३३ गायत्रीजपविषयाः

गायत्रीजपविषयाः

अथान्यान्य् अपि गायत्रीजपविषयाण्य् एव कानिचिद् वचनानि लिख्यन्ते । तत्र मनुः ।

सहस्रकृत्वस् त्व् अभ्यस्य बहिर् एतत् त्रिकं द्विजः ।
महतो ऽप्य् एनसो मासात् त्वचेवाहिर् विमुच्यते ॥

प्रणवो व्याहृतयः सावित्री चेति त्रिकम् । संवर्तो ऽपि ।

ब्रह्मचारी मिताहारः सर्वभूतानुकम्पनः ।
गायत्रीलक्षजापेन सर्वपापैः प्रमुच्यते ॥
अयाज्ययाजनं कृत्वा भुक्त्वा चान्नं विगर्हितम् ।
गायत्र्य् अष्टसहस्रं तु जपं कृत्वा विशुद्ध्यति ॥
ऐहितामुष्मिकं पापं सर्वं निरवशेषतः ।
पञ्चरात्रेण गायत्रीं जपमानो व्यपोहति ॥

चतुर्विंशतिमते ऽपि ।

गायत्र्यास् तु जपेत् कोटिं ब्रह्महत्यां व्यपोहति ।

वसिष्ठो ऽपि ।

गायत्र्यष्टसहस्रं तु जपं कृत्वोत्थिते रवौ ।
मुच्यते पातकैः सर्वैर् यदि न भ्रूणहा भवेत् ॥
लक्षाशीतिं जपेद् यस् तु सुरापानाद् विमुच्यते ।
पुनाति हेमहर्तारं गायत्रीलक्षसप्ततिः ॥
गायत्र्याः षष्टिभिर् लक्षैर् मुच्यते गुरुतल्पगः ॥

योगयाज्ञवल्क्यो ऽपि ।

यत्र यत्र च संकीर्णम् आत्मानं मन्यते द्विजः ।
तत्र तत्र तिलैर् होमो गायत्र्या जप एव वा ॥

यमो ऽपि ।

घृतयुक्तैस् तिलैर् वह्निं हुत्वा तु सुसमाहितः ।
गायत्र्याः प्रयतः शुद्धः सर्वपापैः प्रमुच्यते ॥
स्नायाच् छतेन गायत्र्याः शतम् अन्तर्जले जपेत् ।
अपः शतेन पीत्वा तु सर्वपापैः प्रमुच्यते ॥

व्यासो ऽपि ।

संवत्सरं वा षण्मासान् यो जपेद् विधिवद् द्विजः ।
सो ऽचिरात् सर्वकामांस् तु प्राप्नुयान् नात्र संशयः ॥

मार्कण्डेयो ऽपि ।

सर्वेषाम् एव पापानां संकरे समुपस्थिते ।
दशसाहस्रम् अभ्यस्ता गायत्री शोधनं परम् ॥ इति ।

इति स्मृतिचन्द्रिकायां गायत्रीविषयाः