३२ गयत्रीजपविधिः

अथ गयत्रीजपविधिः

तत्र मनुः ।

आचम्य प्रयतो नित्यम् उभे संध्या समाहितः ।
शुचौ देशे जपञ् जप्यम् उपासीत यथाविधि ॥

यथाशास्त्रम् इत्य् अर्थः । तत् कथम् इत्य् अपेक्षिते शङ्ख आह - “कुशब्रुस्यां समासीनः कुशोत्तरायां वा कुशपवित्रपाणिर् उदङ्मुखः सूर्याभिमुखो वाक्षमालाम् आदाय देवतां ध्यायन् जपं कुर्यात्” इति । ब्रुसी आसनम् । कुशोत्तरा कुसच्छदा । देवता चात्र गायत्रीप्रतिपाद्या, “मौनं मन्त्रार्थचिन्तनम्” इति बृहस्पतिस्मरणात् । तस्याश् चायम् अर्थः । देवस्य द्योतमानस्य सवितुर् आदित्यस्य संबन्धिभूतं तत् ब्रह्म भर्गस् तेजोरूपं वरेण्यं धीमहि ध्यायेमहीति संबन्धः, तच्छब्दस्य ब्रह्मवाचकत्वात् । तद् उक्तं भगवद्गीताउ ।

ॐ तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः । इति ।

य एवंविधः परमात्मा स नो ऽस्माकं धियो बुद्धिः दृष्टादृष्टार्थफलेषु कर्मसु प्रचोदयात् प्रेरयेत् इति । एवं च सवितृमण्डलान्तःस्थं हिरण्मयं पुरुषं ध्यायन् जपेद् इत्य् उक्तं भवति । उक्तं च गायत्रीजपधिकारे तु मर्कण्डेयेन ।

कुशब्रुस्यां निविष्टस् तु कुशपाणिर् जितेन्द्रियः ।
अर्कमध्यगतं ध्यायेत् पुरुषं तु महाद्युतिम् ॥ इति ।

अत्र शङ्खः ।

स्वरवर्णपदैर् वाक्यं सुद्धम् आवर्तयेज् जपन् ।
न कम्पयेच् छिरोग्रीवं दन्तान् नैव प्रदर्शयेत् ॥ इति ।

तच् च वाक्यं मनुनोक्तम् ।

एतद् अक्षरम् एतां च जपन् व्याहृतिपूर्विकाम् ।
संध्ययोर् वेदविद् विप्रो वेदपुण्येन युज्यते ॥ इति ।

एतद् अक्षरं प्रणवः । एतां गायत्रीम् । अत एव व्यासः ।

प्रणवव्याहृतियुतां गायत्रीं तु जपेत् ततः ।

प्रणवो ऽप्य् अत्र मन्त्रादौ द्रष्टव्यः । तथा च संवर्तः ।

प्रणवाद्यां तु संध्यायां जपेद् व्याहृतिभिः सह । इति ।

व्याहृतयो ऽप्य् अत्र भूराद्यास् तिस्र एव । योगयाज्ञवल्क्यस् त्व् अन्ये ऽपि प्रणवयोगम् आह ।

ॐकारं पूर्वम् उच्छार्य भूर् भुवः स्वस् तथैव च ।
गायत्रीं प्रणवं चान्ते जप एवम् उदाहृतः ॥ इति ।

एषा संपुटगायत्री । अत्र विशेषम् आह बोधायनः - “उभयतः प्रणवाम् सव्याहृतिकाम्” इति । गायत्रीम् आवर्तयेद् इत्य् अनुवर्तते । वृद्धमनुर् अपि ।

षड्ॐकारां जपन् विप्रो गायत्रीं मनसा शुचिः ।
अनेकजन्मजैः पापैर् मुच्यते नात्र संशयः ॥ इति ।

सा च किंलक्षणेत्य् अपेक्षिते स एवाह ।

तिस्रो व्याहृतयः पूर्वं षड्ॐकरसमन्विताः ।
पुनः संहृत्य च्ॐकारं मन्त्रस्याद्यन्तयोस् तथा ॥
स्ॐकारा चतुरावृत्त्या विज्ञेया सा शताक्षरा ।
शताक्षरां समावर्त्य सर्ववेदफलं लभेत् ।
एतया ज्ञातय नित्यं वाङ्मयं विदितं भवेत् ॥
उपासितं भवेत् तेन विश्वं भुवनसप्तकम् । इति ।

अस्यार्थः - स्ॐकारेत्य् अनेन व्याहृतीनां सङ्ख्याननुप्रवेशम् आह । एवं च्ॐकारेण सह पञ्चविंशत्यक्षरा चतुरावृत्त्या शताक्षरा संपद्यत इति । अत्र जपयज्ञं प्रकृत्य नृसिंहपुराणम् ।

