४५ धनार्जनम्

अथ धनार्जनम्

तत्र दक्षः ।

तृतीये च तथा भागे पोष्यवर्गार्थसाधनम् । इति ।

अष्टधा विभक्तस्याह्नस् तृतीये भागे । चतुर्विंशताव् अपि ।

पोष्यवर्गार्थसिद्ध्यर्थं धनम् इच्छेत बुद्धिमान् । इति ।

पोष्यवर्गो ऽपि दक्षेण दर्शितः ।

माता पिता गुरुर् भार्या प्रजा दीनाः समाश्रिताः ।
अभ्यागतो ऽतिथिश् चाग्निः पोष्यवर्ग उदाहृतः ॥ इति ।

एतद् अपि यथावृत्ति कार्यम् । तथा च मनुः ।

यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिर् अगर्हितैः ।
अक्लेशेन शरीरस्य कुर्वीत धनसंचयम् ॥ इति ।

यात्रा प्राणवृत्तिः । स्वैः कर्मभिः यस्य यानि वृत्त्यर्थानि तैर् इत्य् अर्थः । तान्य् अपि तेनैव दर्शितानि ।

अध्यापनं चाध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहश् चैव षट्कर्माण्य् अग्रजन्मनः ॥ इति ।

अग्रजन्मा ब्राह्मणः । तत्र त्रीणि वृत्त्यर्थानि । त्रीणि धर्मार्थानि । यद् आह स एव ।

षण्णां तु कर्मणाम् अस्य त्रीणि कर्माणि जीविका ।
यजनाध्यापने चैव विशिष्टाच् च परिग्रहः ॥

अनेनाध्ययनादीनि त्रीण्य् एव अवश्यकर्तव्यानि न याजनादीनित्य् उक्तं भवति । उक्तं च गौतमेन - “द्विजातीनाम् अध्ययनम् इज्या दानं ब्राह्मणस्याधिकः (?) प्रवचनयाजनप्रतिग्रहाः पूर्वेष्व् अनियमाः” इति । ब्राह्मणग्रहणं क्षत्रियव्युदासार्थम् । अत एव मनुः ।

त्रयो धर्मा निवर्तन्ते ब्राह्मणात् क्षत्रियं प्रति ।
अध्यापनं याजनं च तृतीयश् च प्रतिग्रहः ॥
वैश्यं प्रति तथैवेति निवर्तेरन्न् इति स्थितिः । इति ।

एवं च यद् उक्तं मनुना,

अब्राह्मणाद् अध्ययन् आपत्काले विधीयते ।

इति, तद् अवृत्त्यर्थाध्यापनाभिप्रायम् । अन्यथा पूर्वोक्तवचनविरोधात् । कानि तर्ह्य् अनयोर् वृत्त्यर्थानीत्य् अपेक्षिते मनुर् आह ।

शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषिर् विशः ।
आजीवनार्थं धर्मस् तु दानम् अध्ययनं यजिः ॥ इति ।

शस्त्रास्त्रभृत्त्वं प्रजापालनद्वारेण जीवनार्थम् । वणिक्छब्देन तत्कर्म वाणिज्यं लक्ष्यते । पशुशब्देन तत्पालनम् । अत एव याज्ञवल्क्यः ।

प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् ।
कुसीदकृषिवाणिज्यपाशुपाल्यं विशः स्मृतम् ॥ इति ।

प्रधानं मुख्यं यतो धर्मार्थं वृत्त्यर्थं च,

क्षत्रियस्य परो धर्मः प्रजानां परिपालनम्।

इति मनुस्मरणात् । कुसीदं वृद्ध्यर्थं धनप्रयोगः । लाभार्थं क्रयविक्रयौ वाणिज्यम् । पाशुपाल्यं पशुरक्षणम् । अत्र विशेषम् आहतुः शङ्खलिखितौ - “गा रक्षेत तास्व् अपीतासु न पिबेन् न तिष्ठन्तीषूपविशेन् न स्वयम् उत्थापयेच् छनैर् आर्द्रशाखया पृष्ठतो हन्यान् नातीर्थेन विषमेनाल्पोदकेनावतारयेद् बालवृद्धरोगार्थश्रान्ता उपासीत शक्तितः प्रतीकारं कुर्याद् गवाम् एष धर्मो ऽन्यथा विप्लवः” इति । अत्र वृत्त्यन्तर्ण्य् आह मनुः ।

सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः ।
प्रोयोगः कर्मयोगश् च सत्प्रतिग्रह एव च ॥

दायो ऽन्वयागतं धनम् । लाभो निधेः, “निधिं ब्राह्मणो लब्ध्वा सर्वम् आदद्यात् । क्षत्रियश् चतुर्थम् अंशं राज्ञे दत्वा चतुर्थम् अंशं ब्राहमणेभ्यो दद्यात् । स्वयम् अर्धम् आदद्यात् । वैश्यश् चतुर्थम् अंशं राज्ञे दत्वा स्वयं चतुर्थम् अंशं गृहीत्वा ब्राह्मणेभ्यो ऽर्धं दद्यात् । शूद्रश् चावाप्तं द्वादशधा विभज्य पञ्चांशान् ब्राह्मणेभ्यो राज्ञे पञ्चांशान् स्वयम् अंशद्वयम् आदद्यात्” इति विष्णुस्मरणात् । क्रयः प्रसिद्धः । एते त्रयश् चतुर्णाम् अपि वर्णानां धर्म्याः । जयो युद्धेन क्षत्रियस्यैव । प्रयोगो वृद्ध्यर्थं धनप्रयोगः । कर्मयोगः कृषिवाणिज्यम् । एते वैश्यस्यैव । सत्प्रतिग्रहो ब्राह्मणस्यैवेति ।

ऋताम् ऋताभ्यां जीवेत् तु मृतेन प्रमृतेन वा ।
सत्यानृताभ्याम् अपि वा न श्ववृत्त्या कदाचन ॥
ऋतम् उञ्छशिलं ज्ञेयम् अमृतं स्याद् अयाचितम् ।
मृतं तु याचितं भैक्षं प्रमृतं कर्पणं स्मृतम् ।
सत्यानृतं च वाणिज्यं तेन चैवापि जीव्यते ।
सेवा श्ववृत्तिर् आख्याता तस्मात् तां परिवर्जयेत् ॥ इति ।

पतितपरित्यक्तैकैककणोपादानम् उञ्छः । शाल्यादेर् निपतितपरित्यक्तवल्लरीग्रहणं शिलम् । याज्ञवल्क्यो ऽपि ।

कुसूलकुम्भिधान्यो वा त्र्याहिको ऽश्वस्तनो ऽपि वा ।
जीवेद् वापि शिलोञ्छेन श्रेयान् एषां परः परः ॥ इति ।

कुसूलं कोष्ठकम् । तत्परिमितधान्यसंचिता कुसूलधान्यः । स वा स्यात् । कुम्भिधान्यः कुम्भपरिमितधान्यसंचेता । स वा स्यात्,

कुसूलधान्यको वा स्यात् कुम्भीधान्यक एव वा ।

इति मनुस्मरणात् । त्र्यहपर्याप्तधनसंचेता त्र्याहिकः स वा स्यात् । न स्वस्तनसंचयम् अस्यास्तीत्य् अश्वस्तनः । सद्यः प्रक्षालक इत्य् अर्थः । स वा स्याद् इति । तेषां अश्वस्तनान्तानां वृत्तयो मनुनोक्ता वेदितव्याः ।

षट्कर्मैको भवत्य् एषां त्रिभिर् अन्यः प्रवर्तते ।
द्वाभ्याम् एकश् चतुर्थस् तु ब्रह्मसूत्रेण जीवति ॥ इति ।

