४७ आपद्-वृत्तयः

अथापद्वृत्तयः

अत्र मनुः -

अजीवंस् तु यथोक्तेन ब्राहमण्ः स्वेन कर्मणा ।
जीवेत् क्षत्रियधर्मेण स ह्य् अस्य प्रत्यन्तरः ॥
उभाभ्याम् अप्य् अजीवंस् तु कथं स्याद् इति चेद् भवेत् ।
कृषिगोरक्ष्यम् आस्थाय जीवेद् वैश्यसय जीविकाम् ॥

प्रत्यनन्तरः संनिकृष्टः । उभाभ्यां ब्राह्मणक्षत्रियवृत्तिभ्याम् अप्य् अजीवन् वैश्यवृत्तिकाम् आस्थाय जीवेन् न शूद्रस्येत्य् अर्थः । तथा च बृहस्पतिः ।

अजीवन् कर्मणा स्वेन विप्रः क्षत्रं समाश्रयेत् ।
वैश्यकर्माथ वा कुर्याद् वार्पलं (?) परिवर्जयेत् ॥

वृषलः शूद्रः । वैश्यकर्मणि विशेषम् आह गौतमः - “कृषिवाणिज्ये चास्वयंकृते कुसीदं च” इति । कुसीदं वृद्ध्यर्थं धनप्रयोगः । कूर्मपुराणे ऽपि ।

कुसीदकृषिवाणिज्यं प्रकुर्वीतास्वयंकृतम् ।
कृषेत् अभावे वाणिज्यं तदभावे कुसीदकम् ॥ इति ।

यत् पुनर् मनुनोक्तम्,

वैश्यवृत्त्यापि जीवंस् तु ब्राह्मणः क्षत्रियो ऽपि वा ।
हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत् ॥
कृषिं साद्व् इति मन्यन्ते सा वृत्तिः सद्विगर्हिता ।
भूमिं भूमिशयांश् चैव हन्ति काष्ठम् अयोमुखम् ॥

इति, तत् स्वयंकृताभिप्रायम्, अन्यथा पूर्वोक्तवचनविरोधात् पराधीनाम् बलीवर्दायत्ताम् । परकृतकृष्याद्यसंभवे तु स्वयं कृतम् अपि कृष्यादि भवत्य् एव । यथोक्तं बृहस्पतिना ।

कुसीदकृषिवाणिज्यं प्रकुर्वीत स्वयं कृतम् ।
आपत्काले स्वयं कुर्यान् नैनसा युज्यते द्विजः ॥ इति ।

कूर्मपुराणे ऽपि ।

स्वयं वा कर्षणं कुर्याद् वाणिज्यं वा कुसीदकम् ।
कष्टा पापीससी वृत्तिः कुसीदं तां विवर्जयेत् ॥ इति ।

तथा नारदो ऽपि वृद्ध्यपजीवनं निषिद्धम् इत्य् आह ।

आपत्स्व् अपि हि कष्टासु ब्राह्मणस्य न वार्धुषम् । इति ।

वसिष्ठो ऽपि - “ब्राःमणराजन्यौ वार्धुषं न दद्याताम्” इति । वार्धुषं वृद्ध्यर्थं धनप्रयोगं न कुर्याताम् इत्य् अर्थः । एतत् सर्वम् अन्यहस्ताद् आदाय प्रयोगनिषेधपरम् । यतो ऽनन्तरम् आह स एव ।

समार्घं धनम् उद्धृत्य महार्घं यः प्रयच्छति ।
स वै वार्द्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥ इति ।

अन्यहस्ताद् अल्पिकया वृद्ध्या धनं गृहीत्वा अन्यस्मै महत्या वृद्ध्या यो ददाति स वार्धुषिको ब्रह्मवादिषु गर्हित इत्य् अर्थ । अत्रानन्तरं दोषो ऽपि तेनैव दर्शितः ।

भ्रूणहत्यां च वृद्धिं च तुलया समतोलयत् ।
अतिष्ठद् भ्रूणहा कोट्यां वार्द्धुषिः समकम्पत ॥

हारीतो ऽपि ।

ब्रह्मघ्नं वृद्धिजीवं च तुलया समतोलयेत् ।
अतिष्ठद् ब्रह्महा कोठ्यां वृद्धिजीवस् (?) त्व् अकम्पत ॥

एवं धान्यादिविक्रये ऽपि द्रष्टव्यम् । तथा च मनुः ।

समार्घं पण्यम् आहृत्य महार्घं यः प्रयच्छति ।
स वै वार्धुषिको नाम यश् च वृद्ध्या प्रयोजयेत् ॥ इति ।

