२५ प्राणायाममहिमा

अथ प्राणायाममहिमा

तत्र मनुः ।

प्राणायामा ब्राह्मणस्य त्रयो ऽपि विधिवत् कृताः ।
व्याहृतिप्रणवैर् युक्ता विज्ञेयं परमं तपः ॥
दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ।
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥
सव्याहृतिप्रणवकाः प्राणायामास् तु षोडस ।
अपि भ्रूणहनं मासात् पुनन्त्य् अहर् अहः कृताः ॥

यमो ऽपि ।

दशप्रणवसंयुक्तैः प्राणायामैश् चतुर्दशैः ।
मुच्यते ब्रह्महत्यायाः किं पुनः शेषपातकैः ॥

व्यासः ।

सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
ये जपन्ति सदा तेषां न भयं विद्यते क्वचित् ॥

योगयाज्ञवल्क्यो ऽपि ।

य एता व्याहृतीः सप्त संस्मरेत् प्राणसंयमे ।
उपासितं भवेत् तेन विश्वं भुवनसप्तकम् ॥
सर्वेषु चैव लोकेषु कामचारश् च जायते ॥

व्यासो ऽपि ।

षोडशाक्षरकं ब्रह्म गायत्र्यास् तु शिरः स्मृतम् ।
सकृद् आवर्तयन् विप्रः संसारात् स विमुच्यते ॥ इति ।

इति स्मृतिचन्द्रिकायां प्राणायाममहिमा