२२ संध्याशब्दार्थनिर्णयः

अथ संध्याशब्दार्थनिर्णयः

तत्र दक्षः ।

अहोरात्रस्य यः संधिः सूर्यनक्षत्रवर्जितः ।
सा तु संध्या समाख्याता मुनिभिस् तत्त्वदर्शिभिः ॥ इति ।

सा संध्या उपास्येति शेषः । अत एव योगयाज्ञवल्क्यः ।

संधौ संध्याम् उपासीत नास्तगे नोद्गते रवौ ।

छन्दोगश्रुतिर् अपि - “ब्रह्मवादिनो वदन्ति - कस्माद् ब्राह्मणो ऽहोरात्रसंयोगे संध्याम् उपास्ते । कस्माद् ब्राह्मणः सायम् आसीनः संध्याम् उपास्ते । कस्मात् प्रातस् तिष्ठन् । का च संध्या । कश् च संध्याकालः । किं च संध्यायाः संध्यात्वम् । दैवाश् चासुराश् चास्पर्धन्त । ते असुरा आदित्यम् अभिद्रवन् । स आदित्यो ऽबिभेत् । तस्य हृदयं कूर्मरूपेणातिष्ठत् स प्रजापतिम् उपाधावत् तस्य प्रजापतिर् एतद् भेषजम् अपश्यत् । ऋतं च सत्यं च ब्रह्म च्ॐकारं च त्रिपदां गायत्रीं ब्रह्मणो मुखम् अपश्यत् । तस्माद् ब्रह्मणो ऽहोरात्रसंयोगे संध्याम् उपास्ते । सज्योतिष्य् आ ज्योतिषो दर्शनात् सो ऽस्य संध्याकालः । सा संध्या । तत् संध्यायाः संध्यत्वम् । यत् सायम् आसीनः संध्याम् उपास्ते तया वीरस्थानं जयति । यत् प्रातस् तिष्ठन् तया स्वर्गलोकं जयति । अथ यद् अपः प्रयुङ्क्ते ता विप्रुषो वज्रीभूत्वा असुरान् अपाघ्नन्ति” इति । अनेनापि या उपास्या सा संध्या इत्य् उक्तं भवति । “सज्योतिषि” ससूर्ये काले प्रारभ्य “आ ज्योतिषो दर्शनात्” आ नक्षत्रदर्शनात् उपासीतेत्य् अर्थः । तथा च नारसिंहपुराणम् ।

उपास्य पश्चिमां संध्यां सादित्यां वै यथाविधि ।
गायत्रीम् अभ्यसेत् तावद् यावद् ऋक्षाणि पश्यति ॥
पूर्वां संध्यां सनक्षत्राम् उपक्रम्य यथाविधि ।
गायत्रीम् अभ्यसेत् तावद् यावद् आदित्यदर्शनम् ॥

सनक्षत्राम् इत्य् अनेनानियमे प्राप्ते नियमार्थम् आह दक्षः ।

रात्र्यन्तयामनाडी द्वे संध्यायाः कल उच्यते ।
दर्सनाद् रविरेखायास् तदन्तो सुमिभिः स्मृतः ॥

रविरेखाया दर्सनाद् उपलक्षितः कालः संध्यान्त इत्य् अर्थः । सा च संध्या योगयाज्ञवल्क्येन दर्सिता ।

पूर्वा संध्या तु गायत्री सावित्री मध्यमा स्मृता ।
या भवेत् पश्चिमा संध्या सा विज्ञेया सरस्वती ॥

व्यासो ऽपि ।

गायत्री नाम पूर्वाह्णे सावित्री मध्यमे दिने ।
सरस्वती च सायाह्ने सैव संध्या त्रिषु स्मृता ॥
प्रतिग्रहाद् अन्नदोषात् पातकाद् उपपातकात् ।
गायत्री प्रोच्यते तस्माद् गायन्तं त्रायते यतः ॥
सवितृद्योतनाच् चैव सावित्री परिकीर्तिता ।
जगतः प्रसवित्री या वाग्नूपत्वात् (?) सरस्वती ॥
उपास्ते संधिवेलायां निशाया दिवसस्य च ।
ताम् एव संध्यां तस्माच् च प्रवदन्ति मनीषिणः ॥ इति ।

अत्र स्वाधिष्ठितमन्त्रद्वारा तत्प्रतिपाद्यस्यास्पि सावित्रीत्वम् अविरुद्धम् इति भावः । अतो गायत्र्यादिनामत्रयप्रतिपाद्यः सवितैव संध्येतु अनुसंधेयम् । उक्तं च स्मृत्यन्तरे ।