अत्र,

यः समार्घम् ऋणं गृह्य महार्घं संप्रयोजयेत् ।
स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितिअः ॥
वृद्धिं च ब्रह्महत्यां च तुलया समतोलयत् ।
अतिष्ठद् ब्रह्महा कोठ्यां वार्धुषिः समकम्पत ॥

इति बोधायनोक्तो विशेषः । एतच् च विशिष्टस्यैव निषेधात् कथंचित् स्वकीयस्ववृद्ध्यर्थं धनप्रयोगो न निष्द्ध्यते इति गम्यते । अत एव मनुः ।

ब्राह्मणः क्षत्रियो वापि वृद्धिं नैव प्रयोजयेत् ।
कामं तु खलु धर्मार्थे दद्यात् पापीयसे ऽल्पिकाम् ॥ इति ।

पापीयसे निकृष्टकर्मणे धर्मार्थम् अल्पिकया दद्याद् इत्य् अर्थः । तथा च पैठीनसिः - “कामं तु पापीयसे दद्यान् न ज्यायसीं वृद्धिम् उपाददीत” इति । सा च बृद्धिर् मनुना दर्शिता ।

वसिष्ठविहितां वृद्धिं सृजेद् वित्तविवर्धिनीम् ।
अशीतिभागं गृह्णीयान् मासाद् वार्धुषिकः शते ॥ इति ।

यत् तु बृहस्पतिनोक्तम्,

बहवो वर्ध्नोपाया ऋषिभिः परिकीर्तिताः ।
सर्वेषाम् अपि चैतेषां कुसीदम् अधिकं विदुः ॥

इति, तद् वित्तवृद्धौ आधिक्यप्रतिपादनपरं न पुनः श्रैष्ठ्याभिधानाय । यतो ऽनन्तरम् आह स एव ।

अनावृष्ट्या रजभायान् मूषकाद्यैर् उपप्लवैः ।
कृष्यादिके भवेद् धानिः सा कुसीदे न विद्यते ॥
शुक्लपक्षे तथा कृष्णे रजन्यां दिवसे ऽपि वा ।
उष्णे वर्षति शीते वा वर्धते न निवर्तते ॥
देशं गतानां या वृद्धिर् नानापण्योपजीविनाम् ।
कुसीदं कुर्वतः सम्यक् सा स्थितस्यैव जायते ॥ इति ।

एवं च ब्राह्मणः सीदन् क्षात्रधर्मेण जीवेद् अलाभे विशां वा न शौद्रेणेति सिद्धम् । एवं क्षत्रियवैशयोर् अपि स्वानन्तरा वृत्तिर् वेदितव्या । तथा च मनुः ।

जीवेद् एतेन राजन्यः सर्वेणाप्य् अनयं गतः ।
न त्व् एव ज्यायसीं वृत्तिम् अभिमन्येत कर्हिचित् ॥ इति ।

एतेन वैश्यवर्तनेन । अनयं गतः आपदं प्राप्त इत्य् अर्थः ।

वैश्यो ऽजीवन् स्वधर्मेण शूद्रवृत्त्यापि वर्तयेत् ।
अनाचारन्न् अकार्याणि निवर्तेत च शक्तिमान् ॥

अकार्याण्य् उच्छिष्टभोजनादीनि । शक्तिमान् निस्तीर्णापत्कः । शूद्रवृत्त्या निवर्तेतेत्य् अर्थः । वसिष्ठो ऽपि - “अजीवन् स्वधर्मेणानन्तरां पपीयसीं वृत्तिं तिष्ठेन् न कदाचिज् ज्यायसीम्” इति । पापीयसीं हीनवर्णविषयाम् । ज्यायसीम् उपरितनवर्णविषयाम् । शूद्रस्य तूपरितनवर्णविxअयो ऽपि भवत्य् एव । तद् आह नारदः ।

उत्कृष्टं चापकृष्टं च तयोः कर्म न विद्यते ।
मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥ इति ।

तयोर् ब्राह्मणशूद्रयोर् मध्ये ब्राह्मणस्यापकृष्टं शौद्रं कर्म नास्ति । तथा शूद्रस्योत्कृष्टं ब्राह्मणकर्म नास्तीत्य् अर्थः । केचिद् अत्यन्तापदि शौद्रम् अपि कर्मेच्छन्ति । तद् आह गौतमः - “अशौद्रेण । तद् अप्य् एके प्राणसंशये” इति । अशौद्रेण कर्मणा जीवेत् । प्राणसंदेहे तद् अपि जीवनार्थम् इत्य् अर्थः । शूद्रापद्वृत्तयस् तु याज्ञवल्क्येन दर्सिताः ।

