३० मुद्राः

अथ मुद्राः । ता अपि तेनैव दर्शिताः ।

अथातो दर्शयेन् मुद्रांस् समुखं संपुटं तथा ।
ततो विततविस्तीर्णे द्विमुखत्रिमुखे तथा ॥
चतुर्मुखं पञ्चमुखं षण्मुखाधोमुखे तथा ।
व्यापकाञ्जलिकाख्यं च शकटं तदनन्तरम् ॥
यमपाशं च ग्रथितं ततः स्यात् सन्मुखोन्मुखम् ।
विलम्बो मुष्टिको मीनस् ततः कूर्मवराहकौ ॥
सिंहाक्रान्तं महाक्रान्तं ततो मुद्गरपल्लवौ ॥

एतासां लक्षणम् आह स एव ।

संमुखं संहतौ हस्तौ उत्तानौ कुञ्चिताङ्गुली ।

कुञ्चिता वक्रा अङ्गुलयो ययोर् उक्तलक्षणयोर् हस्तयोस् तौ संमुखं नाम मुद्रा,

संपुटं पद्मकोशाभौ कराव् अन्योन्यसंहतौ ।

संहतौ पद्ममुकुलाभौ करौ संपुटं नाम मुद्रा,

विततं संहतौ हस्ताव् उत्तानाव् आयताङ्गुली ।

आयाताः प्रसारिता अङ्गुलयो ययोर् उक्तलक्षणयोः हस्तयोस् तौ विततं नाम मुदा,

विस्तीर्णं संहतौ पाणी मिथो मुक्ताङ्गुलिद्वयौ ।

मुक्तम् अङ्गुलिद्वयं याभ्यां पाणिभ्यां तौ मिथः संयुतौ विस्तीर्णं नाम मुद्रा,

संमुखासक्तयोः पाण्योः कनिष्ठाद्वययोगतः ।
शेषाङ्गुलीनां वैरल्ये द्विमुखत्रिमुखादयः ॥

मिथः संमुखासक्तयोः पाण्योः कनिष्ठाद्वययोगेन शेषाङ्गुलिवैरल्ये अङ्गुष्ठद्वयम् आरभ्यानामिकान्तं यावत् द्विमुखत्रिमुखचतुर्मुखपञ्चमुखा नाम मुद्रा भवन्ति । तत्र वकारे द्विमुख्म्, रेकारे त्रिमुखम्, णिकारे चतुर्मुखम्, यकारे पञ्चमुखम् ।

शेषाङ्गुलीनां संयोगात् पूर्वयोगविनाशनम् ।
तिर्यक्संयुज्यमानाग्रौ संयुक्ताङ्गुलिमण्डलौ ।
हस्तौ षण्मुखम् इत्य् उक्ता मुद्रा मुद्राविशारदैः ॥

पूवयोगः कणिष्ठाद्वयसंयोगः । तद्विनाशेनेतराङ्गुलीनां संयोगात् तिर्यक्संयुज्यमानम् अग्रं ययोस् तथा संयुक्तम् अङ्गुलिमण्डलं च ययोस् तौ हस्तौ षण्मुखं नाम मुद्रा,

आकुञ्चिताग्रौ संयुक्तौ न्युब्जौ हस्ताव् अधोमुखम् ।

ईषद्वक्राग्रौ अर्वाक्कृतौ संयुक्तौ हस्तौ अधोमुखं नाम मुद्रा,

उत्तानौ तादृशाव् एव व्यापकाञ्जलिकं करौ ॥

तादृशौ संयुतौ उक्तलक्षणौ करौ व्यापकाञ्जलिकं नाम मुद्रा,

अधोमुखौ बद्धमुष्टिमुक्ताङ्गुष्ठकौ करौ ।
शकटं नाम कथितं

मुक्ताग्राङ्गुष्ठौ ययोर् उक्तलक्षणयोः करयोस् तौ शकटं नाम मुद्रा,

यमपाशम् अतः परम् ।
बद्धमुष्टिकयोः पाण्योर् उत्ताना वामतर्जनी ॥
कुञ्चिताग्रान्यया युक्ता तर्जन्या न्युब्जवक्रया ।

