४६ प्रतिग्रहादिनिरूपणम्

प्रतिग्रहादिनिरूपणम्

उक्तं ब्राह्मणस्य् प्रतिग्रहादिषु सामान्येनाधिकार इति । अधुजा विशेषतो ऽधिकारो निरूप्यते । तत्र याज्ञवल्क्यः ।

राजान्तेवासियाज्येभ्यः सीदन्न् इच्छेद् धनं क्षुधा। इति ।

क्षुधा सीदन् पीड्यमात्नो राजप्रतिग्रहादिष्व् अधिक्रियत इत्य् अर्थः । मनुर् अपि ।

राजतो धनम् अन्विच्छेत् संसीदन् स्नातकः क्षुधा ।
याज्यान्तेवासिनोर् वापि न त्व् अन्यत इति स्थितिः ॥

एतच् च सति संभवे अन्यतो धनग्रहणनिषेधपरं न पुनर् अत्यन्तनिषेधाय,

सर्वतः प्रतिगृह्णीयाद् ब्राह्मणस् त्व् अनयं गतः ।

इति तेनैवोक्तत्वात् । अत एव नारदो ऽपि राजादिप्रतिग्रह एव श्रेयान् इत्य् आह ।

श्रेयान् प्रतिग्रहो राज्ञां नान्येषां ब्राह्मणाद् ऋते ।
ब्राह्मणश् चैव राजा च द्वाव् अप्य् एतौ धृतव्रतौ ॥
नैतयोर् अन्तरं किंचित् प्रजाधर्माभिरक्षणात् ।
शुचीनाम् अशुचीनां च संनिपातो यथाम्भसाम् ।
समुद्रे समतां याति तद्वद् राज्ञां धनागमः ॥
यथाग्नौ संस्थितं चैव शुद्धिम् एति हि काञ्चनम् ।
एवं धनागमाः सर्वे शुद्धिम् आयान्ति राजनि ॥ इति ।

अत्र सति विभवे राजादिभ्यो धनं लिप्सेद् इति भवः । अत एव मनुः ।

न सीदेत् स्नातको विप्रः क्षुधा सक्तः कथंचन ।
न जीर्णमलवद्वासा भवेच् च विभवे सति ॥

क्षुधा न सीदेद् इत्य् अनेन असत्यां क्षुधि न प्रतिग्रहादि कार्यम् इत्य् उक्तं भवति ।

विद्यमाने धने यस् तु प्रतिग्रहरुचिर् द्विजः ।
नरकं रौरवं प्राप्य ततैव परिपच्यते ॥

यमो ऽपि ।

यस् तु याचनिको मर्त्यो न स स्वर्गस्य् भाजनम् ।
उद्वेजयति भूतानि यथा चोरस् तथैव सः ॥
सक्ताः प्रतिग्रहे ये तु न तु दाने कदाचन ।
तेषां वैवस्वतः प्राह न तूर्धगमनं क्वचित् ॥ इति ।

शातातपो ऽपि ।

वेदाक्षराणि यावन्ति नियुञ्जीतार्थकारणात् ।
तावन्ति भ्रूणहत्या वै वेदविक्रय्य् अवाप्नुयात् ॥

धनार्थं वेदाक्षराणां विनियोगो वेदविक्रयः । तद्वा वेदविक्रयी । स भ्रूणहत्याम् अवाप्नोतीत्य् अर्थः । वेदविक्रयश् छागलेन षड्विधो दर्शितः ।

प्रख्यापनं प्रलपनं प्रश्नपूर्वप्रतिग्रहः ।
याजनाध्यापने वादः षड्विधो वेदविक्रयः ॥ इति ।

एवं प्रश्नपूर्वदाने ऽपि दोषो द्रष्टव्यः । तद् आह शातातपः ।

प्रश्नपूर्वं तु यो दद्याद् ब्राह्मणाय प्रतिग्रहम् ।
स पूर्वं नरकं याति ब्राह्मणस् तदनन्तरम् ॥

ननु यदि सधनस्यैव प्रतिग्रहनिषेधस् तर्हि निर्धनस्य प्रागुक्तदोषाभावः स्यात् । सत्यं किं तु तत्राप्य् अस्ति व्यासोकदोषः ।

प्रतिग्रहरुचिर् न स्याद् वृत्त्यर्थं तु समाचरेत् ।
वृत्त्यर्थाद् अधिकं गृह्णन् ब्राह्मणो यात्य् अधोगतिम् ॥
वृत्तिसङ्कोचम् अन्विच्छेन् नेहेत धनसंचयम् ।
धनलाभे प्रवृत्तस् तु ब्राह्मण्याद् एव हीयते ॥