शूद्रस्य द्विजशुश्रूषा तयाजीवन् वणिग् भवेत् ।
शिल्पैर् वा विविधैर् जीवेत् द्विजातिहितम् आचरेत् ॥ इति ।

यैः कर्मभिर् द्विजातयः शुश्रूष्यन्ते तैर् इत्य् अर्थः । तथा च मनुः ।

यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः ।
तानि कारुककर्माणि शिल्पानि विविधानि च ॥ इति ।

तत्र वृत्त्यन्तराण्य् आह याज्ञवल्क्यः ।

कृषिः शिल्पं भृतिर् विद्या कुसीदं शकटं गिरिः ।
सेवानूपो नृपो बैक्षम् आपत्तौ जीवनानि तु ॥

शिल्पं सूपकरणादि । भृतिः प्रेष्यत्वम् । विद्या भृतकाध्यापनादि । कुसीदं वृद्ध्यर्थं धनप्रयोगः । सकटं धान्यादिवहनद्वारेण जीवनार्थम् । गिरिः स्वगततृणादिद्वारेण । सेवा परचित्तानुवर्तनम् । अनूपो बहुवृक्षजलो देशः । नृपो राजा । एतान्य् आपत्तौ जीवनानीति वचनाद् आपदवस्थायां यस्य या वृत्तिः प्रतिषिद्धा सा तस्याभ्यनुज्ञायते । मनुर् अपि ।

विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः ।
धृतिर् भैक्षं कुसीदं च दश् जीवनहेतवः ॥ इति ।

धृतिः संतोषः । यस्मिन्न् अतिस्वल्पेनापि जीव्यन्ते । तत्र् अङ्गिराः ।

व्याधितस्य दरिद्रस्य कुटुम्बात् प्रच्युतस्य च ।
अध्वानं वा प्रवृत्तस्य भिक्षाचर्यं विधीयते ॥ इति ।

एतद् अपि परवृत्त्याश्रयणं विगुणाया अपि स्ववृत्तेर् अलाभविषयम् । तथा च मनुः ।

वरं स्वधर्मो विगुणः न पारक्यः स्वनुष्ठितः ।
परधर्मेण जीवन् हि सद्यः पतति जातितः ॥

गौतमो ऽप् - “याजनाध्यापनप्रतिग्रहाः सर्वेषां पूर्वः पूर्वो गुरुः । तदलाभे क्षत्रवृत्तिः” इति । सर्वेषां ब्राह्मणादीनां च कार्या इति शेषः । तत्रापत्कल्प इत्य् अनुवर्तते । अतः सर्वग्रहणेनाप्रशस्ता गृह्यन्ते । प्रशस्तानाम् अनापदि विधानात् । अनेन याजनाध्यपनाभ्यां प्रतिग्रहः प्रशस्त इत्य् उक्तं भवति । यमो ऽपि ।

प्रतिग्रहाध्यपनयाजनानां प्रतिग्रहं श्रेष्ठतमं वदन्ति ।
प्रतिग्रहाच् छुद्ध्यति जप्यहोमैः याज्यं तु पापैर् न पुनन्ति वेदाः ॥

याज्यं याजकम् इत्य् अर्थः । एतद् द्विजातिप्रतिग्रहाभिप्रायम् । शूद्रविषयसैव मनुना याजनाध्यापनाभ्यां निकृष्टत्वाभिधानात् ।

प्रतिग्रहाद् याजनाद् वा तथैवाध्यपनाद् अपि ।
प्रतिग्रहः प्रत्यवरः स तु विप्रस्य गर्हितः ॥ इति ।

प्रत्यवरो निकृष्टः । अत्र हेतुम् आह स एव ।

याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम् ।
प्रतिग्रहस् तु क्रियते शूद्राद् अप्य् अन्त्यजन्मनः ॥
जपहोमैर् अपैत्य् एनो याजनाध्यापनैः कृतम् ।
प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ॥ इति ।

संस्कृतात्मनां द्विजातीनाम् इति यावत् । अतो याजनाध्यपनाभ्यां द्विजातेः प्रतिग्रह एव श्रेयान् इति मन्तव्यम् । प्रतिग्रहे ऽपि विशेषम् आह मनुः ।

