२४ संध्याप्रयोगः

अत्रायं संध्याप्रयोगः

कृतस्नानस् त्व् आचान्तो यथाविधि प्राणान् आयम्य प्रातःसंध्याम् उपासिष्ये इति संकल्प्य “आपो हिष्ठा मयोभुवः” इति तृचेत मार्जयेत् । तद् उक्तं याज्ञवल्क्येन ।

प्राणान् आयम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु । इति ।

अत्र व्यासः ।

सिन्धुद्वीप ऋषिः छन्दो गायत्र्य् आपो हि देवताः ।
मार्जने विनियोगश् च अब्दैवत्ये प्रकीर्तितः ॥

आवश्यकं चैतद् आर्षादिज्ञानम् अन्यथा दोषश्रवणात् । तद् आह स एव ।

अविदित्वा मुनिं छन्दो दैवतं योगम् एव च ।
यो ऽध्यापयेज् जपेद् वापि पापीयान् जायते तु सः ॥

योगयाज्ञवल्क्यो ऽपि ।

ब्राह्मणं विनियोगं च छन्द आर्षं च दैवतम् ।
आज्ञाता पञ्च यो मन्त्रे न स तत्फलम् अश्नुते ॥ इति ।

मार्जने तु विशेषम् आह ब्रह्मा ।

ऋगन्ते मार्जनं कुर्यात् पादान्ते वा समाहितः ।
तृचस्यान्ते ऽथ वा कुर्याच् छिष्टानां मतम् ईदृशम् ॥ इति ।

योगयाज्ञवल्क्यो ऽपि ।

आपो हिष्ठेति तिसृभिः ऋग्भिः संप्रयतः शुचिः ।
नवप्रणवयुक्ताभिर् जलं शिरसि निक्षिपेत् ॥ इति ।

अत्र फलविशेषम् आह शौनकः ।

नवप्रणवयुक्तेन आपोहिष्ठातृचेन च ।
संवत्सरकृतं पापं मार्जनान्ते विनश्यति ॥

व्यासो ऽपि ।

आपोहिष्ठातृचे कुर्यान् मार्जनं तु कुशोदकैः ।
प्रणवेन तु संयुक्तं क्षिपेद् वारि पदे पदे ॥
विप्रुषो ऽष्टौ क्षिपेद् ऊर्ध्वम् अधो यस्य क्षयाय जित् ।
रजस्तमोमोहजातान् जाग्रत्स्वप्नसुषुप्तिजान् ।
वाङ्मनःकर्मजान् दोषान् नवैतान् नवभिर् दहेत् ॥ इति ।

अत्र प्रतिपादं मार्जने कर्तव्ये नव विप्रुषो भवन्ति । तत्र “यस्य क्षयाय जिन्वथ” इत्य् अनेन विप्रुषम् अधो विक्षिपेद् इत्य् अर्थः । अत्र हारीतः - “मार्जनार्चनबलिकर्मभोजनानि दैवेन तीर्थेन कुर्यात्” इति । दैवम् अङ्गुल्यग्रम् । तच् च मार्जनं धाराच्युतेन न कार्यम् । तथा च ब्रह्मा ।

धाराच्युतेन तोयेन संध्योपास्तिर् विगर्हिता ।
पितरो न प्रशंसन्ति न प्रशंसन्ति देवताः ॥ इति ।

अत्र हेतुम् आह स एव ।

मन्त्रपूतं जलं यस्माद् आपोहिष्ठाभिमन्त्रितम् ।
पतत्य् अशुचिदेशे तु तस्मात् तत् परिवर्जयेत् ॥ इति ।

कथं तर्हि मार्जनम् इत्य् अपेक्षिते स एवाह ।

नद्यास् तीर्थे ह्रदे वापि भाजने मृण्मये ऽपि वा ।
औदुम्बरे ऽथ सौवर्णे राजते दारुदंभवे ॥
कृत्वा तु वामहते वा संध्योपास्तिं समाचरेत् । इति ।

औदुम्बरे ताम्रमये कृत्वोदकम् इति शेषः । एवं च यद् उक्तम्,

वामहस्ते जलं कृत्वा ये तु संध्याम् उपासते ।
सा संध्या वृषली ज्ञेया असुरास् तैस् तु तर्पिताः ॥

