२९ न्यासविधिः

अथ न्यासविधिः

तत्रादाव् अस्त्रमन्त्रेण करशुद्धिः । ततो गायत्र्या व्यापकं कृत्वा करन्यासपूर्वकम् अङ्गन्यासं कुर्यात्, तस्य सर्वमन्त्रसाधारणत्वात् । तत्राङ्गन्यासो व्यासेन दर्शितः ।

हृदि तत्सवितुर् न्यस्य न्यस्येत् कण्ठे वरेणियम् ।
भर्गो देवस्येति खण्डं शिखायां च ततो न्यसेत् ॥
धीमहीति न्यसेद् वक्त्रे धियो यो नश् च नेत्रयोः ।
प्रचोदयाद् इति पदम् अस्त्रार्थे विनियोजयेत् ॥
अनामिकाद्वये धीमान् न्यसेत् तत्पदम् अग्रतः ।
कनिष्ठिकाद्वये भर्गः पाण्योर् मध्ये धियःपदम् ॥
ॐ भूर् विन्यस्य हृदये ॐभुवः शिरसि न्यसेत् ।
ॐ स्वः शिखायां विन्यस्य गायत्र्याः प्रथमं पदम् ॥
विन्यसेत् कवचे धीमान् द्वितीयं नेत्रयोर् न्यसेत् ।
तृतीयेनास्त्रविन्यासं चतुर्थं सर्वतो न्यसेत् ॥

अत्र ब्रह्मा ।

तत् कारं विन्यसेत् स्वाङ्गे पादाङ्गुष्ठद्वये द्विजः ।
सकारं गुल्फदेशे तु विकारं जङ्घयोर् न्यसेत् ॥
जान्वोस् तु विद्धि तुःकारं वकारं चोरुदेशतः ।
रेकारं विन्यसेद् गुह्ये णिकारं वृषणे न्यसेत् ॥
कटिदेशे तु यङ्कारं भकारं नाभिमण्डले ।
र्गोकारं जठरे धीमान् देकारं स्तनयोर् न्यसेत् ॥
वकारं हृदि विन्यस्य स्यकारं कण्ठ एव तु ।
धीकारम् आस्ये विन्यस्य मकारं तालुमध्यतः ॥
हिकारं नासिकाग्रे तु धिकारं नयनद्वये ।
भ्रुवोर् मध्ये तु योकारं ललाटे तु द्वितीयकम् ॥
पूर्वानने तु नःकारं प्रकारं दक्षिणानने ।
उत्तरास्ये तु चोकारं दकारं पास्चिमनने ॥
विन्यसेन् मूर्ध्नि यात्कारं सर्वव्यापिनम् ईश्वरम् ॥ इति ।

अत्र सर्वे मन्त्राः प्रणवान्त् नमोऽन्ताश् च । तथा च भृगुः ।

ॐकारम् आदाव् उच्चार्य मन्त्रबीजम् अनन्तरम् ।
नाम ग्राह्यं नमोऽन्तं तु जपन्यासः प्रकीर्तितः ॥ इति ।

ततो वर्णध्यानं कुर्यात् । तद् आह ब्रह्मा ।

कृत्वा चैवेदृशं न्यासम् अशेषं पापनाशनम् ।
पश्चात् समाचरेद् ध्यानं वर्णरूपसमन्वितम् ॥ इति ।