त्रिविधो जपयज्ञः स्यात् तस्य भेदं निबोधत ।
वाचिकाख्य उपांशुश् च मानसस् त्रिविधः स्मृतः ॥
त्रयाणां जपयज्ञानां श्रेयान् स्याद् उत्ततोत्तरः ॥ इति ।

अत्र हारीतः ।

उच्चैस् त्व् एकगुणह् प्रोक्तो द्यानो (?) दशगुणः स्मृतः ।
उपांशुः स्याच् छतगुणः साहस्रो मानसः स्मृतः ॥

उच्चोपांशुत्वयोर् लक्षणं पुराणे दर्शितम् ।

यद् उच्चनीचस्वरितैः स्पष्टैः स्पष्टपदाक्षरैः ।
मन्त्रम् उच्चारयेद् वाचा जपयज्ञः स वाचिकः ॥
शनैर् उदीरयेन् मन्त्रम् ईषद् ओष्ठौ प्रचालयेत् ।
किंचिच् छब्दं स्वयं विद्याद् उपांशुः स जपः स्मृतः ॥

मानसस्य तु लक्षणं वैयाघ्रपादेनोक्तम् ।

यो भवेद् अचलच्जिह्वाद् अशनावरणो जपः ।
स मानसः समाख्यातो जपः श्रुतिपरायणैः ॥ इति ।

वर्णानुपलब्ध्या स्वरमात्रोपलब्धेर् ध्वानः (?) । यत् पुनर् व्यासेनोक्तम्,

नोच्चैर् जप्यं बुधः कुर्यात् सवित्र्यास् तु विशेषतः ।

इति, तन् मानसादिजपप्रसंसाभिप्रायम्, न पुनर् उच्चैस् त्व् अप्रतिषेधार्थम् । तथात्वे,

उपांशुजपयुक्तस्य संस्याच् छतगुणं भवेत् ।

इति वचनविरोधः स्यात् । शंस्य उच्चैर् जपः । अत्र जपनियमप्रकारम् आह शौनकः ।

कृत्वोत्तानौ करौ प्रातः सायं चाधोमुखौ ततः ।
मध्ये स्तब्धकराभ्यां तु जप एवम् उदाहृतः ॥

बृहस्पतिर् अपि ।

मनःसंहरणं शौचं मौनं मन्त्रार्थचिन्तनम् ।
अव्यग्रत्वम् अनिर्वेदो जपसंपत्तिहेतवः ॥

व्यासो ऽपि ।

न चङ्क्रमन् न च हसन् न पार्श्वान् अवलोकयन् ।
नापाश्रितो न जल्पंश् च न प्रावृतशिरास् तथा ॥
न पदा पदम् आक्रम्य न चैव हि तथा करौ ।
न चासमाहितमना न च संश्रावयञ् जपेत् ॥
होमा प्रैग्रहो दानं भोजनाचमने जपः ।
न बहिर्जानु कार्याणि साङ्गुष्ठानि सदाचरेत् ॥

सुमन्तुर् अपि ।

नाधोरत्निर् नान्यमना न च व्यत्यस्तपत्करः ।
अपवित्रकरो नग्नः शिरसि प्रावृतो ऽपि वा ॥
प्रलपन् वा जपेद् यावत् तावन् निष्फलम् उच्यते ।

शातातपो ऽपि ।

दर्भहीना च या संध्या यच् च दानं विनोदकम् ।
असङ्ख्यातं च यज् जप्यं तत् सर्वं स्यान् निरर्थकम् ॥

बोधायनो ऽपि - “नाभेर् अधः स्पर्सनं कर्मसंयुक्तो वर्जयेत्” इति । यमो ऽपि ।

नाभेर् अधस्त्यकायं तु स्पृष्ट्वा प्रक्षालयेत् करौ ।
दक्षिणं वा स्पृशेत् कर्णं स्मरेद् वा विष्णुम् अव्ययम् ॥

शौनको ऽपि ।

पूर्वां संध्यां जपन् तिष्ठेद् उपासीनस् तु पश्चिमाम् ।
न चान्तरा व्याहरेत् तु विरमेद् वा कथंचन ॥ इति ।

अत्र क्वचिद् अपवादम् आह स एव ।

विरमेद् ब्राह्मणे प्राप्ते कामं तेन च संवदेत् ।
शूद्रं दृष्ट्वा तु संप्राप्तं नधीयीत कथंचन ॥

शूद्रं दृष्ट्वा विरमेद् एव न संवदेद् इत्य् अर्थः । व्यासो ऽपि ।

जपकाले न भाषेत व्रतहोमादिकेषु च ।
एतेष्व् एवावसक्तं तु यद्य् आगच्छेद् द्विजोत्तमः ॥
अभिवाद्य ततो विप्रं योगक्षेमं च कीर्तयेत् । इति ।