अकृतं च कृतात् क्षेत्राद् गोर् अजाविकम् एव च ।
हिरण्यं धान्यम् अन्नं च पूर्वं पूर्वम् अदोषवत् ॥ इति ।

अकृतम् अकृष्टम् । वैशवृत्त्या जीवतो यद् अपण्यं तद् आह याज्ञवल्क्यः ।

फलोफलक्षौमसोममनुष्यापूपवीरुधः ।
तिलौदनरसक्षौद्रदधिक्षीरघृतं जलम् ॥
शस्त्रासवमधूच्छिष्टमधुलाक्षाः सबर्हिषः ।
मृच्चर्मपुष्पकुतपकेशतक्रविषक्षितीः ॥
कौशेयनीलीलवणमांसैकशफसीसकान् ।
शाकार्द्रौषधिपिण्याकपशुगन्धांस् तथैव च ॥
वैश्यवृत्त्यापि जीवन् नो विक्रीणीत कदाचन ॥ इति ।

फलानि बदरेङ्गुदव्यतिरिक्तानि । उपलं माणिक्यादि । क्षौमम् अतसीसूत्रनिर्मितम् । अपूपं मण्ट्कादि । वीरुल् लता । रसा इक्षुरसादयः । आसवो मद्यम् । मधूच्छिष्टं सिक्थकम् । मधु क्षौद्रम् । लाक्षा जतु । बर्हिः कुशादि । कुतपः कम्बलविसेषः । केशाश् चमर्यादिसंबन्धाः । एकशफाः अश्वादयः । पशव आरण्या ग्राम्याश् च, “पशूनाम् एकशफाः केशिनश् च सर्वे चारण्याः पशवो वसांसि दंष्ट्रिणश् च” इति वसिष्ठस्मरणात् । केशिनो मनुष्याः । गौतमो ऽपि - “तस्यापण्यं गन्धरसकृतान्नतिलशाणक्षौमाजिनानि रक्तनिर्णिक्ते वाससी क्षीरं सविकारं मूलफलपुष्पौषधमधुमांसतृणोदकपथ्यानि पशवश् च हिंसा संयोगे पुरीषवशाकुमारिवेहतश् च नित्यं भूमिव्रीहियवाजाव्यश्वर्षभधेन्वनडुहश् चैके” इति । कृतान्नं पक्वान्नम् । रक्तं तान्तवम्, “रक्तं शाणक्षौमविकानि च” इति मनुस्मरणात् । निर्णिक्तं प्रक्षालितम् । मूलं हरिद्रादि । फलं क्रमुकादि । अपथ्यं विषम् । हिंसासंयोगे संज्ञप्ते पशवो न विक्रेयाः । वशा वन्ध्या । वेहद् गर्भघातिनी । भूम्यादयो ऽपि नित्यम् अविक्रेया इत्य् एके मन्यन्ते । एकग्रहणान् न गौतम इति व्याक्यातं तद्भाष्ये । अविक्रेयम् इत्य् अनुवृत्तौ नारदो ऽपि ।

कुसुम्भं नारिकेलं च वृन्ताकं पूतिकं तथा ।
सोमः श्लेष्मान्तको यज्ञस् तोयं सर्पिश् च सर्वथा ॥

मनुर् अपि ।

क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् । इति ।

क्षौद्रं माक्षिकम् । अयं चापण्यनिषेधो ब्राह्मणस्यैव । यद् आह नारदः ।

वैश्यवृत्त्याप्य् अविक्रेयं ब्राह्मणस्य पयो दधि । इति ।

आपस्तम्बो ऽपि - “अविहिता ब्राह्मणस्य वणिज्या । आपदि व्यवहरेत पण्यानाम् अपण्यानि व्युदस्यन्” इति । अपण्यानि व्युदद्यन् पण्यैर् व्यवहरेतेत्य् अर्थः । अत्रापि विशेषम् आह स एव - “अक्रीतपण्यैर् व्यवहरते” इति । अक्रीतपण्यैः क्रयेतरोपआयलब्धैर् इत्य् अर्थः । अनेनाप्द्य् अक्रीतपण्यैर् अपि न व्यवहरेद् इत्य् उक्तं भवति । एवम् उक्तनिषेधातिक्रमणे दोषम् आहतुः शङ्खलिखितौ - “तिलदधिक्षौद्रलवणलाक्षामद्यमांसकृतान्नस्त्रीपुरुषहस्त्यश्ववृषभगन्धरसकृष्णा-जिनसोमोदकात् सद्यः पतति ब्राह्मणः” इति । याज्ञवल्क्यो ऽपि ।

