२६ प्राणायामविधिः

अथ प्राणायामविधिः

तत्र योगयाज्ञवल्क्यः।

एवं संमर्जनं कृत्वा बाह्यशुद्ध्यर्थकारकम् ।
अथाभ्यन्तर्शुद्ध्यर्थं प्राणायामं समाचरेत् ॥

संवर्तो ऽपि ।

प्राणायामैस् त्रिभिः पूतो गायत्रीं तु ततो जपेत् । इति ।

प्राणस्य वायोर् आयामो निरोधः प्राणायामः । स किंलक्षण इत्य् अपेक्षिते मनुर् आह ।

सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेद् आयतप्राणः प्राणायामः स उच्यते ॥ इति ।

व्याहृतयो भूराद्याः सप्त सत्यान्ताः,

सप्त व्याहृतयः प्रोक्ताः प्राणायामे तु नित्यशः ।
भूर् भुवः स्वर् महर् जनस् तपः सत्यं तथैव च ॥

इति योगयाज्ञवल्क्यस्मरणात् । शिरश् चात्र “ओम् आपो ज्योतिः” इति याजुर्वेदिको मन्त्रः,

ओम् आपो ज्योतिर् इत्य् एष मन्त्रो वै तैत्तिरीयकः ।

इति व्यासस्मरणात् । “सप्रणवाम्” इत्य् अनेन भूरादिषु नवस्व् अपि प्रणवयोगम् आह । तथा च योगयाज्ञवल्क्यः ।

भूर् भुवः स्वर् महर् जनस् तपः सत्यं तथैव च ।
प्रत्य्ॐकारसमायुक्तं तथा तत् सवितुः पदम् ॥
ओम् आपो ज्योतिर् इत्य् एतच् छिरः पश्चात् प्रयोजयेत् ।
त्रिर् आवर्तनयोगात् तु प्राणायामस् तु शब्द्यते ॥ इति ।

ॐकारो ऽप्य् अत्र मन्त्रादौ द्रष्टव्यः । तथा च यमः ।

ॐकारपूर्विकाः सप्त जपेत् तु व्याहृतीस् तथा ।
शिरसा सह गायत्रीं प्राणायामः परंतप ॥

जपेन् मनसेति शेषः । तथा च संवर्तः ।

प्रणवेन तु संयुक्ता व्याहृतीः सप्त नित्यशः ।
सावित्रीं शिरसा सार्धं मनसा त्रिः पठेद् द्विजः ॥ इति ।

अत्र बृहस्पतिः ।

बध्वासनं नियमासून् स्मृत्वा चार्षादिकं तथा ।
संनिमीलितदृङ् मौनी प्राणायामं समभ्यसेत् ॥ इति ।

आसनं चात्र सवस्तिकाद्यन्यतमं वेदितव्यम् । आर्षादिकं चात्र व्यासेनोक्तम् ।

प्रणवस्य ऋषिर् ब्रह्मा गायत्रं छन्द एव च ।
देवो ऽग्निः सर्वकर्मादौ विनियोगः प्रकीर्तितः ॥

योगयाज्ञवल्क्यो ऽपि ।

व्याहृतीनां तु सर्वासाम् आर्षं चैव प्रजापतिः ।
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिर् एव च ॥
त्रिष्टुप् च जगती चैव छन्दांस्य् एतानि सप्त वै ।
अग्निर् वायुस् तथादित्यो बृहस्पत्य् आप एव च ॥
इन्द्रश् च विश्वेदेवाश् च देवताः समुदाहृताः ।
प्राणायामप्रयोगे च विनियोग उदाहृतः ॥
सविता देवता यस्या मुखम् अग्निस् त्रिपाच् च या ।
विश्वामित्र ऋषिश् छन्दो यायत्री सा विशिष्यते ॥
विनियोगस् तुपनये प्राणायामे तथैव च ।
ओम् आपो ज्योतिर् इत्य् एष मन्त्रो यस् तु प्रकीर्त्यते ॥
तस्य प्रजापतिश् चार्षं यजुश्छन्दोविवर्जितम् ॥
ब्रह्मा वायुश् च सूर्यश् च देवताः समुदाहृताः।
प्राणस्यायमने चैव विनियोग उदाहृतः ॥ इति ।

ब्रह्मा तु व्याहृतीनाम् ऋषिभेदम् आह ।

विश्वामित्रो जमदग्निर् भरद्वाजो ऽथ गौतमः ।
ऋषिर् अत्रिर् वसिष्ठश् च कश्यपश् च यथाक्रमम् ॥ इति ।