बद्धमुष्टिकयोर् उपर्य् अधोभावेनावस्थितयोः पाण्योः य उत्ताना कुञ्चिताग्रा वामतर्जनी सान्यया दक्षिणतर्जन्या न्युब्जवक्रया युक्ता यमपाशं नाम मुद्रा,

उत्तानसंधिसंलीनबद्धाङ्गुलितलौ करौ ।
संमुखौ घटितौ दीर्घाव् अङ्गुष्ठौ ग्रथितं मतम् ॥

उत्तानानि संधिसंलीनानि बद्धान्य् अङ्गुलितलानि ययोः करयोस् तौ तथोक्तौ । ताव् अन्योन्यम् उपघाटितौ दीर्घौ वक्राङ्गुष्ठौ ययोस् तौ ग्रथितं नम मुद्रा,

संचितोर्ध्वाङ्गुलिर् वामस् तादृशो दक्षिणेन तु ।
अधोमुखेन संयुक्तः सन्मुखोन्मुखम् उच्यते ॥

संचिताः संबद्धा ऊर्ध्वाङ्गुलयो यस्य स तथोक्तः । तादृशो दक्षिणेनाधोमुखेन करेण संयुक्तः सन्मुखोन्मुखं नाम मुद्रा,

उत्ताने ह्य् उन्नते कोटी विलम्बः कथितः करौ ।

उत्ताने उन्नते कोटी ययोस् तौ विलम्बो नाम मुद्रा,

मुष्टी चान्योन्यसंयुकाव् उत्तानौ मुष्टिको भवेत् ।

अन्योन्यसंयुक्ताव् उत्तानौ मुष्टिको नाम मुद्रा,

मीनस् तु संमुखीभूतौ युक्तानाम् अनिष्ठिकौ ।
ऊर्ध्वसंयुक्तवक्राग्रौ शेषाङ्गुलितलौ करौ ॥

युक्ते संबद्धे अनामिकाकनिष्ठिके ययोस् तौ यथोक्तौ तथोक्तौ ताव् अन्योन्यसंमुखीभूतौ तथा ऊर्ध्वं संयुक्तानि वक्राणि शेषाङ्गुलितलानि ययोः करयोस् तौ मीनो नाम मुद्रा,

अधोमुखः करो वामस् तादृशो दक्षिणेन तु ।
पृष्ठदेशे समाक्रान्तः कूर्मो नामाभिधीयते ॥

अधोमुखो न्युब्जो वामस् तादृशेन दक्षिणेन (?) पृष्ठदेशे युक्तः नाम मुद्रा,

ऊर्ध्वम्ध्यो वामभुजः कक्षाभ्याशाश्रये करे ।
वराहः कथ्यते

कक्षसमीपाश्रये करे सति उक्तलक्षणो वामभुजो वाराहो मुद्रा,

सिंहाक्रान्तं कर्णाश्रितौ करौ ॥

कर्णद्वयाश्रिताव् आयताङ्गुलिकौ करौ सिंहाक्रान्तं नाम मुद्रा,

किंचिदाकुञ्चिताग्रौ चेन् महाक्रान्तं ततः परम् ।

ताव् एव कुञ्चिताग्रौ महाक्रान्तं नाम मुद्रा,

ऊर्ध्वं किंचिद्गतौ पाणी मुद्गरो नाम तर्जनी ।
ग्रस्ता दक्षिणहस्तेन

किंचिदूर्ध्वं गतयोः पाण्योर् या वामतर्जनी दक्षिणहस्तेन गृहीता सा मुद्गतो नाम मुद्रा,

पल्लवो दक्षिणः करः ।
अधोमुखस्थो मूर्ध्नि मुद्राणाम् इति लक्षणम् ॥

इत्य् उक्तलक्षणो मूर्ध्नि निहितः करः पल्लवो नाम मुद्रा । अत्र महासंहितोक्तो विशेषः ।

न जातु दर्शयेन् मुद्रा महाजनसमागमे ।
क्षुभ्यन्ति देवास् तस्य विफलं च कृतं भवेत् ॥ इति ।

इति स्मृतिचन्द्रिकायां न्यासविधिः