३४ जपमाला

**अथ जपमाला **

तत्र योगयाज्ञवल्क्यः ।

स्फोटिकेन्द्राक्षरुद्राक्षैः पुत्रजीवसमुद्भवैः ।
अक्षमाला तु कर्तव्या उत्तमा ह्य् उत्तरोत्तरा ॥

पुराणे ऽपि ।

अक्षसूत्रं तु कर्तव्यं मुक्तामणिमयं शुभम् ।
सौवर्णं राजतं ताम्रं स्फोटिकं वाथ कारयेत् ॥

हारीतो ऽपि ।

शङ्खरूप्यमयी माला काञ्चनी निम्बजैः फलैः ।
पद्माक्षकैस् च रुद्राक्षैर् विर्द्रुमैर् (?) मणिमौक्तिकैः ॥
रजतेन्द्राक्षकैर् माला तथैवाङ्गुलिपर्वभिः ।
पुत्रजीविमयी माला शस्ता वै जपकर्मणि ॥

अत्र व्यासः ।

हिरण्यरत्नमणिभिर् जप्यं शतगुणं भवेत् ।
सहस्रगुणम् इन्द्राक्षै रुद्राक्षैर् अयुतं भवेत् ॥
नियतं प्रयुतं वा स्यात् पद्माक्षैस् तु न संशयः ।
पुत्रजीविकजप्यस्य परिसंख्या न विद्यते ॥

स्मृत्यन्तरे ऽपि ।

हस्तसंख्याकृताज् जप्याद् अरिष्टैर् अष्टधा फलम् ।
पुत्रजीवेन दशधा फलं स्यान् मन्त्रजापिनाम् ॥
शतधा शङ्खपद्माभ्यां मणिभिस् तु सहस्रधा ।
कुशग्रन्थ्या च रुद्राक्षैः फलं लक्षगुणं भवेत् ॥

हारीतो ऽपि ।

जप्यं शतगुणं प्रोक्तं निम्बारिष्टकमालया ।
रुद्राक्षैर् लक्षगुणितं विद्रुमैर् दशलक्षकम् ॥
मौक्तिकैः स्फोटिकैश् चैव कोटिकोटिगुणोत्तरम् ।
परिसंख्या न विज्ञेया रुद्राक्षाङ्गुलिपर्वभिः ॥
पद्माक्षैः पुत्रजीवैश् च परिसंख्या न विद्यते ।

ब्रह्मापि ।

रुद्राक्षैर् द्विगुणं हेम्नः पद्मबीजैस् तथार्बुदम् ।
कुशग्रन्थ्या द्विजश्रेष्ठ कोटिकोटिर् विशिष्यते ॥

रुद्राक्षं प्रकृत्य स्कन्दपुराणे ।

लक्षकोटिसहस्रस्य लक्षकोटिशतस्य च ।
जपे च लभते पुण्यं नात्र कार्या विचारणा ॥
उच्छिष्टो वा विकर्मस्थः संलिप्तः सर्वपातकैः ।
मुच्यते सर्वपापेन रुद्रक्षस्य तु धारणात् ॥
रुद्राक्षं कण्ठ आधाय श्वापीह म्रियते यदि ।
सो ऽपि रुद्रपदं याति किं पुनर् मानुषादयः ॥ इति ।

अत्र पुराणम् ।

स्फाटिकं त्व् अक्षसूत्रं तु शान्तिपुष्टिकरं हि तत् ।
सर्वसिद्धिकरं स्वर्णं मौक्तं राजतम् एव च ॥
भुक्तिमुक्तिप्रदं शङ्खं पद्मेन्द्राक्षौ च दर्भजम् ।
सर्वकामप्रदं धन्यम् आयुष्यं सर्वसिद्धिदम् ।
पुत्रजीवाक्षसूत्रं तु शान्तिपुष्टिप्रदायकम् ॥

हारीतो ऽपि ।

शङ्खहेममयी रौप्या माला वै शान्तिकर्मणि ।
पद्माक्षैर् इन्द्ररुद्राक्षैर् मृन्मयैः पुष्टिकर्मणि ॥
पुत्रजीवाङ्गुलीपर्वमाला स्यान् मुक्तिसिद्धिदा ।
स्फटिकै रचिता माला मुक्तिदा वित्तदा तथा ॥ इति ।

अत्र संख्यानियमम् आह ब्रह्मा ।

अष्टोत्तरशतां कुर्याच् चतुःपञ्चाशिकां तथा ।
सप्तविंशतिका कार्या ततो नैवाधिका मता ॥
अष्टोत्तरशता माला उत्तमा सा प्रकीर्तिता ।
चतुःपञ्चाशिका या तु मध्यमा सा प्रकीर्तिता ॥
अधमाप्य् उच्यते नित्यं माला द्वात्रिंशसंभवा ।
उत्तमेषु च साध्येषु भोगमोक्षप्रदेषु च ॥
अष्टोत्तरशतायां तु मालायां जपम् आचरेत् ।
चतुःपञ्चाशिकायां वा नाधमायां कदाचन ॥
वश्यादिक्षुद्रकर्माणि मारनोच्चाटनानि च ।
विद्वेषोन्मादमोहानि जपेद् द्वात्रिंशकैर् द्विजः ॥
अधमेनाधमान्य् एव ह्य् अक्षसूत्रेण योजयेत् ।
अधमे चाधमां मालाम् उत्तमां तु विसर्जयेत् ॥ इति ।

अत्र स्कन्दपुराणम् ।

तर्जन्या न स्पृशेत् सूत्रं कम्पयेन् न च धूनयेत् ।
अङ्गुष्ठस्य तु मध्यस्थे परिवर्तं समाचरेत् ॥
उल्लङ्घिते तथा मेरौ पतिते चाक्षसूत्रके ।
प्राणायामशतं कृत्वा घृतप्राशनम् आचरेत् ॥

अङ्गुष्ठाकर्षणम् ।

मध्यमाकर्षणं तस्य सर्वसिद्धिप्रदायकम् ।
नान्याङ्गुलिभिर् आकर्षेन् न नखैश् च तथा स्पृशेत् ॥ इति

**इति श्रीसकलविद्याविशारदश्रीकेशवादित्यभट्टोपाध्यायसूनुना **

याज्ञिकदेवणभट्टोपाध्यायेन विरचितायां स्मृतिचन्द्रिकायां

प्रातःसंध्याकाण्डं संपूर्णम्