५० जपयज्ञप्रशंसा

अथ जपयज्ञप्रशंसा

तत्र वसिष्ठः ।

ये पाकयज्ञाश् चत्वारो विधियज्ञसमन्विताः ।
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥

पाकयज्ञा देवयज्ञादयः । विधियज्ञो ज्योतिष्टोमादिः । मनुर् अपि ।

विधियज्ञाज् जपयज्ञो विशिष्टो दशभिर् गुणैः ।
जप्येनैव तु संसिद्ध्येद् ब्राह्मणो नात्र संशयः ॥

यमो ऽपि ।

वृत्तीनां कर्षणं श्रेष्ठं धर्माणां स्वागतक्रिया ।
जपयज्ञस् तु यज्ञानां सर्वेषाम् उत्तमः स्मृतः ॥

पुराणे ऽपि ।

यक्षरक्षःपिशाचाश् च ग्रहाः सर्वे विभीषणाः ।
जपिनं नोपसर्पन्ति दूराद् एवापयान्ति ते ॥

वसिष्ठो ऽपि ।

यथाग्निर् वायुनोद्धूतो हविषा चैव दीप्यते ।
एवं जप्यपरो नित्यं मन्त्रयुक्तः सदा द्विजः ॥ इति ।

इति स्मृतिचन्द्रिकायां जपयज्ञप्रशंसा