लाक्षालवणमांसानि पतनीयानि विक्रये ।
पयो दधि च मद्यं च हीनवर्णकरानि तु ॥

हीनवर्णः शूद्रः । मनुर् अपि ।

सद्यः पतति मांसेन लाक्षया लवनेन च ।
त्र्यहेण शुद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥
इतरेषां तु पण्यानां विक्रयाद् इह कमतः ।
ब्राह्मणः सप्तरात्रेण वैश्यभावं निगच्छति ॥

यमो ऽपि ।

स्नेहद्रव्यरसानां च सत्वानां जीवताम् अपि ।
विक्रेता दानपण्यानां प्रोच्यते ब्रह्महा बुधैः ॥
गवां विक्रयकारी तु गवि रोमाणि यानि तु ।
तावद् वर्षसहस्राणि गवां गोष्ठे क्रिमिर् भवेत् ॥
दानाभ्यञ्जनभोगेभ्यो यद् अन्यत् कुरुते तिलैः ।
क्रिमिर् भवति विष्ठायां कर्मणा तेन पापकृत् ॥

मनुर् अपि ।

भोजनाभ्यञ्जनाद् दानाद् यद् अन्यत् कुरुते तिलैः ।
क्रिमिर् भूत्वा स विष्ठायां पितृभिः सह मज्जति ॥ इति ।

यत् तु तेनैवोक्तम्,

कामम् उत्पाद्य कृष्यां तु स्वयम् एव कृषीवलः ।
विक्रीणीत तिलाञ् छुद्धान् धर्मार्थम् अचिरस्थितान् ॥

इति — शुद्धान् द्रव्यान्तरेणामिश्रान् — यद् अपि वसिष्ठेन - “कामं वा स्वयं कृष्योत्पाद्य तिलान् विक्रीनीरन्” इति, तद् विनिमयलक्षणविक्रयाभिप्रायम् । यद् आह नारदः ।

अशक्तौ भेषजस्यार्थे यज्ञहेतोस् तथैव च ।
यद्य् अवश्यं तु विक्रेयास् तिला धान्येन तत्समाः ॥ इति ।

धान्येनैव तु तुल्यमानास् तिला विक्रेयाः न रूपकादिनेत्य् अर्थः । याज्ञवल्क्यो ऽपि ।

धर्मार्थं विक्रयं नेयास् तिला धान्येन तत्समाः ।

मनुर् अपि ।

रसा रसैर् निमातव्या न त्व् एव लवणं रसैः ।
कृतान्नं चाकृतान्नेन तिला धान्येन तत्समाः ॥

कृतान्नं पक्वान्नम् । निमातव्याः परिवर्तनीया इत्य् अर्थः । एवं मनुष्यादिष्व् अपि द्रष्टव्यम् । अत एव आपस्तम्बः - “अन्नेन चान्नस्य मनुष्याणां च मनुष्यैः रसानां च रसैः गन्धानां च गन्धैः विद्यया च विद्यानाम्” इति । अत्र विनिमय इत्य् अनुवर्तते । रसेषु विशेषम् आह वसिष्ठः - “रसा रसैः समतो हीनतो वा निमातव्याः” इति । समस्तस् तुल्यमानत्वेन । हीनतो ऽल्पपरिमाणत्वेन । गौतमस् त्व् अन्नविषये विशेषम् आह - “समेनामेन तु पक्वस्य” इति । पक्वसमेनामेन पक्वविनिमयो भवतीत्य् अर्थः । अत्र हारीतः ।

विनिमयस् तु रसादीनां विक्रयो नैव दुष्यति ।
यज्ञार्थे दक्षिणादीनां प्रजापतिवचो यथा ॥

नारदो ऽपि ।

ब्राह्मणस्य तु विक्रेयं शुष्कं दारुतृणानि च । इति ।

एवं परवृत्त्याश्रयणेन आपदं निस्तीर्य प्रायश्चित्तेन पावयित्वात्मानं स्ववृत्ताव् एव न्यसेत् । तथा च याज्ञवल्क्यः ।

क्षात्रेण कर्मणा जीवेद् विशां वाप्य् आपदि द्विजः ।
निस्तीर्य ताम् अथात्मानं पावयित्वा न्यसेत् पथि ॥ इति ।

इति स्मृतिचन्द्रिकायाम् आपत्काण्डम्