२७ गायत्रीमहिमा

अथ गायत्रीमहिमा

तत्र यमः ।

गायत्रीं चैव वेदांश् च तुलयायोलयत् प्रभुः ।
एकतश् चतुरो वेदान् साङ्गांश् च सपदक्रमान् ।
एकतश् चैव गायत्रीं तुल्यरूपा तु सा स्मृता ॥

मनुर् अपि ।

अकारं चाप्य् उकारं च मकारं च प्रजापतिः ।
वेदत्रयान् निरदुहद् भूर् भुवः स्वर् इतीति च ॥
त्रिभ्य एव तु वेदेभ्यः पादं पादम् अदूदुहत् ।
तद् इत्य् ऋचो ऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥

शङ्खो ऽपि - “नाघमर्षणात् परम् अन्तर्जले न व्याहृतिभ्यः परं होमे न सावित्र्याः परं जप्ये” इति । ब्रह्मापि ।

गायत्र्या न परं जप्यं गयत्र्या न परं तपः ।
गायत्र्या न परं ध्यानं गायत्र्या न परं हुतम् ॥

व्यासो ऽपि ।

दशकृत्वः प्रजप्ता सा त्र्यहात् पापं तु यत् कृतम् ।
तत् पापं प्रणुदत्य् आशु नात्र कार्या विचारणा ॥
शतं जप्त्वा तु सा देवी पापौघशमना स्मृता ।
सहस्रजप्ता सा देवी उपपातकनाशिनी ॥
लक्षजापेन च तथा महापातकनाशिनी ।
कोटिजापेन राजेन्द्र यद् इच्छति तद् आप्नुयात् ॥
यक्षविद्याधरत्वं वा गन्धर्वत्वम् अथापि वा ।
देवत्वम् अथवा राज्यं भूलोकं हतकण्टकम् ॥

मनुर् अपि ।

यो ऽधीते ऽहन्य् अहन्य् एतां त्रीणि वर्षाण्य् अतन्द्रितः ।
स ब्रह्मपदम् अप्येति वायुभूतः स्वमूर्तिमान् ॥

व्यासो ऽपि ।

दशभिर् जन्मजनितं शतेन तु पुराकृतम् ।
त्रिगुणं तु सहस्रेण गायत्री हन्ति किल्बिषम् ॥ इति ।

इति स्मृतिचन्द्रिकायां गयत्रीमहिमा