वृत्तिर् वर्तनम् । मनुर् अपि ।

संतोषं परम् आस्थाय सुखार्थी संयतो भवेत् ।
संतोषमूलं हि सुखं दुःखमूलं विपर्ययः ॥

संयतः प्रत्याहृतेन्द्रियः । व्यासो ऽपि ।

संतुष्टः को न शक्नोति फलैर् मूलैश् च वर्तितुम् ।
सर्वस् त्व् इन्द्रियलौल्येन सङ्कटान्य् अवगाहते ॥
दरिद्रो ऽर्थं ततो राज्यं तथेन्द्रत्वं ततो ऽक्षयम् ।
पदं वाञ्छति नान्तो ऽस्ति तस्तात् तृष्णां परित्यजेत् ॥ इति ।

ततो धर्मसंचय एवावश्यको न धनसंचय इत्य् अभिप्रायः । तथा च मनुः ।

नामुत्र हि सहायार्थं पिता माता च तिष्ठतः ।
न पुत्रदादा न ज्ञातिः धर्मस् तिष्ठति केवलः ॥
एकः प्रजायते जन्तुर् एक एव प्रलीयते ।
एको ऽनुभुङ्क्ते सुकृतम् एक एव च दुष्कृतम् ॥
मृतं शरीरम् उत्सृज्य काष्ठलोष्टसमं क्षितौ ।
विमुखा बान्धवा यान्ति धर्मस् तम् अनुगच्छति ॥
तस्माद् धर्मं सहायार्थं नित्यं धर्मस् तम् अनुगच्छति ॥ इति ।

एवं चासति धने राजादिभ्यः स्थितिमात्रपर्याप्तं धनं गृह्णीयाद् अन्यथा नेति सिद्धम् । यत् तु यमेनोक्तम्,

राजकिल्बिषदग्धानां विप्राणाम् अकृतात्मनाम् ।
स्विन्नानाम् (?) इव बीजानां पुनर् जन्म न विद्यते ॥

इति, यद् अपि हारीतेन,

दशसूनासहस्राणि अह्ना राजा करोति वै ।
तान्य् एव कुरुते रात्रौ घोरस् तस्य प्रतिग्रहः ॥ इति ।

यद् अपि चतुर्विंशतौ,

राजप्रतिग्रहो घोरो मध्वास्वादो विषोपमः ।
पुत्रमांसं वरं भोक्तुं न तु राजप्रतिग्रहः ॥ इति ।

तद् उच्छास्त्रवर्तिराजप्रतिग्रहविषयम् । अत एव मनुः ।

यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः ।
स पर्यायेण यातीमान् नरकान् एकविंशतिम् ॥
तामिस्रम् अन्धतामिस्रं महारौरवरौरवौ ।
नरकं कालसूत्रं च महानरकम् एव च ॥
संजीवनं महावीचिं तपनं संप्रतापनम् ।
सहातं च सकाकोलं कुड्मलं प्रतिमूर्तिकम् ॥
लोहशङ्कुम् ऋजीषं च पन्थानं शाल्मलीं नदीम् ।
असिपत्रवनं चैव लोहदारकम् एव च ॥
एतद् विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः ।
न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयो ऽभिकाङ्क्षिणः ॥ इति ।

याज्ञवल्क्यो ऽपि ।

न राज्ञः प्रतिगृह्णीयाल् लुब्धस्योच्छास्त्रवर्तिनः ।
प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः ॥
दुष्टा दशगुणं पूर्वात् पूर्वाद् एते यथाक्रमम् ।

सूनी हिंसकः । चक्री तैलिकः । द्वजी मद्यविक्रेता । यमो पि ।

अराजन्यप्रसूतस्य राज्ञः स्वच्छन्दवर्तिनः ।
घोरः प्रतिग्रहस् तस्य मध्वास्वादो विषोपमः ॥
तथैव राजमहिषी राजामात्याः पुरोहिताः ।
पापेनार्थेन संयुक्ताः सर्वे ते राजधर्मिणः ॥ इति ।

अरजनप्रसूतः अक्षत्रियप्रसूतः । तथा पतितयाजने ऽपि दोषम् आह हारीतः - “पतितयाजनात् पतितसंकरियाजनात् संकरित्वम् उपैति । संकीर्णयाजनात् संकरैः संकीर्यते । शूद्रयाजनाज् जाततश् च्यवते” इति ।

याजनं योनिसंबन्धं स्वाध्यायं सहभोजनम् ।
कृत्वा सद्यः पतत्य् एव पतितेन न संशयः ॥ इति ।