स च प्राणायामः पूरककुम्भकरेचकैस् त्रिलक्षणो ज्ञेयः । तथा च योगयाज्ञवल्क्यः ।

पूरकः कुम्भको रेच्यः प्राणायामस् त्रिलक्षणः ।

एतेषां लक्षणम् आह स एव ।

नासिकाकृष्ट उच्छ्वासो ध्मातः पूरक उच्यते ।
कुम्भको निश्चलश्वासो रिच्यमानस् तु रेचकः ॥ इति ।

कुम्भके तु विशेषम् आह अत्रिः ।

आ केशाग्रान् नखाग्राच् च निरोधः शक्यते बुधैः ।
निरोधाज् जायते वायुर् वायोर् अग्निश् च जायते ।
अग्नेर् आपश् च जायन्ते ततो ऽन्तः शुध्यते त्रिभिः ॥ इति ।

योगयाज्ञवल्क्यस् तु पूरकरेचकयोर् विशेषम् आह ।

बाह्यस्थितं घ्राणपुटेन वायुं आकृष्य यत्नेन शनिः समस्तम् ।
नाड्यश् च सर्वाः परिपूरणीयाः स पूरको नाम महानिरोधः ॥
शनैर् नासापुटे वायुम् उत्सृजेन् न तु वेगतः ।
न कम्पयेच् छरीरं तु स योगी परमो मतः ॥ इति ।

तत्र व्यासः ।

नाभिपद्मस्थितं ध्यायेत् कं रक्तं पूरणेन तु ।
नीलोत्पलाभं हृत्पद्मे कुम्भकेन जनार्दनम् ॥
ललाटस्थं शिवं श्वेतं रेचकेनापि चिन्तयेत् ।
शुद्धस्फटिकसङ्काशं निर्मलं पापनाशनम् ॥

अत्र फलम् आह बृहस्पतिः ।

रक्तं प्रजापतिं ध्यायेद् विष्णुं नीलोत्पलप्रभम् ।
शंकरं त्र्यम्बकं श्वेतं ध्यायन् मुच्येत बन्धनात् ॥

योगयाज्ञवल्क्यो ऽपि ।

कुम्भके विष्णुसायुज्यं पूरके ब्रह्मणो ऽन्तिकम् ।
रेचकेन तृतीयेन प्राप्नुयाद् ऐश्वरं पदम् ॥ इति ।

अत्र ब्रह्मा ।

पादयोश् च तथा जान्वोर् जङ्घयोर् जठरे ऽपि च ।
कण्ठे मुखे तथा मूर्ध्नि क्रमेण व्याहृतीर् न्यसेत् ॥
भूर् अङ्गुष्ठद्वये न्यस्य भुवस् तर्जनिकाद्वये ।
ज्येष्ठाङ्गुलिद्वये धीमान् स्वःपदं विनियोजयेत् ॥
करन्यासविधिं कृत्वा अङ्गन्यासं समारभेत् ।
भूःपदं हृदि विन्यस्य भुवः शिरसि विन्यसेत् ॥
शिखायां स्वःपदं न्यस्य कवचे तत् पदं न्यसेत् ।
अक्ष्णोर् भर्गपदं न्यस्य दिग्विदिक्षु धियःपदम् ॥ इति ।

तत ओम् आपो ज्योतिर् इति सर्वाङ्गन्यसः,

शिरस् तस्यास् तु सर्वाङ्गे प्राणायामे परं न्यसेत् ।

इति व्यासस्मरणात् । एवं कुर्वतः फलम् आह याज्ञवल्क्यः ।

प्राणायामत्रयं कृत्वा सूरस्योदयं प्रति ।
निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा ॥

संवर्तो ऽपि ।

मानसं वाचिकं पापं कायेनैव तु तत् कृतम् ।
तत् सर्वं नश्यति क्षिप्रं प्राणायामत्रये कृते ॥ इति ।

**इति स्मृतिचन्द्रिकायां प्राणायामविधिः **

ध्येयस्वरूपम्

उक्तं प्राणायामानन्तरम् एव संध्यां ध्यायेद् इति । तत्र ध्येयस्वरूपम् आह गोबिलः - “प्रातर् गायत्री रविस्थिता रक्तवर्णा कुमार्यक्षमालाहस्ता हंसासनम् आरूढा ब्रह्मदैवत्या ऋग्वेदम् उदाहरन्ती; मधन्दिने सावित्री रविमध्ये स्थिता श्वेतवर्णा यौवनस्था त्रिनेत्रा त्रिशूलहस्ता वृषभासनम् आरूढा रुद्रदैवत्या यजुर्वेदम् उदाहरन्ती; सायं सरस्वती रविमध्ये स्थिता श्यामवर्णा वृद्धा चतुर्भुजा चक्रहस्ता सुपर्णासनम् आरूढा विष्णुदैवत्या सामवेदम् उदाहरन्ति” । एवंविधा क्रमेण कालत्रये ऽप्य् आवाह्येति शेषः । तद् उक्तं गायत्रीनिर्णये ।

