५१ जप्यानि

अथ जप्यानि

तत्र योगयाज्ञवल्क्यः ।

जपयज्ञो हि कर्तव्यः सर्ववेदप्रणीतकैः ।
पवित्रैर् विविधैश् चन्यैर् गृह्योपनिषदां तथा ॥
अध्यात्मविद्या विविधा जप्यास् तु जपसिद्दयेत् ।

अन्यैर् देवतास्तवनादिभिः । विष्णुर् अपि - “स्नातः पवित्रपाणिः यथाशक्ति जपेद् विशेषतः सावित्रीम् पुरुषसूक्तं वा नैताभ्यां अधिकम् अस्ति” इति । तानि च पवित्राणि वसिष्ठेन दर्शितानि ।

सर्ववेदपवित्राणि वक्ष्याम्य् अहम् अतः परम् ।
येषां जपैश् च होमैश् च पूयते नात्र संशयः ॥
अघमर्षणं देवकृतं शुद्धवत्यस् तरत्समाः ।
कूश्माण्ड्यः पावमान्यश् च दुर्गा सावित्र्य् अथैव च ॥
अभिषङ्गाः पदस्तोभाः सामानि व्याहृतिस् तथा ।
वारुणानि च सामानि गायत्रं रैवतं तथा ॥
अब्लिङ्गा बार्हस्पत्यं च वाक्सूक्तं मध्वृचस् तथा ।
शतरुद्रम् अथर्वशिरस् त्रिसुपर्णं महाव्रतम् ॥
गोसूक्तम् अश्वसूक्तं च इन्द्रशुद्धे च सामनी ।
त्रीण्य् आज्यदोहानि रथन्तरं च अग्निव्रतं वासुदेव्यं बृहच् च ।
एतानि जप्यानि पुनन्ति जन्तून् जातिस्मरत्वं लभते य इच्छेत् ॥

अघमर्षण्म् ऋतं चेत्याद्यास् तिस्रः । देवकृतं देवकृत्स्यैनस इत्यादयः । शुद्धवत्य एतो ऽन्विन्द्रं स्तवामेत्याद्यास् तिस्रः । तरत्समास् तरत्समन्दी धावतीत्यद्यास् तिस्रः । कूश्माण्ड्यो यद् देवा देवहेऌअनम् इत्य् अनुवाकत्रयम् । पावमान्यः स्वादिष्ठय मदिष्ठयेत्य् एवमाद्याः । दुर्गा जातवेदसे सुनवाम सोमम् इत्य् एका ऋक् । सावित्री तत् सवितुर् इति । अभिषङ्गादयो रैवतान्ताः सामविशेषाः । अब्लिङ्गा आपो हिष्ठेत्याद्याः । बार्हस्पत्यं यस् तस्तम्भ सहसेत्य् एकादशर्चम् । वाक्सूक्तम् अहं रुद्रेभिर् इत्य् अष्टर्चम् । मध्वृचः मधु वाता ऋतायते इत्याद्यास् तिस्रः । शतरुद्रीयं नमस् ते रुद्र मन्यवे इत्य् एकादशानुवाकाः । त्रिसुपर्णं ब्रह्म मेतु (?) माम् इत्य् अनुवाकत्रयम् । महाव्रतं राजनं (?) नम साम । गोसूक्तं आ गावो अग्मन्न् (?) इत्य् अष्टर्चम् । अश्वसूक्तं मा नो मित्रो वरुण इति द्वाविंशर्चम् । इन्द्रशुद्धादयो बृहदन्ताः सामविशेषाः । एतानि पवित्राणि अघमर्षणानीत्य् अर्थः । चतुर्विंशताव् अपि ।

देवव्रताज्यदोहानि आग्नीध्रं च रथन्तरम् ।
घर्मसामानि रौद्राणि जप्त्वा पापैः प्रमुच्यते ॥
यज्ञायज्ञियम् आदित्यं ज्येष्ठसाम च राजनम् ।
गारुडानि च सामानि जप्त्वा मुच्येत किल्बिषात् ॥