प्रातःकाले तु गायत्री सायंकाले सरस्वती ।
मधन्दिने च सावित्री उपास्या नामभेदतः ॥
गायत्रीह भवेद् रक्ता सावित्री शुक्लवर्णिका ।
सरस्वती तथा कृष्णा उपास्या वर्णभेदतः ॥
गायत्री ब्रह्मरूपा तु सावित्री रुद्ररूपिणी ।
सरस्वती विष्णुरूपा उपास्या रूपभेदतः ॥
उदये ब्रह्मरूपं तु मध्याह्ने तु महेश्वरम् ।
सायाह्ने विष्णुरूपं तु त्रिरूपं वै दिवाकरम् ॥
उपासने तु संध्यायां निशाया दिवसस्य च ।
ताम् एव संध्यां तस्माच् च प्रवदन्ति मनीषिणः ॥ इति ।

उपासनं चात्र ध्यानम्, “वाचं ब्रह्मेत्य् उपासीत । मनो ब्रह्मेत्य् उपासीत” इत्यादिषु तथा दर्शनात् । तैत्तिरीयश्रुतिर् अपि - “उद्यन्तम् अस्तं यन्तम् आदित्यम् अभिध्यायन् कुर्वन् ब्राह्मणो विद्वांत् सकलं भद्रम् अश्नुते ऽसाव् आदित्यो ब्रह्मेति ब्रह्मैवं सन् ब्रह्माप्येति य एवं वेद” इति । उक्तगायत्यादिनामत्रयोपेतं वर्णत्रयान्वितं रूपत्रयात्मकं संध्याशब्दाभिलक्ष्यम् आदित्यं ब्रह्मेति कालत्रये ऽपि यथा क्रमेण ध्यायन् ब्रह्माप्येति प्राप्नोतीत्य् अर्थः । अत एव व्यासः ।

नाभिन्नां प्रतिपद्येत गायत्रीं ब्रह्मणा सह ।
सो ऽहम् अस्मीत्य् उपासीत विधिना येन केनचित् ॥

कूर्मपुराणे ऽपि ।

प्राक्कूलेषु ततः स्थित्वा दर्भेषु सुसमाहितः ।
प्राणायामत्रं कृत्वा ध्यायेत् संध्याम् इति श्रुतिः ॥
या संध्या सा जगत्सूतिर् मायातीता हि निष्कला ।
ईश्वरो केवला शक्तिस् तत्त्वत्रयसमन्विता ॥
ध्यात्वार्कमण्डलगतां सावित्रीं वै जपेद् बुधः ॥

अत्र ध्यानदेशो ऽपि स्मृत्यन्तरे दर्शितः ।

गायत्रीं चिन्तयेद् यस् तु हृत्पद्मे समुपस्थिताम् ।
धर्माधर्मविनिर्मुक्तः स याति परमां गतिम् ॥ इति ।

एवं च संध्याम् उपासीतेत्य् अनेन संध्याम् उक्तरूपाम् अर्कमण्डलान्तर्गताम् आदित्याख्यां ब्रह्मात्मिकां देवतां हृदि सो ऽहम् अस्मीत्य् उपासीत ध्यायेद् इत्य् उक्तं भवति । तेनात्रोपासनम् एव प्रधानम् अन्यत् सर्वं मार्जनादिकम् अङ्गम् इत्य् अनुसंधेयम् । अत एव युधिष्ठिरादिभिर् युद्धोद्यतैः साङ्गानुष्ठानासमर्थैः सकलाङ्गपरित्यागेनादित्योपासनमात्रम् अनुष्ठितम् । तद् उक्तं व्यासेन ।

ते तथैव महाराज संशिता रणमूर्धनि ।
संध्यागतं सहस्रांशुम् आदित्यम् उपतस्थिरे ॥ इति ।

दंशिताः संनद्धाः । संधिम् आगतं संध्यागतम् अस्तंगतम् इति यावत् । एवं च यद् उक्तं योगयाज्ञवल्क्येन,

ॐकारो व्याहृतीः सप्तगायत्री शिरसा सह ।
आपो हिष्ठेत्य् ऋचस् तिस्रो द्रुपदा चाघमर्षणम् ॥
उद् उ त्यं चित्रं तच् चक्षुस् तेजो ऽसीति यथाक्रमम् ।
गायत्र्याश् च तुरीयं तु संध्याम् एतैः समाचरेत् ॥

इति, तत्राप्य् एतैर् मन्त्रैर् आत्मशुद्धिद्वारा संध्या समाचरेद् उपासीतेति संध्याशब्दस्य देवतापरत्वाद् अविरोध इति ॥

इति स्मृतिचन्द्रिकायां संध्याशब्दार्थनिर्णयः