बालां त्व् अवृद्धां गायत्रीं त्र्यक्षरां चतुराननाम् ।
शक्तां रक्ताम्बरोपेताम् अक्षसूत्रधरां तथा ॥
कमण्डलुधरां देवीं हंसवाहनसंस्थिताम् ।
ब्रह्माणीं ब्रह्मदैवत्यां ब्रह्मलोकनिवासिनीम् ॥
आवाहयेत् तु मन्त्रेण आयान्तीं सूर्यमण्डलात् ।
एवं मध्यमसंध्यायां सावित्रीं युवतीं तथा ॥
शुक्लाङ्गीं शुक्लवस्त्रां च वृषारूढां त्रिलोचनाम् ।
त्रिशूलडमरूहस्तां रुद्राणीं रुद्रदेवताम् ॥
कैलासनिलयां देवीम् आयान्तीं सूर्यमण्डलात् ।
एवं पश्चिमसंध्यायां वृद्धावस्थां सरस्वतीम् ॥
वर्णतः कृष्णवर्णां च चारुरूपां चतुर्भुजाम् ।
शङ्खचक्रगदापद्मधारिणीं विष्णुदेवताम् ॥
बदर्याश्रमवासां ताम् आयान्तीं सूर्यमण्डलात् ॥ इति ।

योगयाज्ञवल्क्यस् तु वर्णविपर्यासम् आह ।

श्वेता भवति गायत्री सावित्री शुक्लवर्णिका ।
कृष्णा सरस्वती ज्ञेया संध्यात्रयम् उदाहृतम् ॥ इति ।

एवं च रविमण्डलान्तःस्थां ब्रह्मलोकवासिनीं वा संध्यां ध्यायेद् इत्य् उक्तं भवति । उक्तं च योगयाज्ञवल्क्येन ।

आदित्यमण्डलान्तःस्थां ब्रह्मलोकगतां तथा ।
अक्षसूत्रधरां देवीं पद्मासनगतां शुभाम् ।
आवाह्य यजुषानेन तेजो ऽसीति विधानतः ॥ इति ।

तेजो ऽसीति वाजसनेयिको मन्त्रः । व्यासस् तु मन्त्रान्तरम् आह ।

आवाहयेच् च गायत्रीं सर्वपापप्रणाशिनीम् ।
आगच्छ वरदे देवि जप्ये मे संनिधौ भव ॥
गायन्तं त्रायसे यस्माद् गायत्री त्वम् उदाहृता ॥

गोबिलो ऽपि ।

आयाहि वरदे देवि त्र्यक्षरे ब्रह्मवादिनि ।
गायत्री छन्दसां मातर् ब्रह्मयोने नमो ऽस्तु ते ॥

शौनको ऽपि ।

आवाहनं तैत्तिरीये उक्तं चापि विसर्जनम् । इति ।

तत्रावाहन्मन्त्रः - “आयातु वरदा देवी” इति । तस्य गायत्री छन्दः; विश्वेदेवा ऋषयः; शुक्रो देवता; गायत्र्यावाहने विनियोगः । एवम् आवाह्योक्तनामादियुक्तां संध्याशब्दाभिलिप्याम् आदित्याख्यां ब्रह्मात्मिकां देवीं हृदि साहम् अस्मीति ध्यायेत् । तद् उक्तं व्यासेन ।

न भिन्नां प्रतिपद्येत गायत्रीं ब्रह्मणा सह ।
साहम् अस्मीत्य् उपासीत विधिना येन केनचित् ॥ इति ।

एतत् सर्वं संध्याशब्दार्थनिर्णये दर्शितम् । ततस् तां गायत्र्यास् तुरीयेण पादेनोपस्थाय जपेत् । तद् अपि तेनैवओक्तम् ।

तुरीयं तु पदं तस्याः शिवब्रह्मपदे स्थितम् ।
उपस्थाय तुरीयेण जपेत् तां तु समाहितः ॥

तुरीयं पादं “परो रजसि। सावद् ओम्” इत्य् अष्टाक्षरम् । तस्य विमल ऋषिः; तुरीयं छन्दः; परमात्मा देवता; मोक्षे विनियोगः ।

इति स्मृतिचन्द्रिकायां ध्येयस्वरूपनिर्णयः