अस्यार्थः - एकः कुसूलधान्यो यजनादिषट्कर्मा भवेत् । अन्यो द्वितीयः त्रिभिर् याजनाध्यापनप्रतिग्रहैर् वर्तते । एकस् तृतीयः द्वाभ्यां प्रतिग्रहेतराभ्याम् । चतुर्थस् तु ब्रह्मसूत्रेणाध्यापनेनेति । एते च कुसूलधान्यत्वादयो ब्राह्मणस्यैव, इतरस्य प्रतिग्रहादेर् असंभवात् । शिलोञ्छे तु वर्णत्रयसाधारणे । तथा च आपस्तम्बः - “स्वकर्म ब्राह्मणस्याध्ययनम् अध्यापनं यज्ञो याजनं दानं प्रतिग्रहणं दायाद्यं शिलोञ्छः । अन्यच् चापरिगृहीतम् । एतान्य् एव क्षत्रियस्याध्यापनयाजनप्रतिग्रहणानीति परिहाप्य दण्डयुद्धाधिकानि । क्षत्रियवैश्यस्य दण्डयुद्धवर्जं कृषिगोरक्ष्यवाणिज्याधिकम्” इति । पराशरस् तु कलाव् अविशेषेण चतुर्णाम् अपि कृष्यनुग्रहम् आह ।

अतः परं गृहस्थस्य कर्माचारं कलौ युगे ।
धर्मं साधारणं शक्त्या चातुर्वर्ण्याश्रमागतम् ॥
तं प्रवक्ष्याम्य् अहं पूर्वं पराशरवचो यथा ।
षट्कर्मसहितो विप्रः कृषिकर्म च कारयेत् ॥
स्वयं कृष्टे तथा क्षेत्रे धान्यैश् च स्वयम् आर्जितैः ।
निर्वपेत् पञ्चयज्ञांश् च क्रतुदीक्षां च कारयेत् ॥
क्षत्रियो ऽपि कृषिं कृत्वा देवान् विप्रांश् च पूजयेत् ।
वैश्यः शूद्रस् तथा कुर्यात् कृषिवाणिज्यशिल्पकम् ॥
चतुर्णाम् अपि वर्णानाम् एष धर्मः सनातनः ॥

अत्र विशेषम् आह हारीतः ।

न पर्वसु संधिवेकयोर् वाहयेत् ।
अष्टगवं धर्म्यहलं षड्गवं जीवितार्थिनाम् ।
चतुर्गवं नृशंसानां द्विगवं ब्रह्मघातिनाम् ॥
बालानां दमनं चैव वाहनं च न शस्यते ।
वृद्धानां दुर्बलानां च प्रजापतिवचो यथा ॥

पराशरो ऽपि ।

क्षुधितं तूषितं श्रान्तं बलीवर्दं न योजयेत् ।
हीनाङ्गं व्यथितं क्लीबं वृषं विप्रो न वाहयेत् ॥
वाहयेद् दिवसस्यार्धं पश्चात् स्नानं समाचरेत् ।

सानम् अत्र बलीवर्दानाम् । अत एव हारीतः ।

स्नापयित्वानडुहो ऽलंकृत्य ब्राह्मणान् भोजयेत् । इति ।

अत्र कूर्मपुराणम् ।

लब्धलाभः पितॄन् देवान् ब्राह्मणांश् चापि पूजयेत् ।
ते तृप्तास् तस्य तद् दोषं शमयन्ति न संशयः ॥
देवेभ्यश् च पितृभ्यश् च दद्याद् भागं तु विंशकम् ।
त्रिंशद्भागं ब्राह्मणानां कृषिं कुर्वन् न दुष्यति ॥

बृहस्पतिर् अपि ।

राज्ञो दद्यात् तु षड्भागं देवतानां च विंशकम् ।
त्रिंशद्भागं तु विप्राणां कृषिं कुर्वन् न दुष्यति ॥

