२८ गायत्र्या आर्षादिकम्

अथास्या आर्षादिकम् उच्यते

तत्र ब्रह्मा ।

छन्दो गायत्री गायत्र्याः सविता देवता स्मृता ।
शुक्लो वर्णो मुखं चाग्निर् विश्वामित्र ऋषिस् तथा ॥
त्रयी शिरः शिखा रुद्रो विष्णुर् हृदयम् एव च ।
उपासने विनियोगः साङ्ख्यायनसगोत्रता ॥
त्रैलोक्यं चरणं ज्ञेयं पृथिवी कुक्षिर् एव च ।
एवंध्यत्वा तु गायत्रीं जपेद् द्वादशलक्षणाम् ॥ इति ।

गायत्रीकल्पे तु प्रतिपादम् अस्या आर्षादिकम् उक्तम् - “तत् सवितुः इत्य् अस्य गायत्री छन्दः; विश्वामित्र ऋषिः; ब्रह्मा देवता । भर्गो देवस्य इत्य् अस्य गायत्री छन्दः; विश्वामित्र ऋषिः; विष्णुर् देवता । धियो यो नः इत्य् अस्य गायत्री छन्दः; विश्वामित्र ऋषिः; रुद्रो देवता । अक्षराणां तु सर्वेषां प्रजापतिः ऋषिः; गायत्री छन्दः; विनियोगो ऽङ्गन्यासे; देवतास् तु ब्रह्मोक्ता वेदितव्याः -

आग्नेयं प्रथमं तस्या वायव्यं तु द्वितीयकम् ।
तृतीयं सूर्यदैवत्यं चतुर्थं वैद्युतं तथा ॥
पञ्चमं यमदैवत्यं वारुणं षष्ठम् उच्यते ।
बार्हस्पत्यं सप्तमं च पार्जन्यं चाष्टमं विदुः ॥
ऐन्द्रं तु नवमं प्रोक्तं गान्धर्वं दशमं स्मृतम् ।
पौष्णम् एकादशे प्रोक्तं शैवं द्वादशकं तथा ॥
त्वाष्ट्रं त्रयोदशं प्रोक्तं वासवं तु चतुर्दशम् ।
मारुतं पञ्चदशकं सौम्यं षोडशकं स्मृतम् ॥
सप्तदशं त्व् आङ्गिरसं वैश्वदेवम् अतः परम् ।
आश्विनं चैकोनविंशं प्राजापत्यं च विंशकम् ॥
सर्वदेवमयं प्रोक्तम् एकविंशकम् अक्षरम् ।
रौद्रं द्वाविंशकं ज्ञेयं ब्राह्मं चैव ततः परम् ॥
वैष्णवं च चतुर्विंशम् एता अक्षरदेवताः ।
जपकाले तु संचिन्त्य तासु सायुज्यम् आप्नुयात् ॥ इति ।

अथाक्षरतत्वानि ।

अतह् तत्त्वानि वक्ष्यामि अक्षराणां विशेषतः ।
पृथिवी ह्य् उदकं तेजो वायुर् अम्बरम् एव च ॥
गन्धो रसो ऽथ रूपं च स्पर्शः शब्दो ऽथ वाग् इति ।
हस्ताव् उपस्थः पायुश् च पच्छ्रोत्रं त्वक् च चक्षुषी ॥
जिह्वा घ्राणो मनस्तत्त्वम् अहंकारो महत् तथा ।
गुणत्रयं च सत्तत्त्वं क्रमशस् तत्त्वनिर्णयः ॥ इति ।

अथाक्षरशक्तयो ऽपि - “सहा नित्या विश्वहृदया विलासिनी प्रभावती लोला शान्ता कान्तिः दुर्गा सरस्वती विष्णुरूपा विशाला ईशा आप्यायिनी विमला तमोऽपहारिणी हिरण्यरूपा सूक्ष्मा विश्वयोनिः जयावहा पद्मालया वरा शोभा गदारूपा — इति शक्तयः” ।

इति स्मृतिचन्द्रिकायां आर्षादिनिर्णयः