२३ प्रातःसन्ध्या

अथ प्रातःसन्ध्या

तत्र दक्षः ।

ब्राह्मे मुहूर्त उत्थाय कृतशौचविधिर् द्विजः ।
प्रातःसंध्याम् उपासीत दन्तधावनपूर्वकम् ॥ इति ।

शौचग्रहणं स्नानस्यापि प्रदर्शनार्थम्, अन्यथा संध्याद्यनधिकारात् । तद् आह स एव ।

अस्नात्वा नाचरेत् कर्म जपहोमादि किंचन ।
लालास्वेदसमाकीर्णः शयनाद् उत्थितः पुमान् ॥

कूर्मपुराणे ऽपि ।

न च स्नानं विना पुंसां प्राशस्त्यं कर्मसु स्मृतम् ।
होमे जप्ये विशेषेण तस्मात् स्नानं स्माचरेत् ॥ इति ।