पतितप्रतिग्रहे तु शुद्धौ विशेषम् आह उशना ।

पतिताद् द्रव्यम् आदाय भुङ्क्ते वा ब्राह्मणो यदि ।
कृत्वा तस्य समुत्सर्गं ह्य् अतिकृच्छ्रं चरेद् द्विजः ॥ इति ।

एवं शूद्रयाजने ऽपि द्रष्टव्यम् । तथा च सुमन्तुः - “शूद्रयाजकः सर्वद्रव्यपरित्यागात् पूतो भवति” इति । परित्यागे विशेषम् आह हारीतः - “शूद्रयाजको गर्हितं द्रव्यं नागह्रदे प्रक्षिप्य ब्राह्मणान् उपेत्य ब्रूयात् त्रायन्तु मां भवन्तो वर्णसाम्यम्” इति । नागह्रदो ऽअक्षोभ्यह्रदः । अत्र मनुः ।

आहृताभ्युद्यतां भिक्षां पुरस्ताद् अप्रचोदिताम् ।
मेने प्रजापतिर् ग्राह्याम् अपि दुष्कृतकर्मणः ॥ इति ।

आहृतां संप्रदानदेशम् आनीतां देयत्वेनोद्यतां संकल्पितां पुरस्ताद् अप्रचोदितां पूर्वं “तुभ्यं ददामि” इत्य् अकथितां भिक्षां प्रजापतिर् ग्राह्यां मन्यत इत्य् अर्थः । तथा च आपस्तम्बः ।

उद्यताम् आहृतां भिक्षां पुरस्ताद् अप्रवेदिताम् ।
भोज्यां मेने प्रजापतिर् अपि दुष्कृतकारिणः ॥ इति ।

भिक्षाग्रहणम् अन्येषां शय्यादीनाम् उपलक्षणार्थम् । अत एव मनुः ।

शय्यां गृहं कुशान् गन्धान् अपः पुष्पं मणिन् दधि ।
धानामत्स्यान् पयो मांसं शाकं चैव न निर्नुदेत् ॥

याज्ञवल्क्यो ऽपि ।

कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः ।
मांसं शय्यासना धानाः प्रत्याख्येयं न वारि च ॥

गौतमो ऽपि - “एधोदकयवसमूलफलमध्वभयाभ्युद्यतशय्यासनावसथयानपयो-दधिदानाशफरिप्रियङ्गुस्रङ्मार्गशाकान्य् अप्रणोद्यानि सर्वेषाम्” इति । शफर्यः सूक्ष्ममत्स्याः । अप्रणोद्यान्य् अप्र्त्याख्येयानि । तत्र हेतुम् आह भरद्वाजः ।

अयाचितोपपन्ने हि नास्ति दोषः प्रतिग्रहे ।
अमृतं तद् विदुर् देवास् तस्मात् तन् नैव निर्नुदेत् ॥ इति ।

प्रत्याख्याने ऽपि दोषम् आह मनुः ।

न तस्य पितरो ऽश्नन्ति दशवर्षाणि पञ्च च ।
न च हव्यं वहत्य् अग्निः यस् ताम् अभ्यवमन्यते ॥ इति ।

अत्र यमोक्तो विशेषः ।

रक्षसां गच्छते योनिं यस् ताम् अभ्यवमन्यते ।

इति एतद् अप्य् अनापत्प्रकरणात् पतितादिवर्जं वेदितव्यम् । अत एव याज्ञवल्क्यः ।

अयाचिताहृतं ग्राह्यम् अपि दुष्कृतकर्मणः ।
अन्यत्र कुलटाषण्डपतितेभ्यस् तथा द्विषः ॥ इति ।

कुलात् कुलम् अटतीति कुलटा स्वैरिणी । यमो ऽपि ।

चिकित्सकस्य मृगयोर् वेश्यायाः कितवस्य च ।
षण्डसूतिकयोर् एव उद्यतां परिवर्जयेत् ॥

मृगयुः व्याधः । कितवो द्यूतकृत् । सूनिको हिंस्रः । हारीतो ऽपि ।

चिकित्सककृतघ्नानां शल्यकर्तुश् च वार्धुषेः ।
षण्डस्य कुलटायाश् च उद्यताम् अपि वर्जयेत् ॥

वार्धुषेत् लक्षणं वसिष्ठेनोक्तम् ।

समर्घं धनम् आहृत्य महार्घं यः प्रयच्छति ।
स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥

यस्य पुनर् उक्तप्रशस्तप्रतिग्रहाद्यसंभवो विशुद्धत्वेन वैश्यादिवृत्त्यनाश्रयणं च तस्य गर्हितप्रतिग्रहाद्य् अपि न दोषायेत्य् आह मनुः ।

वैश्यवृत्तिम् अनातिष्ठन् ब्राह्मणः स्वे पथि स्थितः ।
अवृत्तिकर्शितः सीदन्न् इमं धर्मं समाचरेत् ॥

अवृत्तिकर्शितो वृत्त्यभावपीडितः । इमं वक्ष्यमाणम् इत्य् अर्थः ।

नाध्यापनाद् याजनाद् वा गर्हिताद् वा प्रतिग्रहात् ।
दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते ॥
पवित्रं दुष्यतीत्य् एतद् धर्मतो नोपपद्यते ।
जीवितात्ययम् आपन्नो यो ऽन्नम् अत्ति यतस् ततः ॥
सर्वतः प्रतिगृह्णीयाद् ब्राह्मणस् त्व् अनयं गतः ।
आकाशम् इव पापेन न स पापेन लिप्यते ॥

याज्ञवल्क्यो ऽपि ।

आपद्गतः संप्रगृह्णन् भुञ्जानो वा यतस् ततः ।
न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः ॥

बृहस्पतिर् अपि ।

वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः ।
अप्य् अकार्यशतं कृत्वा भर्तव्या मनुर् अब्रवीत् ॥

अत्र पुरावृत्तम् आह मनुः ।

अजीगर्तः सुतं हन्तुम् उपासर्पद् बुभुक्षितः ।
न चालिप्यत पापेन क्षुत्प्रतीकारम् आचरन् ॥
श्वमांसम् इच्छन्न् आर्तो ऽत्तुं धर्माधर्मविचक्षणः ।
प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् ॥
भरद्वाजः क्षुधार्तस् तु सपुत्रो विजने वने ।
बह्वीर् गाः प्रतिजग्राह पृथोस् तक्ष्नो महातपाः ॥
क्षुधार्तश् चात्तुम् अभ्यागाद् विश्वामित्रः श्वजाघनीम् ।
चण्डालहस्ताद् आदाय धर्माधर्मविचक्षणः ॥

श्वजाघनीं श्वपुच्छम् । अतो मुख्यवृत्तियसंभवे परवृत्त्याश्रयणाद् विगुणापि स्वकीयैव वृत्तिर् ज्यायसीति मन्तव्यम् । उक्तं च मनुना ।

वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः ।
परधर्मेण जीवन् हि सद्यः पतति जातितः ॥

अनेनैवाभिप्रायेण व्यासो ऽपि ।

द्वुजातिभ्यो धनं लिप्सेत् प्रशस्तेभ्यो द्विजोत्तमः ।
अपि वा जातिमात्रेभ्यो न तु शूद्रात् कथंचन ॥ इति ।

यदा तु गर्हितद्विजातिप्रतिग्रहाद्य् अपि न संभवति तदा शूद्राद् अपि प्रतिगृह्णीयाद् इत्य् उक्तं भवति । उक्तं चतुर्विंसतौ ।

सीदंश् चेत् प्रतिगृह्णीयाद् ब्राह्मणेभ्यस् ततो नृपात् ।
ततस् तु वैश्यशूद्रेभ्यः शङ्खस्य वचनं यथा ॥ इति ।

शूद्रप्रतिग्रहे तु विशेषम् आह अङ्गिराः ।

यत् तु राशीकृतं धान्यं खले क्षेत्रे ऽथ वा भवेत् ।
शूद्राद् अपि ग्रहीतव्यम् इत्य् आङ्गिरसभाषितम् ॥

यदा तु शूद्राद् अपि प्रतिग्रहासंभवः क्षत्रियादिवृत्त्यसंभवश् च तदा स्तैन्यं विहितम् इत्य् आह व्यासः ।

आपत्सु विहितं स्तैन्यं विशिष्टसमहीनतः ।
हीनाद् आदेयम् आदौ स्यात् समाद् वा तद् अनन्तरम् ॥
असंभवे त्व् आददीत विशिष्टाद् अपि धार्मिकात् । इति ।

अत्र कालनियमम् आह मनुः ।

तथैव सप्तमे भक्ते भक्तानि षडनश्नता ।
अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥
खलात् क्षेत्राद् अगाराद् वा यतो वाप्य् उपलभ्यते ।
आख्यातव्यं तु तत् तस्मै पृच्छते यदि पृच्छति ॥
ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदाचन ।
दस्युनिष्क्रिययोस् तु स्वम् अजीवन् हर्तुम् अर्हति ॥ इति ।