इति, तन् मृण्मयादिपात्रसद्भावविषयम् इत्य् अनुसंधेयम् । एवम् उक्तेन विधिना मार्जयित्वा “सूर्यश् च” इत्य् अपः पिबेत् । तद् आह बोधायनः - “अथातः संध्योपासनविधिं व्याख्यास्यामः । तीर्थं गत्वा प्रयतो ऽभिषिक्तः प्रक्षालितपाणिपादो ऽप आचम्य ऽअग्निश् च मा मन्युश् च” इति सायम् अपः पीत्वा “सूर्यस् च मा मन्युश् च” इति प्रातः सपवित्रेण पाणिना सुरभिमत्याब्लिङ्गभिर् वारुणीभिर् हिरण्यवर्णाभिः पावमानीभिर् व्याहृतिभिर् अन्यैश् च पवित्रैर् आत्मानं प्रोक्ष्य प्रयतो भवति" इति । “अग्निश् च” “सूर्यश् च” इत् यजुर्वेदपठितौ मन्त्रौ । सूर्यश् चेत्य् अस्य मन्त्रस्य प्रकृतिश् छन्दः, अग्निऋषिः, सूर्यमन्युमन्युपतिरात्रयो (?) देवताः, प्रातःसंध्याचमने विनियोगः । सुरभिमती “दधिक्राव्णः” इति । तस्या वामदेव ऋषिः, अनुष्टुप् छन्दः, दधिक्रावा देवता, मार्जने विनियोगः । अब्लिङ्गाभिर् आपोहिष्ठादिभिः । “हिरण्यवर्णाभिः” — “हिरण्यवर्णाः”, “यासां राजा”, “यासां देवाः”, “शिवेन मा”, इति चतसृभिः । तासां त्रिष्टुप् छन्दः, अग्निः ऋषिः, आपो देवता, मार्जने विनियोगः । छन्दोगानां तु आचमनमन्त्रौ गौतमेनोक्तौ - “अहश् च मादित्यश् च पुनातु इत्य् प्रातः, रात्रिस् च मा वरुणः पुनातु इति सायम्” इति । इमे यजुषी प्रजापतिर् अपश्यत् । लिङ्गोक्ते देवते । संध्याचमने तु विसेषम् आह विष्णुः ।

जानुभ्याम् उपरिष्टात् तु शुष्कवासाः स्थितो जले ।
सांध्यम् आचमनं कुर्वन् शुचिः स्याद् असुचिः स्मृतः ॥

संध्यचमनानन्तरं नारायणः ।

स्पृष्ट्वा चाभिष्टुत तोयं मूर्ध्नि ब्रह्ममुखेन तु ।
आपो हिष्ठेति सूक्तेन दर्भरि मार्जनम् आचरेत् ॥ इति ।

अभिष्टुद् ॐकारः । ब्रह्ममुखम् अपि मनुनोक्तम् ।

ॐकारपूर्विकास् तिस्रो महाव्याहृतयो ऽव्य्व्याः ।
त्रिपदा चैव गायत्री विज्ञेयं ब्रह्मणो मुखम् ॥ इति ।

तेन तोयं स्पृष्ट्वा तेन तोयेन आपो हिष्ठेति सूक्तेन दर्भैर् मार्जनम् आचरेद् इत्य् अर्थः । तच् च सूक्तं नवर्चम् । तत्र भृगुः ।

आपोहिष्ठा नवस्व् ऋक्षु सिन्धुद्वीप ऋषिः स्मृतः
अब्दैवत्यास् तु सप्तर्चो गायत्र्यो द्वे अनुष्टुभौ ॥

मार्जनं प्रकृत्य कात्यायनो ऽपि ।

शिरसो मार्जनं कुर्यात् कुशैः सोदकबिन्दुभिः ।
प्रणवो भूर् भुवः स्वश् च गायत्री च तृतीयका ॥
अब्दैवतं तृचं चैव चतुर्थम् इति मार्जनम् ॥

मार्जनानन्तरं ब्रह्मा ।

जलपूर्णं तथा हस्तं नासिकाग्रे समर्पयेत् ।
ऋतं चेति पठित्वा तु तज् जलं तु क्षितौ क्षिपेत् ॥

यमो ऽपि ।

गृहीत्वा पाणिना वारि स्वशाखोक्ताम् ऋचं जपेत् ।
बिभृयान् नासिकाग्रे तु निरुद्धप्राणमारुतः ॥
य एवं द्रुपदां नित्यं त्रिर् अह्नः प्रयतो जपेत् ।
न पर्युषन्ति पापानि तस्य देहे द्विजन्मनः ॥ इति ।

ततः सूर्यार्घ्यं निवेदयेत् । तथा च व्यासः ।

कराभ्यां तोयम् आदाय गायत्र्या चाभिमन्त्रितम् ।
आदित्याभिमुखस् तिष्ठंस् त्रिर् ऊर्ध्वम् अथ चोत्क्षिपेत् ॥

अत्र विशेषम् आह हारीतः - “सावित्र्याभिमन्त्रितम् उदकं पुष्पमिश्रितम्” । अञ्जलिना क्षिपेद् इति शेषः । नारायणस् त्व् अर्घ्यदाने मन्त्रान्तरम् आह ।