मनुर् अपि ।

वेदम् एवाभसेन् नित्यं यथाकलम् अतन्द्रितः ।
न ह्य् अस्याहुः परं धर्मम् उपधर्मो ऽस्य उच्यते ॥
वेदाभ्यासेन सततं शौचेन तपसैव च ।
अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ॥
पौर्विकीं संस्मरन् जातिं ब्रह्मैवभसते द्विजः ।
ब्रह्माभासेन चाजस्रम् अनन्तं सुखम् अश्नुते ॥

यमो ऽपि ।

जपेद् वाप्य् अस्य वामीयं पावमानीर् अथापि वा ।
कुन्तापं वालखिल्यांश् च निवित् प्रैषं वृषाकपिम् ॥
होतॄन् रुद्रान् पितॄञ् जप्त्वा मुच्यते सर्वपातकैः ॥

अस्य वामीयम् “अस्य वामस्य पलितस्य होतुः” इति द्विपञ्चाशदृचम् । होतॄन् चित्तिः स्रुग् इत्यादि । रुद्रान् कद्रुद्रायेति पञ्च रुद्रसूक्तानि । पितॄन् परेयुवांसम् इत्यादीन् । चतुर्विंशताव् अपि ।

अग्नेर् मन्वे ऽनुवाकं तु जपेद् एनम् अनुत्तमम् ।
सिंहे मे मन्युर् इत्य् एतम् अनुवाकं जपेद् द्विजः ॥
जप्त्वा पापैः प्रमुच्येत बोधायनवचो यथा ।
त्रिमधु त्रिसुपर्णं च नाचिकेतत्रयं तथा ॥
नारायणं जपेत् सर्वं मुच्यते ब्रह्महत्यया ।
यत् किंचित् पातकं कुर्याद् यत् किंचेदम् ऋचं जपेत् ॥
हंसः शुचिषद् इत्य् एतां जपेद् वापि त्रियम्बकम् ।
ब्राह्मणानि च कल्पांश् च षडङ्गानि तथैव च ॥
आख्यातानि तथान्यानि जप्त्वा पापैः प्रमुच्यते ।
इतिहासपुराणानि देवतास्तवनानि च ॥
जप्त्वा पापैः प्रमुच्येत धर्माख्यानैस् तथा परैः ।

याज्ञवल्क्यो ऽपि ।

शुक्रियारण्यकजपो गायत्र्याश् च विशेषतः ।
सर्वपापहरा ह्य् एते रुद्रैकादशिनी तथा ॥

शुक्रियं विश्वानि देव सवितर् इति । आरण्यकं प्रियं शुक्रियं विश्वानि देव सवितर् इति । आरण्यकं प्रियं वाचं प्रपद्यत इति । एतद् द्वयम् अपि वाजसनेयके पठ्यते । रुद्रा एकादशकृत्वो ऽभ्यस्यन्ते यस्यां जपक्रियायां सा रुद्रैकादशिनीत्य् उच्यते । अत्रिर् अपि ।

एकादशगुणान् वापि रुद्रान् आवृत्य धर्मवित् ।
महापापैर् अपि स्पृष्टो मुच्यते नात्र संशयः ॥

पुराणे ऽपि ।

पृथिवीं ससागरां यो हि कृत्स्नां शैलवनान्विताम् ।
दद्यात् काञ्चनसंपूर्णां हैमीम् ओषधिसंयुताम् ॥
तस्याधिकफलं नूनं रुद्रजापी सकृद् द्विजः ।
तपस् तप्यति चात्यर्थं सहस्राब्दानि संयमी ॥
न स तत्फलम् आप्नोति यः सकृद् रुद्रजापकः ।
गवां कोटिप्रदानं यः करोति विधिवद् गुरौ ॥
न स तत्फलम् आप्नोति यः सकृद् रुद्रजापकः ।
यज्ञस् तपश् च दानानि तीर्थानि विविधानि च ॥
एतानि रुद्रजापस्य कलां नार्हन्ति षोडशीम् ॥

अत्र संवर्तः ।

स्वरमात्राविहीनं तु पादाक्षरविवर्जितम् ।
न्यूनाधिकं वा कृत्वा तु आभिर् गीर्भिर् इतीरयेत् ॥ इति ।

इति स्मृतिचन्द्रिकायां जप्यानि