चित्रम् इत्य् एतत् तच् चक्षुर् इति मन्त्रतः ॥
हंअः शुचिषिद् इत्य् एव सावित्र्या च विशेषतः ।
अन्यैश् च वैदिकैर् मन्त्रैः सौरैः पापप्रणाशनैः ॥
सावित्रीं वै जपेत् पश्चाज् जपयज्ञः स वै स्मृतः । इति ।

बोधायनो ऽपि -

अथ हस्तौ प्रक्षाल्य कमण्डुलुं मृत्पिण्डं च परिगृह्य तीर्थे गत्वा त्रिः पदौ प्रक्षालयेत् त्रिर् आत्मानम् । अथापो ऽभिप्रतिपद्यते हिरण्यशृङ्गं वरुणम् इति । अथाञ्जलिना अप उपहन्ति सुमित्रा न आप ओषधयः सन्त्व् इति । तां दिशं निरुक्षति यस्याम् अस्य दिशि द्वेष्यो भवति दुर्मित्रास् तस्मै भूयासुर् इति । अथाप उपस्पृश्य त्रिः प्रदक्षिणम् उदकम् आवर्तयति यद् अपां क्रूरम् इति । अप्सु निमज्ज्य उत्तीर्य चाचान्तः पुनर् आचामेत् आपः पुनन्तु इति । पवित्रे कृत्वाद्भिर् मार्जयित्वापो हिष्ठेति तिसृभिर् हिरण्यवर्णां इति चतसृभिः पवमानः सुवर्जन इत्यान्तेनानुवाकेनामार्जयित्वान्तर्जलगतो ऽघमर्षणेन त्रीन् प्राणायामान् धारयित्वा उत्तीर्य वासः पीडयित्वा प्रक्षालितोपवाताक्लिष्टानि वासांसि परिधायाचम्य दर्भेष्व् आसीनो धर्भान् धारयमाणः प्राङ्मुखः सावित्रीं सहस्रकृत्व आवर्तयेत् । इति ।

इति स्मृतिचन्द्रिकायां माध्यन्दिनसंध्यानिर्णयः