३१ गायत्रीकवचम्

अथ गायत्रीकवचम्

ओम् इति हृदये भूर् इति मुखे भुव इति शिरसि सुवर् इति सर्वाङ्गे; ततो यथाविधि गायत्रीम् अभ्यसेत्

एवं कुर्वतः फलम् आह व्यासः ।

विन्यस्यैव जपेद् यस् तु गायत्रीं वेदमातरम् ।
ब्रह्मलोकम् अवाप्नोति व्यसस्य वचनं यथा ॥
स्वरूपं यः पुनस् तस्या ज्ञात्वोपास्ते यथाविधि ।
गृह्णन् दोषैर् न लिप्येत रत्नपूर्णां वसुन्धराम् ॥
यथाकथंचिज् जप्ता सा देवी परमपावनी ।
सर्वकामप्रदा प्रोक्ता किं पुनर् विधिना नृप ॥ इति ।

इति स्मृतिचन्द्रिकायां गायत्रीकवचम्