२१ सन्ध्याप्रशंसा

अथ सन्ध्याप्रशंसा

तत्र योगयाज्ञवल्क्यः ।

अत ऊर्ध्वं प्रवक्ष्यामि संध्योपासननिर्णयम् ।
अहोरात्रकृतैः पापैर् याम् उपास्य प्रमुच्यते ॥
सर्वावस्थो ऽपि यो विप्रः संध्योपासनतत्परः ।
ब्राह्मण्याच् च न हीयेत अन्यजन्मगतो ऽपि सः ॥
यावन्तो ऽस्यां पृथिव्यां तु विकर्मस्था द्विजातयः ।
तेषां हि पावनार्थाय सृष्टा संध्या स्वयंभुवा ॥
त्रिंशत्कोट्यस् तु विख्याता मन्देहा नाम राक्षसाः ।
प्रद्रवन्ति सहस्रांशुम् उद्यन्तं दिने दिने ॥
अहन्य् अहनि ते सर्वे सूर्यम् इच्छन्ति खादितुम् ।
अतः सूर्यस्य तेषां च युद्धम् आसीत् सुदारुणम् ॥
ततो देवगणाः सर्वे ऋषयश् च तपोधनाः ।
संध्यां तु समुपासीना यत् क्षिपन्त्य् अन्वहं जलम् ॥
ब्रह्मव्याहृतिसंयुक्तं गायत्र्या चाभिमन्त्रितम् ।
दह्यन्ते तेन ते दैत्या वज्रीभूतेन वारिणा ॥
एतद् विदित्वा यः संध्याम् उपास्ते संशितव्रतः ।
दीर्घम् आयुः स विन्देत सर्वपापैः प्रमुच्यते ॥
यस् तु तां केवलां संध्याम् उपासीत स पुण्यभाक् ।
ताम् परित्यज्य कर्माणि कुर्वन्न् आप्नोति किल्बिषम् ॥
ब्रह्मणोपासिता संध्या विष्णुना शङ्करेण च ।
कस् तां नोपासयेद् देवीं सिद्धिकामो द्विजोत्तमः ॥

कश्यपो ऽपि ।

ब्रह्मणो हृदयं विष्णुर् विष्णोर् अपि शिवः स्मृतः ।
शिवस्य हृदयं संध्या तेनोपास्या द्विजोत्तमैः ॥ इति ।

**इति स्मृतिचन्द्रिकायां संध्याप्रशंसा **