कराभ्याम् अञ्जलिं कृत्वा जलपूर्णं समाहितः ।
उद् उ त्यम् इत्य् मन्त्रेण तत् तोयं च क्षिपेद् भुवि ॥

ततः प्रदक्षिणम् आवृत्योदकं स्पृशेत् । तद् उक्तं वामनपुराणे ।

सायं मन्त्रवद् आचम्य प्रोक्ष्य सूर्यस्य चाञ्जलिम् (?) ।

श्रुतिर् अपि - “यत् प्रदक्षिणं प्रक्रमन्ति तेन पाप्मानम् अवधून्वन्ति” इति ।

उत्थायार्कं प्रतिप्रास्य त्रिकेनाञ्जलिनाम्भसः ।
उच्चित्रम् ऋग्ग्द्वयेनैनम् उपतिष्ठेद् अनन्तरम् ॥
संध्याद्वये ऽप्य् उपस्थानम् एतद् आहुर् मनीषिणः ।
प्रणवो व्याहृतयस् तिस्रः सावित्री चेति तु त्रिकम् ॥

स्मृत्यन्तरे ऽपि ।

उद् उ त्यं चित्रं तच् चक्षुर् उपस्थाय त्रिभिः सदा ।
संध्ययोर् उभयोः सूर्यं गायत्रीजपम् आचरेत् ॥ इति ।

एतेषां गायत्री त्रिष्टुब् उष्णिग् (?) इति क्रमेण छन्दांसि; प्रस्कण्वकुत्सवसिष्ठाः क्रमेण ऋषयः; सूर्यो देवता; सूर्योपस्थाने (?) विनियोगः । ततः कृतप्राणायामः संध्यां ध्यात्वा गायत्रीजपानन्तरम् आदित्यम् उपतिष्ठेत । तद् उक्तं कूर्मपुराणे ।

आचम्य मन्त्रवन् नित्यं पुनर् आचम्य वाग्यतः ।
संमार्ज्य मन्त्रैर् आत्मानं कुशैः सोदकबिन्दुभिः ॥
आपोहिष्ठाव्याहृतिभिः सावित्र्या वारुणैः शुभैः ।
ॐकारव्याहृतियुतां गायत्रीं वेदमातरम् ॥
जप्त्वा जलाञ्जलिं दद्याद् भास्करं प्रति तन्मनाः ।
प्राक्कूलेषु ततः स्थित्वा दर्भेषु सुसमाहितः ॥
प्राणायामत्रयं कृत्वा ध्यायेत् संध्याम् इति श्रुतिः ।
या संध्या सा जगत्सूतिर् मायातीता हि निर्मला ॥
ईश्वरो केवला शक्तिस् तत्त्वत्रयसमुद्भवा ।
ध्यात्वार्कमण्डलगतां सावित्रीं वै जपेद् बुधः ॥
सहस्रपरमां नित्यं शतमध्यां दशावराम् ।
सावित्रीं वै जपेद् विद्वान् प्राङ्मुखः प्रयतः स्थितः ॥
अथोपतिष्ठेद् आदित्यम् उदयन्तं समाहितः ।
मन्त्रैस् तु विविधैः सौरैः ऋग्यजुःसामसंभवैः ॥

इति स्वशाखाधीतमन्त्राभिप्रायम्, “उपस्थानं स्वकैर् मन्त्रैर् आदित्यस्य तु कारयेत्” इति वसिष्ठस्मरणात् । अतो यजुःशाखिनां “मित्रस्य”, “मित्रो जनान्”, “प्रस्मित्र”, इत्य् त्रिभिर् उपस्थानम् । तासां प्रथमा गायत्री, उत्तरे त्रिष्टुभौ, विश्वेदेवा ऋषयः, मित्रो देवता, सूर्योपस्थाने विनियोगः । एवम् अन्येषाम् अपि द्रष्टव्यम् । बोधायनस् तु जपान्ते ऽहर् अहर् उपस्थानम् आह - “एवम् एव प्रातः प्राङ्मुखस् तिष्ठन् मैत्रीभ्याम् अहर् उपतिष्ठते मित्रस्य चर्षणीधृतः, मित्रो जनान् यातयन्तीति द्वाभ्याम्” इति । अत्र पुराणम् ।

आत्मपादौ तथा भूमिं संध्याकाले ऽभिवादयेत् ।
आयुर् विद्यां तथारोग्यं प्राप्नोति पुतुषः सदा ॥ इति ।

एवं कुर्वतः फलम् आह यमः ।

संध्याम् उपासते ये तु सततं संशितव्रताः ।
विधूतपापास् ते यान्ति ब्रह्मलोके सनातनम् ॥

अत्रिर् अपि ।

यस् तु संध्याम् उपासीत श्रद्धया विधिवद् द्विजः ।
न तस्य किंचिद् अप्राप्यं त्रिषु लोकेषु विद्यते ॥