सप्तमे भक्ते चतुर्थे ऽह्नि प्रातःकाले । हीनकर्मण अब्राह्मणाद् इत्य् अर्थः । अत एव याज्ञवल्क्यः ।

बुभुक्षितस् त्र्यहं स्थित्वा धान्यम् अब्राह्मणाद् धरेत् ।

अत्र मनुः ।

वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च ।
तृणं च गोभ्यो ग्रासार्थम् अस्तेयं मनुर् अब्रवीत् ॥ इति ।

यमो ऽपि ।

तृणं काष्ठं फलं मूलं प्रकाशं वै हरेद् द्विजः ।
गोब्राह्मणार्थे गृह्णन् वै न स पापेन लिप्यते ॥ इति ।

नारदो ऽपि ।

शालिव्रीहितिलानां तु मुष्टिर् ग्राह्या विधीयते ।
यवगोधूमयोर् वापि यदि वा मुद्गमाषयोः ॥
एतेषां मानवैर् मुष्टिर् ग्रहीतव्यापदि स्थितैः ।
शाकं शाकप्रमाणेन गृह्यमाणं न दुष्यति ॥
ग्रहीतव्यानि पुष्पाणि देवतार्चनकारणात् ।
अदत्तदायिनं विद्याद् यद्य् अभ्यधिकम् इच्छति ॥

आपदि स्थितैर् अधिकम् इत्य् अर्थः, “तिलमुद्गमाषयवगोधूमादीनां सस्यमुष्टिग्रहणेषु न दोषः पथिकानाम्” इति स्मरणात् । याज्ञवल्क्यो ऽपि ।

द्विजः स्पृतौ (?) तु पुष्पाणि सर्वतः स्ववद् आहरेत् ।

स्ववत् अविशङ्कम् इत्य् अर्थः । एतत् सर्वम् आपदि परिग्रहविषयम् । अन्यथास्तेयम् इत्यादेर् अविवक्षितार्थत्वप्रसङ्गात् । अनापदि तु गौतमेनोक्तम् - “गोऽग्न्यर्थे तृणमेधान् वीरुद्वनस्पतीनां च पुष्पाणि स्ववद् आददीत फलानि चापरिवृतानाम्” इति । स्ववत् यथा तेषां पीडा न भवति तथाहर्तव्यम् इत्य् अर्थः,

पत्रं पुष्पं प्रचिन्वानो मूलच्छेदं तु वर्जयेत् ।
मालाकार इवारामे न यथाङ्गारकारकः ॥

इति व्यासस्मरणात् । अपरिवृतानाम् अदत्तवृत्तीनाम् अपरिरक्षितानाम् इति यावत् । अत एव परिगृहीते दण्डम् आह मनुः ।

तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् ।
अनापृष्टस् तु गृह्णानो हस्तच्छेदनम् अर्हति ॥

अत्र याज्ञवल्क्यः ।

विद्यातपोभ्यां हीनेन नैव ग्राह्यः प्रतिग्रहः ।
गृह्णन् प्रदातारम् अधो नयत्य् आत्मानम् एव च ॥
[आमपात्रे यथा न्यस्तं क्षीरं दधि घृतं मधु ।
नश्येयुः पात्रदौर्बल्यात् ते रसास् तच् च भाजनम् ॥
एवं हिरण्यं गाम् अश्वं वस्त्रं छत्रं तिलादिकम् ।
अपृष्ट्वा प्रतिगृह्णानो भस्मीभवति काष्ठवत् ॥ ] इति ।

एवं च विद्यावतो ऽर्थस्यैव प्रग्रहधिकारो नान्यस्येति सिद्धम् । यः पुनरुक्तप्रतिग्रहाधिकारे सत्य् अपि न प्रतिगृह्णाति तस्य फलम् आह याज्ञवल्क्यः ।

प्रतिग्रहसमर्थो ऽपि नादत्ते यः प्रतिग्रहम् ।
ये लोका दानशीलानां तान् स प्राप्नोति पुष्कलान् ॥

यमो ऽपि ।

प्रतिग्रहसमर्थस्य निवृत्तस्य प्रतिग्रहात् ।
य एव ददतो धर्मस्य एवाप्रतिगृह्णतः ॥
सर्ववेदाधिगमनात् सर्वदेवनिषेवणात् ।
गवां कोटिप्रदानाच् च श्रेयांस् तस्यापरिग्रहः ॥

इति स्मृतिचन्द्रिकायां प्रतिग्रहादिनिरूपणम्