हारीतो ऽपि ।

यूपो ऽयं निहितो मध्ये मेधिनाम् इह कर्षकैः ।
तस्माद् अतन्द्रितो दद्याद् अत्र धान्यार्थदक्षिणाः॥
भूमिं भित्वौषधीश् छित्वा हत्वा कीटपिपीलिकाः ।
पुनन्ति खलयज्ञेन कर्षका नात्र संशयः ॥

अत एव तस्याकरणे दोषः पराशरेण दर्शितः ।

यो न दद्या द्विजातिभ्यो राशिमुलम् उपागते ।
स चोरः स च पापिष्ठः ब्रह्मघनं तं विनिर्दिशेत् ॥

पुराणे शङ्करो ऽपि ।

अदत्वा कर्षको देवि यस् तु धान्यं प्रवेशयेत् ।
तस्य तृष्णाभिभूतस्य यत् पापं तद् ब्रवीम्य् अहम् ॥
दिव्यं वर्षसहस्रं तु दुरात्मा कृषिकारकः ।
मरुदेशे भवेद् वृक्षः स पुष्पफलवर्जितः ॥
तस्यान्ते मानुषो भूत्वा कदाचित् कलपर्ययात् ।
दरिद्रो व्याधितो मूर्खः कुलहीनश् च जायते ॥

कूर्मपुराणे तु गृहस्थभेदेन वृत्तिव्यवस्था दर्शिता ।

द्विविधस् तु गृही ज्ञेयः साधकश् चाप्य् असाधकः ।
अध्यापनं याजनं च पूर्वस्याहुः प्रतिग्रहम् ॥
शिलोञ्छेनाप्य् उपादद्याद् गृहस्थः साधकः पुनः ।
असाधकस् तु यः प्रोक्तो गृहस्थाश्रमसंस्थितः ॥
शिलोञ्छे तस्य कथिते द्वे वृत्ती परमर्षिभिः ।
अमृतेनाथ वा जीवेन् मृतेनाप्य् अथ वा यदि ॥
अयाचितं स्याद् अमृतं मृतं भक्षं तु याचितम् ॥ इति ।

शूद्रवृत्तयस् तु उशनसा दर्शिताः ।

शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि वाप्य् अथ ।
विक्रयः सर्वपण्यानां शूद्रकर्म उदाहृतः ॥ इति ।

शिल्पानि विचित्रकर्माणि । विप्रशुश्रूषा धर्मार्था,

विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते ।

इति मनुस्मरणात् । विशिष्टम् उत्कृष्टम्, तस्य धर्मवृत्तिहेतुत्वात् । सर्वलिल्पानीत्य् आपद्विषयम् । यद् आह याज्ञवल्क्यः ।

शूद्रस्य द्विजशुश्रूषा तया जीवन् वणिग् भवेत् ।
शिल्पैर् वा विविधैर् जीवेद् द्विजातिहितम् आचरेत् ॥

यैः शिल्पैर् द्विजातयः शुश्रूष्यन्ते तैर् इत्य् अर्थः । तथा च मनुः ।

यैः कर्मभिः प्रचरितैः शुस्रूष्यन्ते द्विजातयः ।
तानि कारुककर्माणि शिल्पानि विविधानि च ॥

तानि च देवलेन दर्शितानि - “शूद्रधर्मो द्विजातिशुश्रूषा पापवर्जनं कलत्रादिपोषणं कर्षणं पशुपालनं भारोद्वहनपण्यापण्यव्यवहारचित्रकर्मनृत्तगीतवेणुवीणामुरज-मृदङ्गवदनानि” इति । तस्य चोच्छिष्टादि देयम् । तथा च मनुः ।

उच्छिष्टम् अन्नं दातव्यं जीर्णानि वसनानि च ।
पुलकाश् चैव धान्यानां जीर्नाश् चैव परिच्छदाः ॥

असम्यक् कृष्टाः पुलकाः । परिच्छदा उपानत्प्रभृतयः ॥

इति स्मृतिचन्द्रिकायां धनार्जनम्