तद् अपि तेनैवोक्तम् ।

तत्कारं चम्पकापीतं ब्रह्मविष्णुशिवात्मकम् ।
शान्तं पद्मासनारूढं ध्यायेत् स्वस्थानसंस्थितम् ॥
सकारं चिन्तयेच् छ्यामम् अतसीपुष्पसंनिभम् ।
पद्ममध्यस्थितं सौम्यम् उपपातकनाशनम् ॥
विकारं पिङ्गलं नित्यं कमलासनसंस्थितम् ।
ध्यायेच् छान्तं द्विजशेष्ठो महापातकनाशनम् ॥
तुःकारं चिन्तयेत् प्राज्ञ इन्द्रनीलसमप्रभम् ।
निर्दहेत् सर्वदुःखं तु ग्रहतारसमुद्भवम् ॥
वकारं वह्निदीप्त्याभं चिन्तयेत् तु विचक्षणः ।
भ्रूणहत्याकृतं पापं तत्क्षणाद् एव नश्यति ॥
रेकारं विमलं ध्यायेच् छुद्धस्फटिकसंनिभम् ।
पापं नश्यति तत् क्षिप्रम् अगम्यागमनोद्भवम् ॥
णिकारं चिन्तयेद् योगी विद्युत्स्फुरितसप्रभम् ।
अभक्ष्यभक्षजं पापं तत्क्षणाद् एव नश्यति ॥
यङ्कारं तारकावर्णम् इन्दुशेखरभूषणम् ।
योगिनां वरदं ध्यायेद् ब्रह्महत्याविनाशनम् ॥
भकारं कृष्णवर्णं तु नीलमेघसमप्रभम् ।
ध्यात्वा पुरुषहत्यादि पापं नाशयति द्विजः ॥
र्गोकारं रक्तवर्णं तु कमलासनसंस्थितम् ।
गोहत्यादिकृतं पापं नाशयन्तं विचिन्तयेत् ॥
देकारं मरकतश्यामं कमलासनसंस्थितम् ।
चिन्तयेत् सततं योगी स्त्रीहत्या दह्यते परम् ॥
वकारं शुक्लवर्णं तु जातीपुष्पसमप्रभम् ।
गुरुहत्याकृतं पापं ध्यात्वा दहति तत्क्षणात् ॥
स्यकारं च तथा पीतं सुवर्णसदृशप्रभम् ।
मनसा चिन्तितं पापं ध्यात्वा दहति मानवः ॥
धीकारं चिन्तयेच् छुक्लं कुन्दपुष्पसमप्रभम् ।
पितृमातृवधात् पापान् मुच्यते नात्र संशयः ॥
मकारं पद्मरागाभं चिन्तयेद् दीप्ततेजसम् ।
पूर्वजन्मार्जितं पापं तत्क्षणाद् एव नश्यति ॥
हिकारं शङ्खवर्णं तु पूर्णचन्द्रसमप्रभम् ।
अशेषपापदहनं ध्यायेन् नित्यं विचक्षणः ॥
धिकारं पाण्डुरं ध्यायेत् पद्मस्योपरि संस्थितम् ।
प्रतिग्रहकृतं पापं स्मरणाद् एव नश्यति ॥
योकारं रक्तवर्णं तु इन्द्रगोपकसंनिभम् ।
ध्यात्वा प्राणिवधे पापं निर्दहेन् मुनिपुङ्गव ।
द्वितीयश् चैव यः प्रोक्तो योकारो रुक्मसंनिभः ॥
निर्दहेत् सर्वपापानि नान्यैः पापैस् च लिप्यते ।
नःकारं तु मुखं पूर्वम् आदित्योदयसंनिभम् ॥
सकृद् ध्यात्वा द्विजश्रेष्ठः (?) स गच्छेद् दैवतं पदम् ।
नीलोत्पलदलश्यामं प्रकारं दक्षिणाननम् ॥
सकृद् ध्यात्वा द्विजश्रेष्ठः स गच्छेद् ऐश्वरं पदम् ।
सौम्यं गोरोचनपीतं चोकारं चोत्तराननम् ॥
सकृद् ध्यात्वा द्विजश्रेष्ठः स गच्छेद् वैष्णवं पदम् ।
शङ्खकुन्देन्दुसङ्काशं दकारं पश्चिमाननम् ॥
सकृद् ध्यात्वा द्विजश्र्ष्ठः स गच्च्छेद् ब्रह्मणः पदम् ।
यात्कारस् तु शिरः प्रोक्तश् चतुर्वदनसंनिभः ॥
प्रत्यक्षफलदो ब्रह्मा विष्णू रुद्र इति स्थितिः ।
एतज् ज्ञात्वा तु मेधावी जपहोमं करोति यः ॥
न भवेत् सूतकं तस्य मृतकं च न विद्यते ।
साक्षाद् भवत्य् असौ ब्रह्मा स्वयंभूः परमेश्वरः ॥
यस् त्व् एवं न विजानाति गायत्रीं तु यथाविधि ।
कल्पितं सूतकं तस्य मृतकं च मयानघ ॥
नैव दानफलं तस्य नैव यज्ञफलं लभेत् ।
न च तीर्थफलं प्रोक्तं तस्यैवं सूतके सति ॥