कूर्मपुराणे ऽपि ।

अनन्यचेतसः शान्ता ब्राह्मणा वेदपारगाः ।
उपास्य विधिवत् संध्यां प्राप्ताः पूर्वे पराम् गतिम् ॥

अथाकरणे दोषो ऽपि दक्षेण दर्सितः ।

संध्याहीनो ऽशुचिर् नित्यम् अनर्हः सर्वकर्मसु ।
यद् अन्यत् कुरुते कर्म न तस्य फलभाग् भवेत् ॥

गोबिलो ऽपि ।

संध्या येन न विज्ञाता संध्या नैव ह्य् उपासिता ।
जीवमानो भवेच् छूद्रो मृतः श्वा चाभिजायते ॥

मनुर् अपि ।

न तिष्ठति तु यः पूर्वां नोपास्ते यश् च पश्चिमाम् ।
स शूद्रवद् बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ॥

विष्णुपुराणे ऽपि ।

उपतिष्ठन्ति ये संध्यां ये न पूर्वां न पश्चिमाम् ।
व्रजन्ति ते दुरात्मानस् तामिस्रं नरकं नृप ॥

कूर्मपुराणे ऽपि ।

यो ऽन्यत्र कुरुते यत्रं धर्मकार्ये द्विजोत्तम ।
विहाय संध्याप्रणतिं स याति नरकायुतम् ॥

विष्णुपुराणे ऽपि ।

तस्मान् नो लङ्घनं कार्यं संध्योपासनकर्मणः ।
स हन्ति सूर्यं संध्याया नोपस्तिं कुरुते तु यः ॥ इति ।

एतत् सर्वम् अनार्तविषयम् । अत एव योगयाज्ञवल्क्यः ।

अनार्तश् चोत्सृजेद् यस् तु स विप्रः शूद्रसंमितः ।
प्रायश्चित्ती भवेच् चैव लोके भवति निन्दितः ॥

अत्रिर् अपि ।

नोपतिष्ठन्ति ये संध्यां स्वस्थावस्थास् तु वै द्विजाः ।
हिंसन्ति ते सदा पापा भगवन्तं दिवाकरम् ॥
ये हिंसन्ति द्विजाः सूर्यं मोक्षद्वारम् अनुत्तमम् ।
कथं मोक्षस्य संप्राप्तिर् भवेत् तेषां द्विजन्मनाम् ॥

विष्णुपुराणे ऽपि ।

सर्वकालम् उपस्थानं संध्ययोः पार्थिवेष्यते ।
अन्यत्र सूतकाशौचविभ्रमातुरभीतितः ॥ इति ।

विभ्रमो भ्रान्तिः । तदादिष्व् असामर्थ्येन संध्याया अकरणे ऽपि दोषो नस्तीत्य् अर्थः । सूतकादौ तु सत्य् अपि सामर्थ्ये न संध्योपासनं कार्यम् इत्य् आह मरीचिः ।

सूतके कर्मणां त्यागः संध्यादीनां विधीयते । इति ।

यत् तु पुलस्त्येनोक्तम्,

संध्याम् इष्टिं चरुं होमं यावजीवं समाचरेत् ।
न त्यजेत् सूतके वापि त्यजन् गच्छत्य् अधोगतिम् ॥

इति, तन् मानससंध्याभिप्रायम् । यतः स एवाह ।

सूतके मृतके चैव संध्याकर्म न संत्यजेत् ।
मनदोच्चारयेन् मन्त्रान् प्राणायामम् ऋते द्विजः ॥ इति ।

एवं च यानि सूतकादौ संध्याकर्मनिषेधपराणि तानि वाचिकमन्त्रप्रयोगनिषेधपराणीति मन्तव्यम् । यद् अपि पैठीनसिनोक्तम् - “सूतके सावित्र्याञ्जलिं प्रक्षिप्य प्रदक्षिणं कृत्वा सूर्यं ध्यायन् नमस्कुर्यात्” इति, तद् अपि सकलसंध्याकर्मोपलक्षणार्थम् इति “संध्याम् इष्टिम्” इत्य् अनेन समानार्थम् । यद् वा - यद् अत्र संध्याकर्मणि श्रौतम् अञ्जलिदानादि, तद् एवानुष्ठेयं नान्यद् इत्य् अभिप्राय इत्य् अनुसंधेयम् । यद् अत्र उक्तं तद् ग्राह्यम् । अत्र शातातपः ।

दर्भहीना तु या संध्या यच् च दानं विनोदकम् ।
असंख्यातं तु यज् जप्यं तत् सर्वं स्यान् निरर्थकम् ॥

कूर्मपुराणे ऽपि ।

प्राङ्मुकः सपवितः सन् संधोपासनम् आचरेत् ।

इति स्मृतिचन्द्रिकायां प्रातःसंध्या