अवसक्तो ऽवहितः । प्रमादकृते तु वाग्यमलोपे योगयाज्ञवल्क्योक्तं द्रष्टव्यम् ।

यदि वाग्यमलोपः स्याज् जपादिषु कथंचन ।
व्याहरेद् वैष्णवं मन्त्रं स्मरेद् वा विष्णुम् अव्ययम् ॥ इति ।

तथा देशनियमो ऽपि तेनैव दर्शितः ।

अग्न्यगारे जलान्ते वा जपेद् देवालये ऽपि वा ।
पुण्यतीर्थे गवां गोष्ठे द्विजक्षेत्रे ऽथ वा गृहे ॥

अत्र शङ्खः ।

गृहे त्व् एकगुणं जप्यं नद्यदौ द्विगुणं स्मृतम् ।
गवां गोष्ठे दशगुणम् अग्न्यगारे शताधिकम् ॥
सिद्धक्षेत्रेषु तीर्थेषु देवतानां च संनिधौ ।
सहस्रशतकोटिः स्याद् अनन्तं विष्णुसंनिधौ ॥

अत्रापि विशेषः कूर्मपुराणे दर्सितः ।

गुह्यका राक्षसाः सिद्धा हरन्ति प्रसभं यतः ।
एकान्ते शुद्द्धदेशे च तस्माज् जप्यं समाचरेत् ॥

अङ्गिरा अपि ।

प्रछन्नानि च दानानि ज्ञानं च निरहंकृतम् ।
जप्यानि च सुगुप्तानि तेषां फलम् अनन्तकम् ॥ इति ।

अत्र जपसंख्याम् आह यमः ।

सहस्रपरमां देवीं शतमध्यां दशावराम् ।
गायत्रीं तु जपेन् नित्यं सर्वपापप्रणाशिनीम् ॥ इति ।

दशावराम् इत्य् आपद्विषयम् । बोधायनो ऽपि - “दर्भेष्व् आसीनो दर्भान् धारयमाणः सोदकेन पाणिना प्राङ्मुखः सावित्रीं सहस्रकृत्व आवर्तयेच् छतकृत्वो ऽपरिमितकृत्वो वा” इति । सहस्रकृत्व इति वानप्रस्थादिविषयम् । तथा च योगयाज्ञवल्क्यः ।

ब्रह्मचार्य् आहिताग्निश् च शतम् अष्टोत्तरं जपेत् ।
वानप्रस्थो यतिस् चैव सहस्राद् अधिकं जपेत् ॥ इति ।

तयोर् अनग्निकत्वेन होमकालानतिपत्तेर् इति भावः । शतम् अष्टोत्तरम् इत्य् अनुदितहोमविषयम् । ब्रह्मचारिणो ऽपि “संध्ययोर् अग्निकर्म च” इति प्राग् उदयाद् अग्निकार्यस्मरणाद् अविरोधः । उदितहोमिनस् तु मनूक्तं द्रष्टव्यम् ।

पूर्वां संध्यां जपेत् तिष्ठन् सावित्रीम् आर्कदर्सनात् ।
पश्चिमां तु समासीनः सम्यग् आर्क्षविभावनात् ॥ इति ।

ऋक्षं नक्षत्रम् । अत्र तिष्ठन् जपेद् इति व्यत्ययेनान्वयः, जपस्यैव प्रधानत्वात् । अत एव शङ्खः ।

पूर्वां संध्यां जपेत् तिष्ठन्न् आसीनः पश्चिमां तथा । इति ।

ननु च “नान्तरा विरमेत्” इति जपमध्ये विरमणनिषेधाद् अनुइतहोमिन आहिताग्नेर् विरमणासंभव एव । मैवम्, तस्य श्रुतिलक्षणत्वेन मध्ये ऽपि विरमणे ऽविरोधात् । अत एव आपस्तम्बः - “विप्रतिषेधे श्रुतिलक्षणम् बलीयः” इति । अत्र जपान्तरं गोबिलः ।

महेश्वरमुखोत्पन्ना विष्णोर् हृदयसंभवा ।
ब्रह्मणा समनुज्ञाता गच्छ देवि यथेच्छया ॥

इति गायत्रीविसर्जनमन्त्रः । शौनको ऽपि ।

आवाहनं तैत्तिरीय उक्तं चापि विसर्जनम् । इति ।

अत्र, “उत्तमे शिखरे देवि” इति विसर्जनमन्त्रः । अत्र गोबिलः ।

न कदाचिद् अपि प्राज्ञो गायत्रीम् उदके जपेत् ।
गायत्र्य् अग्निमुखा प्रोक्ता तस्माद् उत्थाय तां जपेत् ॥ इति ।

श्रुतिर् अपि - “अग्निमुखा गायत्री, तस्मान् नाप्सु जपेत्” इति ।

इति स्मृतिचन्द्रिकायां गायत्रीजपीविधिः (?)